SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ठवणा १६८३-अभिधानराजेन्द्रः भाग-४ ठवणा . ष्टव्यम्। तथा पङ्क्तिस्थिते गृहत्रये उपयोगावकाशसंभवे सति, हस्तगतासु / तिसृषु भिक्षास्वेकः, साधुरेका भिक्षां सम्यगपयोगेन परिभावयन् गृह्णाति। द्वितीयस्तुद्वयोर्गृहयोर्हस्तगतेद्वे भिक्षेपरि-भावयति। ततो गृहत्रयात्परतो यावद् गृहान्तरं न भवति, तावन्न तस्य स्थापनादोषः / गृहान्तरे तु साधुनिमित्तं हस्तगता भिक्षा स्थापना, तत्रोपयोगासंभवात्। तत्र एनामेव गाथां भाष्यकृद् व्याचिख्यासुः प्रथमतः स्वस्थान-माह-- चुल्ली अवचुल्लो वा, ठाणट्ठाणं तु भायणं पिढरे। सट्ठाणट्ठाणम्मि य, भायणठाणे य चतुभंगा / / द्विविध स्थानम्। तद्यथा-स्थानस्वस्थानं, भाजनस्वस्थानं च। तत्र स्थानरूपं स्वस्थानम्-चुल्ली, अवचुल्लो वा / चुल्ल्या अव पश्चात् अवचुल्लः / राजदन्ताऽऽदित्वादवशब्दस्य पूर्वनिपातोऽदन्तता च। तत्र चुल्ली प्रतीता। अवचुल्लो अवह्नकः। एतयोश्च स्थितं सद्भक्तं पच्यते। तत एतौ स्थानरूपं स्वस्थानम्। भाजनरूपं तु स्वस्थानपिठरं स्थाली, तत्र स्थानस्वस्थाने, भाजनस्वस्थानेचचत्वारो भङ्गाः। तद्यथा-चुल्ल्या स्थापित, पिठरे च / चुल्ल्यां स्थापितं, न पिठरे; छचकाऽऽदौ स्थापितत्वात्।नचुल्ल्यां, किंतु पिठरे। तच चुल्ल्यवचुल्लाभ्यामन्यत्र प्रदेशान्तरे स्थापितं द्रष्टव्यम् / न चुल्लयां, न पिठरे, चुल्ल्यवचुल्लाभ्यामन्यत्र छचकाऽऽदौ स्थापितमित्यर्थः। संप्रति परस्थानमाहछच्चगवारगमाई, होइ परट्ठाणमो अणेगविहं / सट्ठाणे पिढ रे छ-चगे य एमेव दूरे य / / छच्चकवारकाऽऽदिकम् , अनेकविधं, परस्थानं परभाजनं भवति द्रष्टव्यम् / तत्र छच्चकं पटलिकाऽऽदिरूपम् / वारकोलघुघटः / आदिशब्दात्पाकभाजनवर्जचुल्ल्यवचुल्लवर्जशेषसकलभाजनपरिग्रहः / अत्रापि स्वस्थानपरस्थानापेक्षया चतुभङ्गी। तद्यथास्वस्थाने स्वस्थाने, स्वस्थाने परस्थाने, परस्थाने स्वस्थाने, परस्थाने परस्थाने। एनाभेव चतुर्भङ्गी दर्शयति-" सट्ठाणे " इत्यादि। अत्र(सट्ठाणे पिढरे छचगे य इति) अनेन भङ्गद्वय सूचितम्, स्वस्थानस्य पिठरछचकाभ्यां प्रत्येकमभिसंबन्धात्। तद् यथास्वस्थाने चुल्ल्यादौ, पिठरे वा, तथा स्वस्थाने चुल्लयादौ, छचके च / परस्थाने (एमेव दूरं य त्ति) इह दूर चुल्ल्यवचुल्लाभ्यामन्यत् प्रदेशान्तरं, तत्रापि तदपेक्षयाऽपि, एवमेव भगद्वयं द्रष्टव्यम् / तद्यथा-भाजनरूपे स्वस्थाने पिठरे परस्थानेऽन्यत्र प्रदेशान्तरे, तथा परस्थानेऽन्यत्र प्रदेशान्तरेपरस्थाने छचकाऽऽदाविति / सर्वसंख्यया चत्वारो भङ्गाः। तदेवदेवं मूलगाथायाः-" सट्टाणे" इत्यादि पूर्वार्द्ध व्याख्यातम्। अथ" खीरादिपरंपरए" इति व्याचिख्यासुराहएकेकं तं दुविहं, अणंतरपरंपरे य नायव्वं / अविकारि कयं दव्वं, तं चेव अणंतरं होई॥ तत् साधुनिमित्तं स्थानम् , एकैकं स्वस्थानपरस्थानगत द्विविध ज्ञातव्यम् / तद्यथा-अनन्तरे अन्तराभावे, विकाररूपव्यवधानाभावे इत्यर्थः / परम्परके, विकारपरम्परायामित्यर्थः / तत्र यत् कर्ता स्वयोगेनाविकारिभूयोऽसंभवविकारिघृतगुडाऽऽदि, तत्कृतं, न हि तस्य | / भूयोऽपि विकारः संभवति, तत् साधुनिमित्तं स्थापितमनन्तरस्थापितम्। उपलक्षणमेतत्-तेन क्षीराऽऽदिकमपि यस्मिन् दिने साधुनिमित्त स्थापितं, यदि तस्मिन्नेव दिने ददाति, तर्हि तदपि दध्यादिरूपं विकारान्तरमनापद्यमानमनन्तरस्थापितं द्रष्टव्यम्। तदेव तु क्षीरं साधुनिमित्तं धृतं सद्दध्यादिरूपतया परिकर्म्यमाणं परम्परास्थापितं भवति। एवमिक्षुरसाऽऽदिकमपि तस्मिन्नेव दिने स्थापितं दीयमानमनन्तरस्थापितम्। कक्कवाऽऽदिरूपतया तुपरिकर्म्यमाणं परम्परास्थापितमिति। सम्प्रति विकारीतराणि द्रव्याणि प्रतिपादयतिउच्छूखीराईयं, विगारि अविगारि घयगुडाईयं / परियावज्जणदोसा, ओयणदहिमाइयं वा वि॥ इक्षुक्षीराऽऽदिकं विकारि, तस्य कक्कवाऽऽदिदध्यादिविकारसहितत्वात् / तथा ओदनदध्यादिकमपि करम्बाऽऽदि रूपं विकारि। कुतः ? इत्याह-पर्यायाऽऽपादनादोषात् / करम्बाऽऽदिक हि क्रियमाणं नियमात्पर्यापद्यते, कोथमायातीत्यर्थः / ततस्तदपि वि-कारिद्रष्टव्यम्। तदेवं विकारीतराणि द्रव्याण्यभिहितानि। सम्प्रति क्षीराऽऽदिक परम्परास्थापितं भावयतिउन्भट्ठ परिन्नावं, अन्नं लद्धं पओयणे घेत्थी। रिणभीया व अगारी, दहि त्ति दाहं सुएठवणा।। नवणीय मंथु तकं, ति जाव अत्तट्ठिया य गिण्हंति। देसूणा जाव घयं, कुमुणं पि य जत्तियं कालं / / .' उन्भटुं" केनापि साधुना कस्याश्चिदगारिण्याः सकाशे क्षीरमभ्यर्थितम् / ततस्तया प्रतिज्ञातम्-क्षणान्तरे दास्यामि / साधुना चान्यत्रान्यत् क्षीरं लब्धम्। ततः पूर्वमभ्यर्थितया अगारिण्या दुग्धसंप्राप्ती सत्यां साधु प्रति प्रत्यवादि-गृहाण भगवन् ! इदं दुग्धमिति / साधुना चोक्तम्-लब्धमन्यत्र मया दुग्धं, ततो यदि भूयोऽपि प्रयोजनं भविष्यति, ततो (घेत्थी) ग्रहीष्यामि / एवमुक्ते सा अगारिणी ऋणभीतेव स्वयं नो वुभुजे। किं च। एवं चिन्तयामास-इवः कल्ये, दधि कृत्वा दास्यामीति। तत एवं चिन्तयित्वा स्थापयति / ततो द्वितीयदिने दधि जातं, तदपि साधुनान गृहीतं, तद् नवनीतं तक्रं च जातं, नवनीतमपिघृतं कृतम्। इह क्षीराऽऽदिकं सकलमपि स्थापनादोषदुष्टत्वात् साधूनांन कल्पते।यद्वाक्षीराऽऽदिकं यावद् नवनीतं, मस्तु, तक्रं वा, तावदेतानि सर्वाण्यप्यात्मार्थीकृतानि मा गृहीयात् साधुः / कुटुम्बे भविष्यतीत्येवमात्मसत्ताकीकृतानि तु साधवो गृहन्ति / घृतं त्वात्मार्थीकृतमपि तेजस्कायाऽऽरम्भादाधाकमेंति न कल्पते / घृतं च स्थापितं सत् तावत् घटते यावद्देशोना पूर्वकोटी। तथाहि-पूर्वकोट्यायुषा केनापि साधुना वर्षाष्टकप्रमाणेन कस्याश्चित पूर्वकोट्यायुषोऽगारिण्यः पावें घृतं ययाचे / तयोक्तम्-क्षणान्तरे दास्यामि / साधुना चान्यत्र घृतं लब्धम्। ततः सा ऋण-भीतेव तावदघृतं धृतवती यावत् साधोरायुः। ततो मृते साधौ तदन्यत्रोपयुक्तमिति नास्ति स्थापना / (इह वर्षाष्टकस्याधः पूर्व-कोटेरुपरि च चारित्रं न भवति / चारित्रिणं चाधिकृत्य स्थापनादोषः, ततो देशोना पूर्वकोटीत्युक्तम् ) एवं गुडाऽऽदेरप्यविनाशिनो द्रव्यस्य यथायोग स्थापनाकालपरिमाणं द्रष्टव्यम्।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy