________________ ठवणा 1652- अभिधानराजेन्द्रः भाग-४ ठवणा एतेन तदभ्युपगतव्यवहारोऽपि निरस्त इत्याहएतेन व्यवहारोऽपि, स्थापनाऽनाग्रहो हतः। तत्रार्द्धजरतीयं किं, नाम्नाऽपि व्यवहर्तरि ? / / 107 / / (एतेनेति) एतेनानुपदोक्तयुक्तिकदम्बकेन संग्रहस्थापनाव्यवस्थापनेन, व्यवहारोऽपि, स्थापनाया अनाग्रहोऽस्वीकारो, हतो निरस्ता, केषाञ्चिदाचार्याणाम् , यतस्तत्र व्यवहारे, नाम्नाऽपि नामनिक्षेपेणापि, व्यवहर्तरि व्यवहारमभ्युपगच्छति, किमिदमर्द्धजरतीयम् ? यदुत स्थापनया व्यवहार इति, न हीन्द्रप्रतिमायां नेन्द्रव्यवहारो भवति, तत्राभवन्नपि भ्रान्त एव / न वा नामाऽऽदिप्रतिपक्षव्यवहारसाङ्कर्यम्: इत्येकमाद्रियमाणस्यापरं च परित्यजतः केवलमाहोपुरुषिकामात्रमेवेति / / नयो०। अथ सामान्येनैव स्थापनायाः स्वरूपमाहजं पुण तदत्थसुण्णं, तयभिष्पाएण तारिसाऽऽगारं। कीरइ व निरागारं, इत्तरमियरं व साठवणा // 26 // सा स्थापनाऽभिधीयते, यत् , किम् ? इत्याह-यत्क्रियतेइन्द्राऽऽदिस्थापनारूपतया विधीयते वस्तु, पुनःशब्दो नामलक्षणात् स्थापनालक्षणस्य वैसदृश्यद्योतकः। केन? इत्याह-तदभिप्रायेणतस्य सद्भूतेन्द्रस्याभिप्रायोऽध्यवसायस्तेन / कथंभूतं तद्वस्तु ? इत्याहतदर्थशून्य-स चासावर्थश्च तदर्थःसद्भतेन्द्रलक्षणः, तेन शून्य तदर्थशून्यम् / पुनरपि कथम्भूतम् ? तादृशाऽऽकारंसद्भूतेन्द्रसमानाऽऽकारं, वाशब्दस्य भिन्नक्रमत्वान्निराकारं वा, सद्भूतेन्द्राऽऽकारशून्यमित्यर्थः / चित्रलेप्यकाष्ठापाषाणाऽऽदिषु तादृशाऽऽकारं भवति, अक्षाऽऽदिषु तु निराकारमित्यर्थः / पुनः किंभूतम् ? इत्वरम् - अल्पकालीनम् / इतरदायावत्कथिकम् / तत्रेत्वरं चित्राक्षाऽऽदिगतम्। यावत्कथिकं तुनन्दीश्वरचैत्यप्रतिमाऽऽदि / तदपि हि ' तिष्ठतीति स्थापना ' इति स्थापनात्वने समय निर्दिष्टमेव / तदिदमिह तात्पर्यम्यद्वस्तु सद्भूतेन्द्रार्थशून्यं सत्तबुद्ध्या तादृशाऽऽकारं, निराकारं वा स्तोककालं, यावत्कथिकं वा स्थाप्यते सा स्थापनेति / प्रकते योजना तु इत्थं क्रियते-चित्रकर्माऽऽदिगतः परममुनिः, स्थापनं स्थापना, तया मङ्गलम् , स्थाप्यते इति वा स्थापना, तया मङ्गलं ; स्थापनामङ्गलमिति व्यपदिश्यते / इति गाथाऽर्थः / / 26 // अथ भाष्यकारः स्वयमेव नामस्थापनामङ्गलयोरुदाहरणमुप दर्शयन्नाहजह मंगलमिह नामं,जीवाजीवोमयाण देसीओ। रूढं जलणाईणं, ठवणाए सोत्थियाईणं / / 27 / / यथाशब्द उदाहरणोपन्यासार्थः / क्व यथा ? इत्याह-जीवाजीवोभयानां ज्वलनाऽऽदीनां, देशीतो देशीभाषया, मङ्गलमिति नाम रूढम्। तत्र जीवस्याग्नेर्मगलमिति नाम रूढम् , सिन्धुविषये अजीवस्य दवरकवलनकस्य मङ्गलमिति नाम रूढम् , लाटदेशे जीवाजीवोभयस्य तु मङ्गलमिति नाम रूढं वन्दनमानायाः, दवरिकाऽऽदीनामिहाचेतनत्वात् , पत्राऽऽदीनां तु सचेतनत्वाद् जीवाजीवोभयत्वं भावनीयम् / स्वस्तिकाऽऽदीनां तुया स्थापनालोके, तस्या रूढं स्थापनामङ्गलत्वमिति शेषः / इतिगाथाऽर्थः / / 27 // विशे०। " ठविओ य आरियत्ते, जम्हा तू तेण ठवण त्ति।" पं०भा०। पण्डितनगर्षिकृतप्रश्नः-गणधराः प्रतिक्रमणं कुर्वाणाः स्थापना कुर्वन्ति, न वा ? कुर्वाणा अपि तीर्थङ्करस्य, अन्यस्य वा ? इति प्रश्ने, उत्तरम्-तीर्थङ्करस्य देवगुरुरूपत्वेन तत्समीपे प्रतिक्रमणाऽऽदि कुर्वता स्थापनाप्रयोजनं न स्यात् , जिनपरोक्षे तत्कुर्वतां तु स्थापनाकरणमात्मनामिवेति संभाव्यते / / प्र० / ही० 3 प्रका० / दीपवन्दिरसङ्घकृतप्रश्नः-अक्षमालाऽऽदिका स्थापना या नमस्कारेण विधीयते, तदुपरि उद्द्योते दृष्टिरक्षणं सुकरम् , अन्धकारे कथं च भवति ? तद्धीना च स्थापना शुद्ध्यति, न वा ? इति प्रश्ने, उत्तरम्-अत्र अक्षमालापुस्तकाऽऽदिकस्थापना नमस्कारेण स्थाप्यते, स्थापनाऽनन्तरं च क्रियाकरणं यावदुद्द्योते यथाशक्ति दृष्ट्युपयोगौ रक्ष्येते अन्धकारे, दृष्ट्युपयोगयोरन्तरे जाते तु पुनः स्थापनां कृत्वा अग्रतः क्रिया क्रियते। यतः स्थापना द्विधाइत्वरा, यावत्कधिका च / तत्र इत्वराऽक्षमालाऽऽदिका, या नमस्कारेण स्वयं स्थापिता दृष्टियुपयोगयोः सतोरेव तिष्ठति / यावत्कथिका चाक्षप्रतिमाऽऽदिका या गुरुसकाशात्स्थाप्यते, सा पुनः पुनः स्थापिता न विलोक्यते इति। 6 प्र०। ही०४ प्रका० / कायोत्सर्गे वन्दनकदानावसरे च स्थापनाऽऽचार्यचालनं य शुध्यति, न वा ? इति प्रश्ने, उत्तरम्-अत्र कायोत्सर्गकरणावसरे, वन्दनकदानावसरे च स्थापनाऽऽवार्यचालनं न शुद्ध्यतीत्येकान्तो ज्ञातो नास्तीति। 14 प्र०। ही० 4 प्रका०ा पण्डितगुणविजयगणिकृतप्रश्नः-स्थापनाः कियति प्रदेशे ऊर्ध्वमधस्तिर्यक् च दूरे स्थापिताः क्रियाशुद्धिहेतवो भवन्ति ? इति प्रश्ने, उत्तरम्-अत्रोद्ध मस्तकात् पादयोरधस्तात् तिर्यक् च द्रष्टुमशक्ये स्थाने स्थापिताः स्थापनाः क्रियाशुद्धिनिमित्तं न भवन्तीति वृद्धवादः / यत्तु-उपरितनभूम्यादौ स्थापितासु तासु अधस्तनभूम्यादौ क्वापि क्रियायाः क्रियमाणत्वं, तत्कारणिकमिति ज्ञेयम्। 4 प्र०ाही०२ प्रका०। स्थापने, नं०।' णिक्खेवो स्थापनाऽभ्यासक इत्यनान्तरम् / आ० चू०१ अ० / न्यासे, पञ्चा०२ विव० / निधानं निधिर्निक्षेपो न्यासो विरचना प्रस्तारः स्थापनेति पर्यायाः। अनु०। (जिनबिम्बस्थापना' चेइ-य' शब्दे तृतीयभागे 1270 पृष्ठे निरूपिता, सा च तत एवावधाय्या) पञ्चमे उद्गमदोषे, स्था०३ ठा०४ उ०। स्थाप्यते साधुनिमित्त कियन्तं कालं यावन्निधीयते इति स्थापना / यद्वास्थापनं साधुभ्यो देयमिदमिति बुद्ध्या देववस्तुनः। कियन्तं कालं व्यवस्थापनं स्थापना, तद्योगाद्देयमपि स्थापना / स्वस्थाने चुल्लीस्थाल्यादौ, परस्थाने सुस्थितकछचकाऽऽदौ चिरकालमित्वरकालं च साधुदाननिमित्तं धार्यमाणमशनाऽऽदिकं स्थापनेति व्युत्पत्तेः / प्र-व०६७ द्वार। पिं०। पं०व०। पञ्चा०ा आचा० ध०। उत्त०1 ग०। दर्श०। अथ स्थापनाद्वारमाहसट्ठाणे परट्ठाणे, दुविहं च ठियं तु होइ नायव्वं / खीराऽऽदिपरंपरए, हत्थगयघरंतरं जाव॥ स्थापितं साधुनिमित्तं, घृतभक्ताऽऽदि। तच द्विधा। तद्यथा-स्वस्थाने, परस्थाने च / तत्र स्वस्थानं-चुल्ल्यवचुल्लाऽऽदि / परस्थाने - छचकाऽऽदि। एकैकं द्विधा-अनन्तरं, परम्परं च। तत्र यस्य साधुनिमित्त स्थापितस्य सतो विकारान्तरं न भविष्यति, यथा घृताऽऽदि, तदनन्तरस्थापितम् / क्षीराऽऽदिकं तु, परम्परके परम्परास्थापितम्। तथाहि-क्षीरं स्थापितं सद्दधि भवति, दधि भूत्वा नवनीतं, नवनीत भूत्वा धृतं, ततो यदेव साधुनिमित्तं क्षीरं धृत्वा घृतीकृत्य ददाति, तदा तत् क्षीरं परम्परास्थापितं भवति / एवमन्यदपीक्षुरसाऽऽदिकं द्र