________________ ठवणा 1681- अभिधानराजेन्द्रः भाग - 4 ठवणा समरसाऽऽपत्तेः / स्थाप्येन तदपि मुख्या, हन्तैषैवेति विज्ञेया॥१॥" इति / नन्वेवं निश्चयतः स्थापनाया आत्मगतायाः प्राप्तौ प्रतिमायां तद्व्यवहारः कथम् ? अत आह-बिम्बे च, सा स्थापना उपचारतः, स्वाऽऽत्मनि स्थापितस्य भावस्याऽऽलम्बनतयः समापत्तिविषयीक्रियमाणस्य परमाऽऽत्मनः साकारयोगमुद्राऽनुकारितया वा लक्षणया एव इत्यर्थः / / 102 // नन्चेवं यजमानगतादृष्टमेव प्रतिष्ठाफलं भवद्भिरुपपादितम् ,ता-वता वन्दकपूजकाऽऽदीनां का सिद्धिः ? सा हि तदा स्यात् , यदि प्रतिष्ठाऽऽहितश्चाण्डालाऽऽदिस्पर्शनाश्यः पूजाफलप्रयोजकः कश्चिदतिशयोऽभ्युपगतः स्यात्, प्रतिष्ठितप्रतिमावन्दनपूजननत्यादिना फलविशेषहेतुत्वस्य इत्थमेव वक्तुं शक्यत्वात् / न च यजमानगतादृष्ट तदाहितं, तथा चाण्डालाऽऽदिस्पर्शेन व्यधिकरणेन तन्नाशयोगाद् यजमानस्य तददृष्टक्षये पूज्यत्वानापत्तेः / एतेन संबन्धविशेषण यजमानगतादृष्टस्य प्रतिमागतत्वसमर्थनमपि प्रत्याख्यातम्। यत्तु-प्रतिष्ठाविधेर्देवतासंविधानस्य स्वाभेदस्वीयत्वाऽऽदिज्ञानतदाहितसंस्काररूपस्य उत्पादात् फलोत्पत्तिः, चाण्डालाऽऽदिस्पर्श च तदभावात् फलभाव इति कस्यचिद् मतम्। तत्तु मुक्तिप्रतिष्ठितदेवताया अभिमानाभावात् , प्रतिष्ठया तदुपकरणस्य अशक्यक्रियत्वात् चाऽऽचार्यरव दूषितम् / तदुक्तम्-" मुक्त्यादौ तत्त्वेन, प्रतिष्ठिताया न देवतायास्तु। स्थाप्ये न च मुख्ये तत् , तदधिष्ठानाऽऽद्यभावेन"।१। इत्यादेन च तस्या उपकारः कश्चिदत्र मुख्य इति तदतत्त्वकल्पनैषा बालक्रीडासमा भवतीति। यदपि-" प्रतिष्ठितं पूजयेत् " इति विधिः प्रतिष्ठाकालीनयावदस्पृश्यस्पर्शाभावविशिष्टः प्रतिष्ठाध्वंसः, तद्विशिष्टप्रतिमापूजनं वा फलप्रदं, तप्रत्ययादतीतत्वलाभात्" इति गङ्गेशोपाध्यायैरुक्तम्। तदपितुच्छम्। प्रतिष्ठारूपायां पूजायामेवाऽऽगतेः, तत्र ध्वंसस्यैव फलजनकव्यापारस्याऽऽश्रयणे चादृष्टमात्रस्यैव दत्तजलाञ्जलित्वप्रसङ्गात् / कथं चैव प्रतिष्ठितेऽप्यप्रतिष्ठितत्वज्ञाने न पूजाफलम् ? प्रतिष्ठाध्वंसवत्त्वेन प्रमीयमाणत्यस्य पूजाफलजनकताऽवच्छेदककोटौ निवेशेन प्रतिष्ठावत्वेन प्रमीयमाणत्वस्यैव निवेशौचित्यम्, इति नकिश्चिदेतत्। तस्माद्वन्दनपूजनाऽऽदिफलप्रयोजकत्वं कथं प्रतिष्ठायाः? इति जिज्ञासायामाहप्रतिष्ठितप्रत्यभिज्ञा-समापन्नपराऽऽत्मनः। आहार्याऽऽरोपतःसाच, द्रष्टणामपि धर्मभूः / / 103 / / (प्रतिष्ठितेति) सा स्थापना, प्रतिष्ठितप्रत्यभिज्ञया, समापन्नो यः पराऽऽत्मा भगवान् , तस्य, आहार्याऽऽरोपतः, द्रष्टणाम, उपलक्ष-णाद् वन्दकानां पूजकानां च,धर्मभूः धर्मकारणं भवति। अयं भावः-प्रतिमायां भगवदभेदाऽऽरोपं विना न तावद्वन्दनपूजनाऽऽदिफलं हेतुसहस्रेणापि संपद्यते, स च काष्ठपापाणत्वाऽऽदिना भेदप्रत्यक्ष सति स्वरसतो नोदयतीत्याहार्य एव संपादनीयः। आहार्यत्वं चेच्छाजन्यत्वम्। इच्छा च इष्टसाधनताज्ञानसाध्या, इति इष्टसाधनताज्ञानसंपादनाय प्रतिष्टिता प्रतिमां भगवदभेदेन अध्यारोपयेदिति विधिः कल्पनीयः / तथा चाऽऽहार्यभगवदध्यारोपविषयप्रतिमापूजनत्वाऽऽदिना फलविशेषहेतुत्वे आहार्यत्वप्रयोजकेच्छाजनकज्ञानविशेष्यताऽवच्छेदककुक्षिप्रविष्टत्वेन प्रतिष्ठाया अपि परम्परया प्रयोजकत्वमित्युक्तं भवति।" प्रतिष्ठितं पूजयेत् / " इत्यत्रापिक्तप्रत्ययस्य खण्डशः शक्त्या लक्षणाऽऽदिना वा प्रतिष्ठाप्रयुक्ताऽऽहार्याऽऽरोपविषयपूजनत्वाऽऽदिनैव फलहेतुता / क्तप्रत्ययस्य चौत्सर्गिकण कृत्प्रत्ययार्थेनाष्प्रत्ययत्वेनैवार्थवत्तेति चिन्तामणिकारादप्यतिसूक्ष्ममतिनिपुणं च वयमीक्षामहे / / 103 // उक्तमेव वक्ष्यमाणफलान्वयेनाऽऽहतत्कारणेच्छाजनक-ज्ञानगोचरबोधकाः। विधयोऽप्युपयुज्यन्ते, तेनेदं दुर्मतं हतम् // 104 / / (तत्कारणेति) तस्याऽऽहार्याऽऽरोपस्य, कारणं या इच्छा, तज्ज-नकं यत् " प्रतिष्ठितां प्रतिमां भगवदभेदेनाध्यारोपयेत् " इति विधिजनितं ज्ञानं, तद्गोचरीभूतायाः प्रतिष्ठाया बोधकाः, इष्टसाधनत्वबोधनाऽऽदिद्वारा तदुत्पत्तिहेतव इति यावत् / विधयो विधिवाक्यानि, अप्युपयुज्यन्ते फलवन्तो भवन्ति, तैः प्रतिष्ठोत्पादने प्रतिष्ठितप्रतिमायामारोपविधिना भगवदभेदाध्यारोपोपपत्तौ पूजाफलप्रयोजकरूपसिद्धेः। तेनेदं वक्ष्यमाणं, दुर्मतमाध्यात्मिकाऽऽभासाना, हतं निराकृतम्। 104 / किं तत् ? इत्याहप्रतिष्ठाऽऽद्यनपेक्षायां, शाश्वतप्रतिमाऽर्चने। अशाश्वता पूजायां, को विधिः किं निषेधनम् ? / / 105 // शाश्वतप्रतिमाऽर्चने प्रतिष्ठाया आदाविह प्रथमतोऽनपेक्षायां तत्रैव तस्याः फले व्यभिचारात्। अशाश्वतार्चानां कृत्रिमप्रतिमानां पूजायां, "प्रतिष्ठितां प्रतिमां पूजयेत्" इति विधिः कः ?"अप्रतिष्ठितं न पूजयेत्' इति निषेधनंच किम् ? प्रतिष्ठातदभावयोरिष्टानिष्टसाधनतया व्यभिचारादभावेन तत्र विधिनिषेधार्थान्वयस्यायोग्यत्वात् / इति भावः / / 105 // कथमेतन्निरस्तम् ? इत्याहपूजाऽऽदिविधयो ज्ञान-विध्यङ्गित्वं यदाश्रिताः। शाश्वताशाश्वतार्चासु, विभेदेन व्यवस्थिताः।। 106 / / (पूजाऽऽदीति) पूजाऽऽदिविधयः- "प्रतिष्ठितां प्रतिमा पूजयेत्' इत्यादिवाक्यलक्षणाः, ज्ञानविधेः "प्रतिष्ठितां प्रतिमां भगवदभिन्नत्वेनाध्यारोपयेत् " इत्यङ्गवाक्याऽऽत्मकस्य, अङ्गित्वं प्रधानत्वम् , आश्रिताः, शाश्वताशाश्वतार्चासु , विभेदेन भिन्नरूपेण, व्यवस्थिताः। तथा च-प्रतिष्ठाया न पूजासहकारित्वम्, किं तु स्वकर्तव्यताबोधकविध्यङ्गताऽऽपन्नविधिविषयनिर्वाहकत्वेन प्रयोजकत्वम्। तचाशाश्वतप्रतिमास्थले। अन्यत्र त्वनादिप्रतिष्ठितत्वप्रत्यभिज्ञाया एव तथात्वं, तादृशशिष्टाऽऽचारेण तथैव विधिबोधनादिति विकल्पेनानयोः पूजाफलप्रयोजकव्याहतेन कोऽपिदोष इति। अतएव निश्रितानिश्रिताऽऽदिभेदेन स्वल्पबहुभक्तिविधानाऽऽदेनिविशेषाऽऽपेक्षकत्वेन व्यवस्थितविकल्पोपपादकत्वं संगच्छते। अत एव चाविधिप्रतिष्ठितेऽप्यविच्छेदाऽऽदिकारणाऽऽलम्बनोपबृंहितवैज्ञानिकविधिना विधिप्रतिष्ठिततुल्यतामामनन्ति संप्रदायवृद्धाः / भावशोधितशुद्धनिमित्तनैमित्तिकैकान्तशुद्ध्यभावेऽपीदानीन्तनयतिधर्मपौषधाऽऽदिक्रियावत्तत्र भावशोधनमात्रेण मध्यमशुद्ध्यप्रच्यवात्तस्या अपि चशुभानुबन्धसारत्वादित्यादिकमुपपादितं प्रतिमाशतकाऽऽदौ। तस्मात्स्थापनातटस्थेन भगवद्गुणस्मारकतया तदाहार्याऽऽरोपप्रयोजकतया वा संग्रहनयेनाप्यवश्यं स्वीकर्तव्या, इति व्यवस्थापितम्।। 106 //