SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ठवणा 1680 - अभिधानराजेन्द्रः भाग - 4 ठवणा वतीति शेषः / तथा च द्रव्यलिङ्गिदर्शनादपि न भावसाधुगुणाः / ननु स्मृतिरेव तन्नियामकप्रायिकसादृश्यस्य रजोहरणगोच्छकपतद्ग्रहाऽऽदिरूपस्य तस्याबाधितत्वात् , किं तूत्कटदोषवत्त्वेन प्रतिसंधीयमानस्य सा दृश्या। वन्दनकनियुक्तौ " तित्थयरगुणा पडिमा-सु णऽत्थि णिस्संसयं विआणतो। तित्थयरु त्ति णमंतो, सो पावइ णिज्जरं विउलं / / 58 / / लिंग जिणपण्णत्तं, एव णमंतस्स णिज्जरा विउला।। जइ वि गुणविप्पहीणं, वंदइ अज्झप्पसोहीए।। 56 / / " (अनयोरर्थः ‘किइकम्म शब्दे तृतीयभागे 516 पृष्ठे द्रष्टव्यः) इति गाथाभ्यां सादृश्यसंबन्धमात्रेणार्हत्प्रतिमाया अर्हतो द्रव्यलिङ्गिनो भावसाधोस्तटस्थेन स्मृतेरुत्थापकतयाऽध्यात्मशुद्धिप्रभवनिर्जराऽङ्गत्वेन वन्दनीयत्वं यदाक्षिप्तं पूर्वपक्षकृता / तन्न / आचार्यरकत्रोत्कटदोषवत्त्वेनोपस्थितसमानसंवित्संवेद्यतालभ्यगुणवत्- सादृश्यधीस्तद्गतदोषानुमतिरूपतया गुणवदपकर्षव्यञ्जकत्वेन तन्निदानरूपत्वेन बलवदनिष्टानुबन्धावहा, अन्यत्र चोक्तकारणाभावान्न तथात्वमिति वैषम्यमुद्भावयित्वा समाधानं कृतम्। " संता तित्थयरगुणा, तित्थयरे तेसिमं तु अज्झप्पं / णय सावज्जा किरिया, इयरेसु धुवा समणुमन्ना // 60 // इति। अस्या अर्थः-सन्तो विद्यमानाः शोभना वा तीर्थकरत्वेन प्रतीयमानस्य गुणाः, तीर्थकरेऽर्हति, इयं च प्रतिमा, तेषां नमस्कुर्वताम् इदमध्यात्मसमापत्यादिफलकानुभूयमानतीर्थकरगुणस्मृताऽऽलम्बनम् / यद्वातेषां गुणानाम् , इदमध्यात्म्यम्-अध्यारोपविषयः, तटस्थेन स्मृतौ योगजीवातुसमापत्यसिद्धेः / न च तासु प्रतिमासु सावद्या सपापा, क्रिया, इतरेषु पार्श्वस्थाऽऽदिषु, ध्रुवा, सेति योज्यते। ततः समनुज्ञा सावधक्रियायुक्तपार्श्वस्थाऽऽदि प्रणमनाद् , ध्रुवेतियोगः। एवं च सति प्रतिमायामुभयक्रियाभावप्रसञ्जित उभयफलाभावस्तदालम्बनकस्थाप्यगुणसंकल्परूपमनःशुद्धेर्बलवत्तयैव निराक्रियमाणः पाश्वस्थाऽऽदिवन्दनेऽपि मनःशुद्धेर्बलवत्तयैव दोषाभावं गुणोदयं च साधयितुं कथं न प्रगल्भते ? इत्याशङ्काशेष उभयविकल एव आकारमात्रतुल्ये कतिपयगुणान्विते चोत्कृष्टगुणाध्यारोपशुभसंकल्परूपतामास्कन्दनिर्जराहेतुः। अन्यत्र त्वसावशुभसंकल्परूपत्वेन निरवद्यकर्माभाववद्विशेष्यकत्वस्य गौरवेणातन्त्रवात् सावद्यकर्मवद्विशेष्यकतयैव विपर्यासलक्षणसमन्वयेन वाऽनन्तक्लेशाऽऽवह इत्यभिप्रायेणाऽऽचार्यस्तत्रैव निराकृतः / तथाहि"जह सावज किरिया, णत्थि य पडिमासु एवमियराऽवि। तयभावे णस्थि फले, अह होइ अहेउअंहोइ॥ 61 // कामं उभयाभावो, तह विफलं अस्थि मणविसुद्धीए। तीइ पुण मणविसुद्धी-इ कारणं हुंति पडिमाओ।। 62 // जइ वि अ पडिमा उ जहा, मुणिगुणसंकप्पकारणं लिंग। उभयमवि अस्थि लिंगे, ण य पडिमासूभयं अस्थि / / 63 / / णियमा जिणेसु उ गुणा, पडिमाओ दिस्स ज मणे कुणइ। अगुणे उ वियाणतो, कं नमउ मणे गुणं काउं? / / 64 / / जह वेलंबगलिंग, जाणतस्स णमओ धुवं दोसो। णिबंधसमिअणाऊ-ण वंदमाणे धुवो दोसो। 65 / इति। 101 / (आसां गाथानामर्थः ' किइकम्म 'शब्दे तृतीयभागे 516 पृष्ट गतः) नन्वेवं स्थापनास्थले सावधकर्माभाववद्विशेष्यगुणसंकल्पत्वे भावस्य निर्जराहे तुत्वमित्यागतम् / तचायुक्तम् / लाघवेन निरवद्यकर्मवद्विशेष्यकत्वेनैव ततुत्वौचित्याल्लक्षणगौरवापेक्षया कारणभावगौरवस्स महादोषत्वात् / किञ्च-स्थापनास्थलीयभावे जात्युपाध्यन्यतरकृतातिरिक्तविशेषाभावे यथोक्तरूपेणैव हेतुत्वे मायाच्छादितदोषे आलयविहाराऽऽदिना शुद्धताप्रतिसंधानदशायां वन्द्यमाने साधौ कथं निर्जरोत्पत्तिः संगच्छते ? न च तत्र निरवद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसंकल्पेन पृथगेव निर्जराहेतुत्वाददोषः / तथा सति तुल्यन्यायतया सावद्यकर्मयुक्तत्वेनागृहीतासंसर्गकगुणसंकल्पत्वेन बन्धहेतुताया एव युक्तत्वात् , प्रतिमावन्दनादुभयाभावाऽऽपत्तेः। नच सत्त्वशुद्धिविधया कारणतायामयमेव प्रकारः, अवश्चकयोगविधया कारणतायां तु वास्तवविषयताया एव निवेशान्न दोष इति वाच्यम्। सत्त्वशुद्धिविधयैव प्रतिमावन्दनान्निर्जरोत्पत्तेः, " तह वि फलं अस्थि मणविसुद्धीए। " इत्यनेन प्रतिपादनात् / किं चगुणदोषोभयवैकल्यमात्रेण प्रतिमायामर्हदध्यवसायस्य निर्जराऽङ्गत्वे प्रतिष्ठिताप्रतिष्टितयोरविशेषाऽऽपत्तेः / न च " सयकारियाइ एसा, नायइ ठवणाइ बहुफला केइ। गुरुकारियाइ अन्ने, विसिट्टविहिकारियाए य / / 1 / / थंडिल्ले वि य एसा, मणवयणाए पसत्थगा चेव। आयासगोमयाई-हि एत्थमुल्लेवणाइ हियं / / 2 // उवयारंगा इह सो-वओगसाहारणाण फला। किं च विसेसेण तओ, सव्वे विय ते विभइअव्वा // 3 // इति पूजाविधिविंशिकावचनपर्यालोचनायामिष्टपदेति वाच्यम् / तत्र प्रतिष्ठितत्वव्याप्यधर्मपुरस्कारेणेव मानसप्रतिष्ठापुरस्कारेण प्रवृत्तानां पूजाविधिकल्पानां विधिप्रतिष्ठितपूजाजन्यताऽवच्छेदकजातिव्याप्यजात्यवच्छेदेन, मानसाभिप्रायशोधिताविधिप्रतिष्ठितपूजाजन्यतावच्छेदकजात्यवच्छेदेन च फलभेदाद्धेतुभेदो युक्त इत्यभिप्रायेण प्रवृत्तावपि प्रतिष्ठासामान्यस्याकिश्चित्करत्वे तात्पर्याभावात् , अन्यथा प्रतिष्ठाविधिवैयर्थ्यप्रसङ्गात्। ततः प्रतिष्ठाऽऽदिविधिजनितः प्रतिमागतोऽतिशयविशेषः कश्चिस्थापनानिक्षेपो निहन्यतामित्याशङ्कायाम्-" संता तित्थयरगुणा " / (आव० 60 गाथा) इत्यादिगाथामेव व्याख्यानान्तरसूचितं पक्षान्तरं परिष्कुर्वन्नाहयदा प्रतिष्ठाविधिना, स्वाऽऽत्मन्येव पराऽऽत्मनः। स्थापनास्यात्समापत्ति-बिम्बे सा चोपचारतः।। 102 / / यता पक्षान्तरे, प्रतिष्ठाविधिना प्रतिष्ठाकारयितुः स्वाऽऽत्मन्येव, पराऽऽत्मनः परमगुणवतः त्रिभुवनभर्तुः ध्यानतारतम्ये च तात्स्थ्यतदञ्जनत्वस्वरूपा समापत्तिरेव स्थापना स्यात्, निश्चयतः सर्व-क्रियाणां तत्फलानां च उद्देश्यसंबन्धित्वेन व्यवह्रियमाणानामपि स्वात्मसंबन्धित्वस्यैव भाष्याऽऽदौ व्यवस्थापनात् / पराऽऽत्मन इत्युपलक्षणम् / स्वभावस्याऽऽहत्यादिप्रतिष्ठया कारयितरि स्वभाव एव स्थाप्यते। परम्परया तुतन्मूलप्रमाणानुपलब्ध्या विषयवचनाऽऽद्यप्रवर्तकत्वसंबन्धस्मारितः। तत्र च खलु प्रतिष्ठा निजभावस्य एव, देवतोद्देशात् स्वात्मन्येव, परं यत् स्थापनमिह वचननीत्या ऊचे-" बीजमिदं परमं यत् , परमाया एव
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy