________________ 1676 - अभिधानराजेन्द्रः भाग-१ ठवणा ठकार பாபாபா ठ-(ठ)'ठ' इत्ययं वर्णो मूर्द्धस्थानीयः स्पर्शसंज्ञकः। वाच०। *ठ-पुं० / महेशमहामन्त्रे, मन्त्रिणि, भूपे, वाडवे, आसने, शयने, आकाशे, जलाऽऽशये, घटे, चक्रे, मुद्रायाम् , कुण्डले, भगवत्कचे, बृहद्ध्वाने, साहसे, स्तम्भे, चन्द्रमण्डले च। नकाशवे, शून्ये, मनोज्ञे, कठिने च। त्रि० / एका०। ठइअ-पुं०(देशी) उत्क्षिप्ते, अवकाशे, दे० ना० 4 वर्ग। ठकार-पुं०(ठकार) शङ्करे, विषये, दरे, भासे, शङ्खनिनादे, क्षये, रौद्ररसे, ध्वनौ च। एका०॥ ठक्का-स्त्री०(ढक्का)" चूलिकापैशाचिके तृतीयतुर्य्ययोराद्यद्वितीयौ"। 8 / 4 / 325 / / इति ढस्य ठः / प्रा० 4 पाद / स्वनामख्याते वाद्यभेदे, वाच०॥ ठक्कुर-पुं०(ठकुर) ग्रामाऽऽदिप्रभौ, विशे०। आ० म०। ठहारत्त-न०(ठट्ठारत्व) शुल्वनागवङ्गकांस्यपित्तलाऽऽदीनां करण घटनाऽऽदिना जीविकायाम् ,ध०२ अधि०। ठड्ड-त्रि०(स्तब्ध)" स्तब्धे ठ-दौ " / / 8 / 2 / 36 / / इति स्तब्धे संयुक्तयोर्यथाक्रमं ठढौ भवतः। जडे, प्रा०२पाद। ठप्प-न०(स्थाप्य) असंव्यवहार्ये, अनु०। भ० *ठरिअ-न० / देशी-गौरविते, ऊर्ध्वस्थिते, दे० ना०४ वर्ग। ठल्ल-पुं० (देशी) निर्धने, दे० ना०४ वर्ग। ठवणपुरिस-पुं०(स्थापनापुरुष) पुरुषप्रतिमाऽऽदौ, स्था०३ ठा० 130 / / ठवणप्पमाण-न०(स्थापनाप्रमाण) आकारविशेषवद्वस्तुप्रतिपादके नामनि, अनु०। से किं तं ठवप्पमाणे? ठवप्पमाणे सत्तविहे पण्णत्ते। तं जहा" णक्खत्तादेवय-कुले, पासंड-गणे जजीवियाहेऊ। आभिप्पाइयनामे, ठवणानामंतु सत्तविहं" // 1 // अथ किं तत् स्थापनाप्रमाणम् ? स्थापनाप्रमाणं सप्तविधिमित्यादि। 'णक्खत्तगाहा।" इयमत्र हृदयम्-नक्षत्रदेवताकुल-पाखण्डगणाऽऽदीनि वस्तून्याश्रित्य यस्य किञ्चिन्नामस्थापनं क्रियते, सेह स्थापना गृह्यते / त पुनर्यत्तु तदर्थवियुक्तं तदभिप्रायेण, यच्च तत्करणीत्यादिना पूर्व परिभाषितस्वरूपा सैव प्रमाणं तेन हेतुभूतेन नाम सप्तविधं भवति। अनु० / ठवणसटव-न०(स्थापनासर्व) स्थापनया सर्वमेतदिति कल्पनया अक्षाऽऽदिद्रव्यं सर्व, स्थापनैव वा अक्षाऽऽदिद्रव्यरूपा सर्व स्थापनासर्वम् / स्था० 10 ठा०। ठवणा-स्त्री०(स्थापना) स्थाप्यतेऽमुकोऽयमित्यभिप्रायेण क्रियते | निर्वयंत इति स्थापना.। काष्ठकर्माऽऽदिगताऽऽवश्यकवत् साध्वादिरूपे, अनु० / स्था० / लेप्याऽऽदिकर्मणि, स्था० 2 ठा० 4 उ० / सर्वस्य वस्तुनो निजे निजे आकारे, विशे०। आकारविशेषे, आ म०१ अ०१ खण्डालेप्याऽऽदिकर्मअर्हदादिविकल्पेन स्थाप्यते। स्था० 10 ठा०। सद्भावासद्भावरूपप्रतिकृती, आचा०१ श्रु०२ अ०१ उ०॥ पत्राऽऽदिलिखिते आकारे, नयो० आ०म० स्था०ातचित्रं स्थापनेतितस्य घटस्य चित्र पत्राऽऽदिलिखित आकारः स्थापना। तल्लक्षणं चेदं स्मरन्ति" यत्तु तदर्थवियुक्तं, तदभिप्रायेण यच तत्करणिः / लेप्याऽऽदिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च " / / 1 / / एतदर्थोऽयम्-यद्वस्तु, तदर्थवियुक्तं भावेन्द्रार्थरहितं, तदभिप्रायेण तबुद्ध्या, करणिराकृतिः, यद्येन्द्राऽऽद्याकृतिलेप्याऽऽदिकर्म क्रियते, चशब्दादाकृतिशून्यं चाक्षनिक्षेपाऽऽदि, तत् स्थापनेति ; तचाल्पकालमित्वरमित्यर्थः / चशब्दाद् यावद्रव्यभावि च मृद्रव्यमिति, घटकारणीभूता मृदेव द्रव्यघट इत्यर्थः / नयो०। ननुसादृश्यसंबन्धस्य स्थापना निक्षेपनिवासकत्वेऽसद्भावस्थापनोच्छेदप्रसङ्गोऽभिप्रायसंबन्धस्यापि तन्नियामकत्वंचनाम्न्यपि तस्य सुवचनत्वादति प्रसङ्गस्तदवस्थएवेत्याशङ्कायामाहअतिप्रसङ्गो नैवं चा-ऽभिप्रायाऽऽकारयोगतः। यच्छुतोक्तमनुलध्य, स्थापना नाम चान्यतः॥६६॥ (अतिप्रसङ्ग इति) एवमुक्तासङ्करप्रकारेण च, अतिप्रसङ्गो न भवति, यत् श्रुतोक्तं सिद्धान्तवचनमनुलध्य, अक्षाऽऽदावेवाभिप्रायसंबन्धं, प्रतिमादवेव चाऽऽकारसंबन्धं पुरस्कृत्य, स्थापनाऽऽद्रियते, अन्यतोऽन्यस्थले च, नाम निक्षेप इतिक्वातिप्रसङ्गः? तथाच-सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोबोधकाभिप्रायाऽऽकारान्यतरसंबन्धक्त्वं तत्स्थापनात्वमिति फलितं भवति / / 66|| / उक्तविशेषप्रयोजनमेवोपदर्शयितुमाहअत एव न धीरह-त्प्रतिमायामिवार्हतः। भावसाधोः स्थापनायाः, द्रव्यलिङ्गिनि कीर्तिता / / 100 / / "अतएव " इत्यादि। अत एवोक्तविशेषणनिवेशध्रौव्यादेव, अर्हत्प्रतिमायामहत इव, द्रव्यलिङ्गिनि प्रकटप्रतिषेविणि पार्श्वस्थाऽऽदौ, स्थापनायाः, भावसाधोः, धीः, सिद्धान्ते, न कीर्त्तिता / / 100 / / कुतः ? इत्याहसाहि स्थाप्यस्मृतिद्वारा, भावाऽऽदरविधायिनी। न चोत्कटतरे दोषे, स्थाप्यस्थापकभावना / / 101 / / सा हि स्थापनाधीर्हि, स्थाप्यस्मृतिद्वारा एकसंबन्धिज्ञाने अपरसंबन्धिस्मृतिः " इति नियमविधया स्थाप्यस्मृतिव्यापारण, भावाऽऽदरस्यस्थाप्यगतगुणप्रणिधानोद्रेकस्य, तजनितानिजराऽतिशयस्य वा, विधायिनी। न च स्थापनाविषये उत्कटतरे दोषे, प्रतिसन्धीयमाने इति शेषः / स्थाप्यस्थापक भावना, फल