________________ टिंपुरी 1677- अभिधानराजेन्द्रः भाग-४ टिंपुरी म्पया कमपि पेशलं धर्मोपदेश दत्तः। ततस्ताभ्यां चैत्यविधापनदेशना क्लेशनाशिनी विदधे / तेनापि शराविकापर्वतसमीपवर्तिन्या तस्यामेव पल्लयां चर्मण्वतीसरित्तीरे कारितमुपैस्तरं चारु चैत्यम् / स्थापित श्रीमन्महावीरबिम्बम्। तीर्थतया च रूढं तत्। प्रयान्ति स्म चतुर्दिग्भ्यः सङ्घाः। कालान्तरे कश्चिन्नैगमः सभार्यः सर्वथा तद्यात्रायै प्रस्थितः, प्राप्तः क्रमेण रन्तिनदीम्।नावमारूढौ च दम्पती चैत्यशिखरं व्यलोकयताम्। ततः सरभसं सौवर्णिककचोलके कुड् कुमचन्दनकर्पूरं प्रक्षिप्य जलं क्षेप्तुमारब्धवती नैगमगृहिणी। प्रमादान्निपतितं तदन्तर्जलतलम् / तां ततो भणितं वणिजा-"अहो! इदं कच्चोलकं नैककोटिमूल्यरत्नसचित राज्ञा ग्रहणकेऽर्पितमासीत् , ततो राज्ञः कथं छुटितव्यम् ? इति चिरं विषद्य वङ्कचूलस्य पल्लीपतेर्विज्ञापितं तत्। यथा-अस्य राजकीयवस्तुनो विचितिः कार्यताम् / तेनापि धीवर आदिष्टस्तच्छोधयितुम् / प्राविशदन्त दम् / विचिन्वता चान्तर्जलतलं दृष्ट तेन हिरण्मयरथस्थं जीवन्तस्वामिश्रीपार्श्वनाथबिम्बं तावत् , पश्यति स्य स बिम्बस्य हृदये तत् कचोलकम् / धीवरेणोक्तम्-धन्याविमौ दम्पती, यद्भगवतो वक्षसि घुसृणचन्द्रचन्दनविलेपनाह कबोलकं स्थितम्। ततो गृहीत्वा तदर्पित नैगमस्या तेनापि दत्तं तस्सै बहु द्रव्यम्। उक्तंच बिम्बस्य रूपं नाविकेन / ततो वकचूलेन श्रद्धालुना तमेव प्रवेश्य निष्कासितं तद् बिम्बम् / कनकरथस्तु तत्रैव मुक्तः। निवेदित हि केनापि स्वप्ने प्राब्भावता नृपतेःयत्र क्षिप्ता सती पुष्पमाला गत्वा तिष्ठति तत्र बिम्ब शोद्ध्यमिति / तदनुसारेण बिम्बमानीय समर्पितं राज्ञे वकचूलाय / तेनापि स्थापित श्रीवीरबिम्बस्य बहिर्मण्डपे यावत् कालं नव्यं चैत्यतस्मै कारयामीत्यभिसंधिमता। कारिते चैत्यान्तरेयावत्तत्र स्थापनार्थमुत्थापयितुमारभन्ते राजकीयाः पुरुषास्तावद्विम्बं नोत्तिष्ठति स्म / देवताधिष्ठानात्तत्रैव स्थितम् / अद्यापि तत्रैवाऽऽस्ते। धीवरेण पुनर्विज्ञप्तः पल्लीपतिः-यत्तत्र देव ! मया नद्यां प्रविष्टन बिम्बान्तरमपि दृष्ट, तदपि बहिरानयनेनौचितीमञ्चति, पूजाऽऽरूढं हि भवति / ततः पल्लीश्वरेण पृष्टा स्वपरिपत्भो ! जानीते कोऽप्यनयोर्बिम्बयोः संविधानक? केन स्थलतो नद्यन्तजलतले न्यस्ते ? इत्याकण्यकेन पुराविदा स्थविरेण विज्ञप्तम्-देव ! एकोऽस्मिन्नगरे पूर्व नृपतिरासीत्। स च परचक्रेण समुपेयुषा सार्द्ध योद्धं सकलचमूसमूहसन्नहनेन गतः / तस्याग्रमहिषी च निजं सर्वस्वभेतच बिम्बद्वयं कनकरथस्थ विधाय जलदुर्गमिति कृत्वा चर्मण्वत्यां कोटिम्बके प्रक्षिप्य स्थिता। चिरं युद्धवतस्तस्य कोऽपि खलः किल वार्तामानैषीत्यदयं नृपतिस्तेन परचक्राधिपतिनृपतिना व्यापादित इति / तत् श्रुत्वा देवी तत्कोटिम्बकमाक्रम्यान्तर्जलतलं प्राक्षिपत् / एकं च तयोरानीतं पूज्यमानं चास्ति / द्वितीयमपि चेद् निःसरति तदोपक्रम्यतामिति / तदाकर्ण्य वकचूलः परमार्हत्चूलामणिस्तमेव धीवरं तदानयनाय नद्यां प्रावीविशत्। स च तबिम्ब कटीदघ्नवपूर्जलतलेऽवतिष्ठमानं बहिःस्थशेषाङ्गं चावलोक्य निष्कासनोपायाननेकानकार्षीत्। न च तन्निर्गतमिति दैवतप्रभावमाकलय्य समागत्य च विशामीशाय न्यवेदयत् तत्स्वरूपम्। अद्यापि तत्किल तथैवाऽऽस्ते / श्रूयतेऽद्यापिकेनापि धीवरस्थविरेण नौकायाः स्तम्भे जाते तत्कारणं विचिन्वता तस्य हिरण्मयरथस्य कीलिका लब्धा / तां कनकमयीं दृष्ट्वा लुब्धेन तेन व्यचिन्तियदिम रथं | क्रमात्सर्वं गृहीत्वा ऋद्धिमान् भविष्यामीति / ततश्च रात्रौ निद्रां न लेमे।। उक्तश्चकेनाप्यदृष्टपुरुषेणयदिमां तत्रैव विमुच्य स्थेयाः, नो चेत्सद्य एष त्वां हनिष्यामीति / तेन भयाऽऽतेन तत्रैव मुक्ता युगकीलिका इत्यादि। किं न संभाव्यते दैवताधिष्ठितेषु पदार्थेषु ? श्रूयते च संप्रति काले कश्चिन्म्लेच्छ: पाषाणपाणिः श्रीपार्श्वनाथप्रतिमां भक्तुमुपस्थितः स्तम्भितबाहुतिः , महति पूजाविधौ कृते सज्जतामापन्न इति / श्रीवीरबिम्बं महत् , तदपेक्षया लघीयस्तरं श्रीपार्श्वनाथबिम्बमिति महावीरस्यार्भकरूपोऽयं देव इति भेदाचेल्लण इत्याख्यां प्राचीकशत। श्रीमचेल्लणदेवस्य महीयस्तममाहात्म्यनिथेः पुरः ताभ्यां महर्षिभ्यां सुवर्णमुकुटमन्त्राऽऽस्तावः समाधितः प्रकाशितश्च भव्येभ्यः / सा च सिंहगुहापल्ली कालक्रमात् ' टिम्पुरी ' इत्याख्यया प्रसिद्धा नगरी संजाता। अद्यापि स भगवान् श्रीमहावीरः सचेल्लणपार्श्वनाथः सकलसझेन तस्यामेव पुर्यां पात्रोत्सवैराराध्यते इति। अन्यदा वकचूल उज्जयिन्या खात्रपातनाय चौर्यवृत्त्या कस्यापि श्रेष्ठिनः सद्मनि गतः, कोलाहलं श्रुत्वा ततः चलितः / ततो देवदत्ताया गणिकाया गाणिक्यमाणिक्यभूताया गृहं प्राविशत् / दृष्टा सा कुष्ठिना सह प्रसुप्ता। ततो निःसृत्य गतः पुरः श्रेष्ठिनो वेश्मा तत्रैकविंशोपको लेख्यके तुद्यतीति परुषवागभिर्निर्भय॑ निःसारितो गेहात् पुत्रः श्रेष्ठिना / विरराम च यामिनी। यावद्राजकुलं यामीत्यचिन्तयत् तावदुजगाम धामनिधिः / पल्लीशश्व निःसृत्य नगराद्गोधां गृहीत्वा तरुतले दिनं नीत्वा पुना रात्रावागाद्राजकुलम् / भाण्डागाराद् बहिर्गोधापुच्छे विलग्य प्राविशत्कोशम्। दृष्टो राजाग्रमहिष्या। रुष्टया पृष्टश्चकस्त्वमिति? तेनोचेचौर इति / तयोक्तम्-मा भैषीः, मया सह सङ्गमं कुरु / सोऽवादीत-का त्वम् ? साऽप्यूचे-अग्रमहिष्यह-मिति। चौरोऽवादीद्-यथेवंतर्हि ममाम्या भवसि,अतो यामि ? इति चौरेण निश्चिते, तया स्वाङ्ग नखैर्विदायं पूतकृतिपूर्वमाहूता रक्षकाः / गृहीतस्तैः / राज्ञा चानुनयार्थमागतेन तद् दृष्टम्। राज्ञोक्ता-स्ते-पौरुष्यामेनं गाढं कुर्वीध्वमिति तै उक्षितः / प्रातः पृष्टः क्षितिभृता। तेनाप्युक्तम्-देव ! चौर्यायाहं प्रविष्टः पश्चादेव भाण्डागारे देव्या दृष्टोऽस्मि / यावदन्यन्न कथयति तावत्तुष्टो विदितवेद्यो नरेन्द्रः, स्वीकृतः पुत्रतया। स्थापितश्च सामन्तपदे। देवी विडम्ब्यमाना रक्षिता वडचूलेन / अहो ! नियमानां शुभफलमित्यनवरतमयमध्यासीत् / प्रेषितश्चान्यदा राज्ञा कामरूपभूपसाधनार्थम् / घातै-जर्जरितो विजित्य तमगात् स्वस्थानम् / व्याहृताश्च राज्ञा वैद्याः, यावद् गूढोऽपि घातव्रणो विकशति / तैरुक्तम्-देव ! काकमांसेन शोभनो भवत्ययम् / तस्य च जिनदासश्रावकेण सार्द्ध प्रागेव मैत्र्यमासीत्। ततस्तदानयनाय प्रेषितः पुरुषः पुरुषाधिपतिना, येन तद्वाक्यात्काकमांस भक्षयतीति / तदाहूतश्च जिनदासोऽवन्तीमागच्छन्नुभे देव्यौरुदत्यावद्राक्षीत्।तेन पृष्ट-किरुदियः ? ताभ्यामु-क्तम्-अस्माकं भर्ता सौधर्माच्च्युतः, अतोराजपुत्र वङ्कचूलं प्रार्थयावहे, त्वयि गते स मांस भक्षयिता, तेन गन्ता दुर्गतिम् , तेन रु-दिव। तेनोक्तम्-तथा करिष्ये, यथा तन्न भक्षयिता। गतश्च तत्र राजोपरोधादकचूलमवोचत्-गृहाण बलिभुपिशितम् , यद् भुक्तः सन् प्रायश्चित्तं चरेः। वकचूलोऽवोचत्-जानासित्वं यदाचर्याप्ये-कान्तं प्रायश्चित्तं ग्राह्य, ततः प्रागेव तदनाचरणं श्रेय इति;"प्रक्षालनाद्धिपङ्कस्य, दूरादस्पर्शनंवरम्।" इति वाक्यात् / निषिद्धो नृपतिः / विशेषप्रतिपन्नव्रतनिवहश्वाच्युतकल्पमगमत्। बलमानने जिनशसेन ते देव्यौतथैवरुदत्यौ दृष्टा प्रो