________________ झाण 1672 - अमिधानराजेन्द्रः भाग - 4 झाण भवन्ति शुभाऽऽश्रवसंवरनिर्जरामरसुखानिशुभाऽऽश्रवः-पुण्याऽऽश्रवः, सम्बरः-अशुभकर्माऽऽगमनिरोधः विनिर्जराकर्मक्षयः, अमरसुखानिदेवसुखानि / एतानि च दीर्घस्थितिविशुद्ध्युपपाताभ्या विपुलानि विस्तीर्णानि, ध्यानवरस्य ध्यानप्रधानस्य, फलानि शुभानुबन्धीनि सुकुलप्रत्ययानि पुनर्बोधिलाभभोगप्रव्रज्याकेवलशैलेश्यपवर्गानुबन्धीनि, धर्मध्यानस्येति गाथाऽर्थः / / 65 / उक्तानि धर्मध्यानफलानि। अधुना शुक्लमधिकृत्याऽऽहते अविसेसेण सुहा-ऽऽसवादओऽणुत्तरामरसुहं च। दुन्हं सुक्काण फलं, परिनिव्वाणं परिल्लाणं / / 66 / / ते च विशेषेण शुभाऽऽश्रवाऽऽदयोऽनन्तरोदिताः, अनुत्तरामरसुखं च, द्वयोः शुक्लयोः,फलमाद्ययोः / परिनिर्वाणं मोक्षगमनं (परिल्लाणं ति) चरमयोर्द्वयोरिति गाथाऽर्थः / / 66 // अथवा सामान्येनैव संसारप्रतिपक्षभूते एते इति दर्शयतिआसवदारा संसा-रहेउओ जन धम्मसुक्केसु। संसारकारणाई,न तो धुवं धम्मसुक्काइं / / 67 // आश्रवद्वाराणि संसारहेतवो वर्तन्ते, तानि च यद् यस्मान्न धर्मशुक्लयोर्भवन्ति। संसारकारणानिनतस्माद्धृवं नियमेन धर्मशुक्लानि / इति गाथार्थः / / 67 // (16) संसारप्रतिपक्षतया च मोक्षहेतु निमित्यावेदयन्नाहसंवरविणिज्जराओ, मुक्खस्स पहो तवो तासिं। झाणं च पहाणंगं, तवस्स तो मुक्खहेऊ तं / / 18 / / संवरविनिर्जरे मोक्षस्य पन्थाः-अपवर्गस्य मार्गः, तपः-पन्थाः मार्गः, तयोः संवरनिर्जरयोः। ध्यानं च प्रधानाङ्गं तपस आन्तरकारणत्वात्। ततो मोक्षहेतुस्तद् ध्यानमिति गाथाऽर्थः / / 68|| अमुमेवार्थं सुखप्रतिपत्तये दृष्टान्तैः प्रतिपादयन्नाहअंबरलोहमहीणं, कमसो जह मलकलंकपंकाणं / सोज्झावणयणसोसे, साहति जलानलाइचा // 66 // अम्बरलोहमहीनां वस्वलोहक्षितीनां, क्रमशः क्रमेण, यथा मलक लकपकानां यथासंख्यंशोध्यापनयनशोषान् यथासंख्यमेव, साधयन्ति निर्वर्तयन्ति, जलानलाऽदित्याः। इति गाथाऽर्थः / / 66 || तह सुज्झाइसमत्था, जीवंवरलोहमेइणिगयाणं। झाणजलानलसूरा, कम्ममलकलंकपंकाणं / / 100 / / तथा शोध्यादिसमर्था जीवाम्बरलोहमेदिनीगतानां ध्यानमेव जलानलसूर्याः, कमैव मलकलकपङ्का, तेषामिति गाथाऽर्थः / / 100 // किञ्चतावो सोसो भेओ, जोगाणं झाणओ जहा निअयं / तह तावसोसभेआ, कम्मस्स वि झाइणो निअमा।। 101 / / तापः, शोषो, भेदः, योगाना, ध्यानतो ध्यानाद, यथा नियतमवश्यम् / तत्र तापो दुःखं,तत एव शोषो दौर्बल्यम्, ततएव भेदो विदारण ; योगानां वागादीनां तथा तेनैव प्रकारेण, तापशोषभेदाः, कर्मणोऽपि भवन्ति / कस्य ?-ध्यमिनः,नयदृच्छया, नियमादनियमेनेति गाथाऽर्थः / / 101 / / किंचजह रोगाऽऽसयसमणं, विसोसणविरेअणोसहविहीहिं। तह कम्माऽऽमयसमणं, झाणाणसणाइजोगेर्हि / / 102 / / यथा रोगाऽऽशयशमनं रोगनिदानचिकित्सा, विशोषणविरेचनौषधविधिभिः-अभोजनविरेकौषधप्रकारैः / तथा कर्माऽऽमयशमनं कर्मरोगचिकित्सा, ध्यानानशनाऽऽदिभिर्योगैः, आदिशब्दाद् ध्यानवृद्धिकारकशेषतपोभेदग्रहणमिति गाथाऽर्थः / / 102 // किञ्चजह चिरसंअियमिंघण, जलणो पवणसहिओ दुअंडहइ। तह कम्मिंधणममिअं, खणेण झाणानलो डहइ / / 103 / / यथा चिरसंचितं प्रभूतकालसंचितम् , इन्धनं काष्ठाऽऽदि, ज्वलनोऽग्निः, पवनसहितो वायुसमन्वितः, द्रुतं शीघ्र, दुहति भस्मीकरोति। तथा दुःखतापहेतुत्वात्कर्मवेन्धनम्, अमितमनेकभवोपात्तम्, अनन्तं, क्षणेन समयेन, ध्यानमनल इव ध्यानानलः, असौ, दहति भस्मीकरोतीति गाथाऽर्थः / / 103 // जह वा घणसंघाया, खणेण पवणाहया विलयमिंति। झाणपवणाबहूआ, तह कम्मघणा विलिजंति।।१०४।। यथा वा धनसङ्घाताः-मेघोत्कराः, क्षणेन, पवनाहता वायुप्रेरिताः, विलयं विनाशं, यान्ति गच्छन्ति / ध्यानपवनावधूता ध्यान-वायुविक्षिप्ताः, तथा कर्मव जीवस्वभावा घनाः कर्मघनाः। उक्तंच" स्थितः शीतांशुवञ्जीवः, प्रकृत्या भावशुद्धया। चन्द्रिकावच विज्ञानं, तदावरणमभ्रवत् // 1 // इत्यादि। विलीयन्ते विनाशमुपयान्ति, इति गाथाऽर्थः / / 104 // किश्चेदमन्यदिहलोकप्रतीतमेव ध्यानफलमिति दर्शयतिन कसायसमुत्थेहि अ, वाहिज्जइ माणसेहिँदुक्खेहि। ईसाविसायसोगा-इएहिँ झाणोपगयचित्तो॥१०५ / / न कषायसमुत्थैश्च न क्रोधाऽऽद्युद्भवैश्च, बाध्यते पीड्यते, मानसैः दुःखैः, मानसग्रहणात्ताप इत्याद्यपि यदुक्तम् , तन्न बाध्यते; इर्ष्याविषादशोकाऽऽदिभिः, तत्र प्रतिपक्षाभ्युदयोपलम्भजनितो मत्सरविशेष ईया, विपादो वैक्लव्यम् , शोको दैन्यम् , आदिशब्दाद् हर्षाऽऽदिपरिग्रहः / ध्यानोपगतचित इति प्रकटार्थम् / अयं गाथाऽर्थः / / 105 / / सीआयवायएहि अ, सारीरेहि सुबहुप्पगारेहिं। झाणसुनिचलचित्तो, न बहिज्जइ निजरापेही।। 106 // इह कारणे कार्योपचाराच्छीताऽऽतपाऽऽदिभिश्च, आदिशब्दात् क्षुदादिपरिग्रहः / शारीरैः, सुबहुप्रकारैरनेकभेदैः, ध्यानसुनिश्चलचित्तः ध्यानभावितमतिः, न स बाध्यते, ध्यानसुखादिति गम्यते। अथवा न शक्यते चालयितुं, तत एव निर्जराऽपेक्षी कर्मक्षयापेक्षकः / इति गाथाऽर्थः / / 106 / / उक्तं फलद्वारम्। अधुनोपसंहरन्नाहइयसव्वगुणाऽऽहाणं, दिट्ठादिट्ठसुहसाहणं झाणं। सुपसत्थं सद्धेअं, नेअंझेअंच निच्चं पि / / 107 / / पंचुत्तरेण गाहा-सएण झाणसयगं समुद्दिटं। जिणभद्दखमासमणे-हिँकम्मसोहीकरं जइणा / / 108 / /