SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ झाण 1671 - अभिधानराजेन्द्रः भाग - 4 झाण इत्थं चतुर्विधं ध्यानमभिधायाधुनैतत्प्रतिबद्धमेव वक्त व्यताशेषमभिधित्सुराहपढमं जोगे जोगे-सु वा मयं विइअमेगजोगम्मि। तहअंच कायभोगे, सुक्कमजोगिम्मि अचउत्थं / / 54 // प्रथमं पृथक्त्ववितर्क सविचारं, योगे मनआदौ, योगेषु वा सर्वेषु, मतभिष्टम् , तच्चाऽऽगमिकश्रुतपाठिनः। द्वितीयम्-एकत्ववितर्कविचारं, तदेकयोग एव, अन्यतरस्मिन् सङ्क्रमाभावात् तृतीयं च-सूक्ष्मक्रियानिवर्ति, काययोगे, न योगान्तरे, शुक्लम् अयोगिनि च शैलेशीकेवलिनि, चतुर्थम् - व्युपरतक्रियाऽप्रतिपाति, इति गाथाऽर्थः / / 85 // आह-शुक्लध्यानोपरिमभेदद्वये मनो नास्ति, अमनस्कत्वात् / केवलिनः, ध्यानं च मनोविशेषः, 'ध्यै चिन्तायामिति पाठात् , तदेतत्कथम् ? इति। उच्यतेजह छउमत्थस्स मणो, झाणं भण्णइ सुनिचलं संतं / तह केवलिणो काओ, सुनिचलो भण्णए झाणं / / 86 // यथा छद्मस्थस्य मनः, किम् ?-ध्यानं भण्यते। सुनिश्चलं सत्, तथा तेनैव प्रकारेण, योगत्वाव्यभिचारात्, केवलिनः, कायः सुनिश्चलो भण्यते ध्यानम्। इति गाथाऽर्थः / / 86 // आह-चतुर्थे निरुद्धत्वादसावपिन भवति, तथाविधभावे ऽपि च सर्वभावप्रसङ्गः, तत्र का वार्ता ? इत्युच्यतेपुथ्वप्पओगओ वि अ, कम्मविणिज्जरणहेउओ चावि। सद्वत्थबहुत्ताओ, तह जिणचंदागमाओ अ / / 87 / / चित्ताभावे विसई, सुहुमोवरयकिरियाउ भण्णंति। जीवोवओगसब्मा-वओ भवत्थस्स झाणाई॥१८॥ काययोगनिरोधिनो योगिनोऽयोगिनो वा, चित्ताभावेऽपि सति सूक्ष्मोपरतक्रिये भण्येते / सूक्ष्मग्रहणात्सूक्ष्मक्रियानिवर्तिनो ग्रहणं, उपरतग्रहणादुपरतक्रियाऽप्रतिपातिन इति / / पूर्वप्रयोगादिति हेतुः, कुलालचक्रभ्रमणवदिति दृष्टान्तोऽभ्यूह्यः / यथा तचक्रं भ्रमणनिमित्तदण्डाऽऽदिक्रियाऽभावेऽपि भ्रमति, तथाऽस्यापि मनःप्रभृतियोगोपरमेऽपि जीवोपयोगसद्भावतो भावमनसो भावात् भवस्थस्य ध्याने इति। अपिशब्दश्चोदनानिर्णयप्रथमहेतुसंभावनाऽर्थः / चशब्दस्तु प्रस्तुतहेत्वनुकर्षणार्थः / एवं शेषहेतवोऽप्यनया गाथया योजनीयाः / / विशेषस्तूच्यतेकर्मविनिर्जरणहेतुतश्चापिकर्मविनिर्जरणहेतुत्वात् , क्षपक श्रेणिवत्। भवति च क्षपकश्रेण्यामिवास्य भवोपग्राहिकर्मनिरिति भावः। चशब्दः प्रस्तुतहेत्वनुकर्षणार्थः / अपिशब्दस्तुद्वितीयहेतुसम्भावनार्थ इति॥तथा शब्दार्थबहुत्वात् ,यथैकस्यैव हरिशब्दस्य शक्रशाखामृगाऽऽदयोऽनेकेऽर्थाः, एवं ध्यानशब्दस्यापि, न विरोधः।' ध्यै ' चिन्तायाम् , ' ध्यै ' काययोगनिरोधे, ' ध्यै ' अयोगित्वे, इत्यादि। तथा जिनचन्द्राऽऽगमाच्चैतदेवमिति / उक्तं च- " आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम् / अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये // 1 // " इत्यादि माथाद्वयार्थः / / 87 // 88 / उक्तं ध्यातव्यद्वारम्। ध्यातारस्तु धर्मध्यानाधिकारे उक्ताः। अधुनाऽनुप्रेक्षाद्वारमुच्यतेसुक्कज्झाणसुभाविअ-चित्तो चिंतेइ झाणविगमे वि। विअयमणुप्पेहाओ, चत्तारि चरित्तसंपन्नो // 6 // शुक्लध्यानशुभावितचित्तश्चिन्तयति ध्यानोपरमेऽपि नियतमनुप्रेक्षाश्वतसश्चारित्रसंपन्नः, तस्य परिणामरहितस्य तदभावादिति गाथाऽर्थः || 6 || ताश्चैताःआसवदारावाए, तह संसारासुहाणुभावं च / भवसंताणमणंतं, वत्थूणं विपरिणामं च / / 10 // आश्रवद्वाराणि मिथ्यात्वाऽऽदीनि, तदपायान् दुःखलक्षणान्; तथासंसाराशुभानुभावंच" असुभानुभावबंधी संसारो " इत्यादि। भवसन्तानमनन्तं भाविनारकाऽऽद्यपेक्षया। वस्तूनां विपरिणामञ्च सचेतनाचेतनानाम् ;" सव्वट्ठाणाणि असासयाणि "इत्यादि। एताश्चतस्रोऽप्यपायाशुभानन्तविपरिणामानुप्रेक्षा आद्यद्वयभेदसंगता एव द्रष्टव्याः। इति गाथाऽर्थः // 60 // उक्तमनुप्रेक्षाद्वारम्। इदानी लेश्याद्वाराभिधित्सयाऽऽहसुक्काए लेसाए, दो तइ परमसुक्कलेसाए। थिरयाजिअसेलेसं, लेसाईअं परमसुक्कं / / 11 // सामान्येन शुक्लायां लेश्यायां, द्वे आधे उक्तलक्षणे, तृतीयमुक्तलक्षणमेव, परमशुक्ललेश्यायां स्थिरताजितशैलेशं मेरोरपि निप्रकम्पतरमित्यर्थः / लेश्याऽतीतं परमशुक्ल चतुर्थमिति गाथाऽर्थः / / 61 / उक्तं लेश्याद्वारम्। इदानी लिङ्गद्वारं विवर्णयिषुस्तेषां नामप्रमाण स्वरूपगुणभावनार्थमाहअवहासंमोहविवे-गवुसग्गा तस्स हुंति लिंगाई। लिंगिज्जइ जेहिँ मुणी, सुक्कज्झाणोवगयचित्तो // 12 // चालिज्जइ वीहेइ व, धीरो न परीसहोवसग्गेहिं। सुहुमेसु न संमुच्छइ, भावेसुन देवमायासु // 63 || देहविवित्तं पिच्छइ, अप्पाणं तह य सव्वसंजोगे। देवोवहिवुस्सग्गं, निस्संगो सव्वहा कुणइ / / 64 // अवधासमोहविवेकव्युत्सर्गाः, तस्य शुक्लध्यानस्य, भवन्ति लिङ्गानि, लिङ्गयते गम्यते यैर्मुनिः शुक्लध्यानोपगतचित्त इति गाथाऽक्षरार्थः / / 62 / अधुना भावार्थमाह-चाल्यते ध्यानान्न परीसहोपसर्गविभेति वा धीरो बुद्धिमान्स्थिरो वा, न तेभ्य इत्यवधलिङ्गम्। सूक्ष्मेष्वत्यन्तगहनेषुनसंमुह्यतिन संमोहमुपगच्छति, भावेषुपदार्थेषु, न देवमायास्वनेकरूपास्वित्यसंमोहलिङ्गम् , इति गाथाऽर्थः / / 63 / / देहविविक्तं पश्यति आत्मानं, तथा च सर्वसंयोगानिति विवेकलिङ्गम्। देहोपधिव्युत्सर्ग निःसङ्गः सर्वथा करोतीति व्युत्सर्गलिङ्गमिति गाथाऽर्थः // 64 || गतं लिङ्गद्वारम्। साम्प्रतं फलद्वारमुच्यते। इह चलाघवार्थ प्रथमोपन्यस्तं धर्मफलमभिधाय शुक्लध्यानफलमाह, धर्मफलानामेव शुद्धतराणामाद्यशुक्लद्वयफ लत्वादत आहहुति सुभाऽऽसवसंवर-विणिज्जराऽमरसुहाइँ विउलाई। झाणवरस्स फलाइं, सुहाणुबंधीणि धम्मस्स / / 65 //
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy