________________ झाण 1670- अभिधामराजेन्द्रः भाग - 4 झाण यस्य, मनस इति योगः। तत् त्रिभुवनविषयं, क्रमशः क्रमेण, परि-पाट्या प्रतिवस्तुत्यागलक्षणया, संक्षिप्य संकोच्य, किम् ? मनः-अन्तःकरणम् / क्व? अणौ परमाणौ, विधायेति शेषः। क्व? छद्मस्थः प्रानिरूपितशब्दार्थः / ध्यायति चिन्तयति, सुनिष्प्रकम्पोऽतीव निश्चल इत्यर्थः / ध्यान शुक्लं, ततोऽपि प्रयत्नविशेषान्मनः अपनीय, अमना अविद्यमानान्तःकरणो, जिनो भवत्यर्हन् भवति, चरमयोद्धयोतिति वाक्यशेषः / तत्राप्यास्यान्तर्मुहूर्तेन शैलेशीमप्राप्तस्तस्यां च द्वितीयस्येति गाथाऽर्थः / / 71 // आह-कथं पुन छद्मस्थः त्रिभुवनविषयं मनः संक्षिप्याणौ धारयति, केवली वा ततोऽप्यपनयति ? (अत्र दृष्टान्तः ' जिणविज ' शब्दे तृतीयभागे 1506 पृष्ठे गतः) अस्मिन्नेवार्थे दृष्टान्तान्तरमभिधातुकाम आहओसारिएंघणभरो,जह परिहाइ कम्मसो हुआसो वा। थोविंधणावसेसो, निव्वाइ तओऽवणीओ अ / / 75 / / अपसारितेन्धनभरः-अपनीतदाह्यसंघातः, यथा परिहीयते हानि प्रपद्यते, क्रमशः क्रर्मण, हुताशो वह्निः, या विकल्पार्थे, स्तोकेन्धनावशेषः हुताशनमात्रं भवति, तथा निर्वाति विध्यापयति, ततः स्तोकेन्धनादपनीतश्चेति गाथाऽर्थः / / 75 / / अस्यैव दृष्टान्तस्योपनयमाहतह विसएंधणहीणो, मणोहुआसो कमेण तणुअम्मि। विसएंधणं निरुज्झइ, निव्वाइ तओऽवणीओ अ॥७६ // तथा विषयेन्धनहीनो गोचरेन्धनहीन इत्यर्थः / मन एव दुःखदाहकारणत्वाद् हुताशो मनोहुताशः, क्रमेण परिपाट्या, तनुके कृशे, क्व ?विषयेन्धने, अणावित्यर्थः / किम् ? निरुध्यतेनिश्चयेन ध्रियते, तथा निर्वाति, ततस्तस्मादणौ अपनीतश्चेति गाथाऽर्थः / / 76 // पुनरप्यस्मिन्नेवार्थे दृष्टान्तोपनयावाहतोयमिव नालिआए, ततायसभायणोदरत्थं वा। परिहाइ कमेण जहा, तह जोमिमणोजलं जाण / / 77 // तोयमिव उदक मिव, नालिकायाः घटिकायाः, तथा-तप्तं च तदासयभाजनं लोहभाजनं, तदुदरस्थं ; वा विकल्पार्थः / परिहीयते क्रमेण यथा। एष दृष्टान्तः। अथमुपनयः-तथा तेनैव प्रकारेण, योगिमन एवाऽविकलत्वाज्जलं योगिमनोजलं, जानीहि अवबुध्यस्वा तथाअप्रमादानलतप्तजीवभाजनस्थं मनो जलं परिहीयत इति भावना / अलमतिविस्तरेण इति गाथाऽर्थः / / 77 // अपनयति ततोऽपि जिनवैद्य इति वचनादेव तावत्केवली मनोयोग निरुणद्धीत्युक्तम्। अधुना शेषयोगनिरोधविधिमभिधातुकाम आहएवं चिअ वयजोगं, निरुभइ कमेण कायजोगं पि। तो सेलेसु व्व थिरो, सेलेसी केवली होइ / / 78 // एवमेव एभिरेव विषाऽऽदिदृष्टान्तैः, किम् ? वाग्योग, निरुणद्धि। तथा / क्रमेण काययोगमपि, निरुणद्वीति वर्तते। ततः शैलेश इव मेरुरिव, स्थिरः सन् शैलेशी केवली भवतीति गाथाऽर्थः। (आव०) (इह च भावार्थः' सेलेसी' शब्दे वक्ष्यते) (15) इदानींध्यातव्यद्वारं विवृण्वन्नाहउप्पाणटिइभंगा-इपज्जवाणं जमेगदव्वम्मि। नाणानयाणुसरणं, पुव्वगयसुआणुसारेणं / / 76 / / उत्पादस्थितिभङ्गाऽऽदिपर्यायाणाम् , उत्पादाऽऽदयः प्रतीताः / आदिशब्दान्मू मूर्तग्रहः / अमीषां पर्यायाणां, यदेकस्मिन् द्रव्ये अणवात्माऽऽदौ, किम् ? नानानयैर्द्रव्यास्तिकायाऽऽदिभिः, अनुस्मरणं चिन्तनम् / कथम् ? पूर्वगतश्रुतानुसारेण पूर्वविदः / मरुदेव्यादीनां त्वन्यथा / तत्किमित्याहसविआरमत्थवंजण-जोगंतरओ तयं पढमसुकं / होइ पुहुत्तविअक्कं, सविआरमरागभावस्स / / 10 / / सविचारम्-सह विचारेण वर्तत इति सविचारम् , "विचारोऽर्थव्यञ्जनयोगसंक्रमः " इति आह च / अर्थव्यञ्जनयोगान्तरतः-अर्थो द्रव्यं, व्यञ्जनं शब्दः, योगो मनःप्रभृति, एतदन्तरत एतद्देदेन, सविचारम् , अर्थाद्व्यञ्जनं संक्रामतीति विभाषा / तम् , कम्?-एतत् प्रथमं शुक्लमाद्यं शुक्लं भवति। किनाम्ना? इत्यत आह-पृथक्त्ववितर्क सविचारं-पृथक्त्वेन भेदेन विस्तीर्णभावेन अन्ते वितर्क: श्रुतं यस्मिस्तत्तथा / कस्येदं भवति? इत्यत्राऽऽह-अरागभावस्य रागपरिणामरहितस्येति गाथाऽर्थः / / 87 // जं पुण सुनिप्पकंप, निवायसरणप्पईवमिव चित्तं / उप्पायट्टिइभंगा-इयाणमेगम्मि पञ्जाए।।१।। यत्पुनः सुनिष्प्रकम्पं विक्षेपरहितं, निर्वातशरणप्रदीप इव निर्गतवातगृहैकदेशस्थदीप इव, चित्तमन्तःकरणं, क्य? उत्पादस्थितिभङ्गाऽऽदीनामेकस्मिन् पर्याये / / 81 // तत्किम् ? अत आहअवियारमत्थवंजण-जोगंतरओ तयं विइयसुक्कं / पुटवगयसुआलंवण-मेगत्तविअकमवियारं / / 52 // अविचारमसंक्रमम् , कुतः ? अर्थव्यञ्जनयोगान्तरत इति पूर्ववत्। तत्, किमेवंविधम् ? द्वितीयं शुक्लं भवति / किमभिधानमिति? अत आह-एकत्ववितर्कमविचार-एकत्वेनाभेदेन वितर्क: व्यञ्जनरूपः, अर्थरूपो वा यस्य तत्तथा / इदमपि च पूर्वगतश्रुताऽऽलम्बनम् , पूर्वगतश्रुतानुसारेणैव भवति। अविचाराऽऽदि पूर्ववदिति गाथाऽर्थः / / 82 // निव्वाणगमणकाले, केवलिणो दरनिरुद्धजोगस्स। सुहुमकिरियाऽनिअर्टि, तइअंतणुकायकिरियस्स / / 8311 निर्वाणगमनकाले मोक्षगमनप्रत्यासन्नसमये, केवलिनः सर्वज्ञस्य, मनोवाग्योगद्वये निरुद्धे सति, अर्द्धनिरुद्धकाययोगस्य, किम् ? सूक्ष्मक्रियानिवर्तिसूक्ष्मा क्रिया यस्मिन् तत्सूक्ष्मक्रिय, सूक्ष्मक्रियं च तदनिवर्ति चेति नामनिवर्तितुं शीलमस्येति निवर्ति, प्रवर्धमानतरपरिणामात् , न निवर्ति अनिवर्ति, तृतीयं, ध्यानमिति गम्यते / तनुकायक्रियस्येतितन्वी उच्छ्वासनिःश्वासाऽऽदिलक्षणा, कायक्रिया यस्य स तथाविधस्तस्येति गाथाऽर्थः / / 83 // तस्सेव य सेलेसिं, गयस्स सेलेसु व निप्पकंपस्स। वुच्छिन्नकिरिअमप्पडि-वाइं झाणं परमसुक्कं / / 84 // तस्यैव च केवलिनः शैलेशी गतस्य, शैलेशी प्राग्वर्णिता,तां प्राप्तस्य, किंविशिष्टस्य ? निरुद्धयोगत्वाच्छैलेश इव निष्प्रकम्पस्य, मेरुरिव स्थिरस्येत्यर्थः / किम् ? व्यवच्छिन्नक्रिय, योगाभावात्; अप्रतिपाति अनुपरतिस्वभावमिति / एतदेव चास्य नाम, ध्यानं परमशुक्लं, प्रकटार्थमेव तदिति गाथाऽर्थः / / 84 //