SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ झाण 1666 - अभिधानराजेन्द्रः भाग-४ झाण लेश्याद्वारम्। इदानी लिङ्गद्वारं विवृण्वन्नाहआगमउवएसाऽऽणा-निसग्गओ जंजिणप्पणीयाणं। भावाणं सद्दहणं, धम्मज्झाणस्स तं लिंगं / / 65 / / इहाऽऽगमोपदेशाऽऽज्ञानिसर्गतो यज्जिनप्रणीतानां तीर्थङ्करप्ररूपितानां, भावानां द्रव्याऽऽदिपदार्थानां, श्रद्धानम्-अवितथा एत इत्यादिलक्षणं, धर्मध्यानस्य, तल्लिङ्गमिति। तच्च श्रद्धानेन लिङ्ग यते धर्मध्यानीति। इह चाऽऽगमः सूत्रमेव, तदनुसारेण कथनमुपदेशः, आज्ञा त्वर्थः, निसर्गः स्वभाव इति गाथाऽर्थः // 68 // किंन हाथेति-क्षीणमोहाः क्षपकनिर्ग्रन्थाः, उपशान्तमोहा उपशामकनिर्ग्रन्थाः / चशब्दादन्ये चाप्रमादिनः,ध्यातारश्चिन्तकाः, धर्मध्यानस्येति संबन्धः। ध्यातार एव विशेष्यन्तेज्ञानधना ज्ञानविद्याः, विपश्चित इत्यर्थः / निर्दिष्टाः प्रतिपादिताः,तीर्थकरगणधरैरितिगाथाऽर्थः / / 64 // उक्ता धर्मध्यानस्य ध्यातारः। साम्प्रतं शुक्लध्यानस्याप्याद्यभेदद्वयस्थाविशेषेणैतएव यतो ध्यातार इत्यतो नान्ये पुनरभिधेया भविष्यन्तीति लाघवार्थं चरमभेदद्वयस्य च प्रसङ्गत एतानेवाभिधित्सुराहएए वि य पुव्वाणं, पुव्वधरा सुप्पसत्थसंघयणा। दुन्ह सजोगाजोगा, सुक्काण पराण केवलिणो। 65 / / एत एव येऽनन्तरमेव धर्मध्यानध्यातार उक्ताः, पूर्वयोरित्याद्ययोर्द्वयोः शुक्लध्यानभेदयोः पृथक्त्ववितर्क सविचारम् , एकत्ववितर्कमविचारमित्यनयोः, ध्यातार इति गम्यते। अयं पुनर्विशेषःपूर्वधराश्चतुर्दशपूर्वविदस्तदुपयुक्ताः, इदं च पूर्वधरविशेषणमप्रमादवतामेव वेदितव्यम् ; न निर्गन्थानां, माषतुषमरुदेव्यादीनामपूर्वधराणामपि तदुपपत्तेः / सुप्रशस्तसंहनना इत्याद्यसंहननयुक्ताः, इदं पुनरोघतएव विशेषणमिति / तथा द्वयोः शुक्लयोः, परयोरुत्तरकालभाविनोः प्रधानयोर्वा सूक्ष्मक्रियानिवृत्तिव्युपरतक्रियाप्रतिपातिलक्षणयोर्यथासङ्ख्यं सयोग्ययोगिकेवलिनोः, ध्यातार इति योगः / एवं च गम्यते-" सुक्कज्झाणाइदुगवोलीणस्स ततियमपत्तस्स एयाए झाणंतरियाए वट्टमाणस्स केवलनाण समुप्पज्जइ, केवलियसुक्कलेसो अज्झाणी य० जावसुहुमकिरियमनियट्टि त्ति "गाथार्थः / / 65 / / उक्तमानुषङ्गिकम्। (13) इदानीमवसरप्राप्तमनुप्रेक्षाद्वारं व्याचिख्या सुरिदमाहझाणोवरमे वि मुणी, निच्चमणिचाइचिंतणोवरमो। होइ सुभाविअचित्तो, धम्मज्झाणेण जो पुट्विं // 66 // इह ध्यानधर्मध्यानमभिगृह्यते ; तदुपरमेऽपि तद्विगमेऽपि, मुनिः साधुः, नित्यं सर्वकालम् , अनित्याऽऽदिचिन्तनोपरमो भवति। आदिशब्दादनित्याशरणैकत्वसंसारपरिग्रहः / एताश्चतस्रोऽनुप्रेक्षा भावयितव्याः, इष्टजनसंप्रयोगद्धिविषयसुखसंपद इत्यादिना ग्रन्थेन / फलं चासां सचित्ताऽऽदिष्वनभिष्वङ्गभवनिर्वेदादिति भावनीयम्। अथ किविशिष्टोऽ-- नित्याऽऽदिचिन्तनो परमो भवति ? अत आह-सुभावितचित्तः सुभावितान्तःकरणः, केन ? धर्मध्यानेन प्रानिरूपितस्वरूपेण, यः कश्चित् , पूर्वमादाविति गाथाऽर्थः / / 66 / / गतमनुप्रेक्षाद्वारम्। अधुना लेश्याद्वारप्रतिपिपादयिषयाऽऽहहुंति कम्मविसुद्धाउ, लेसाओ पीअपम्हसुक्काओ। धम्मज्झाणोवगय-स्स तिव्वमंदाइभेआओ।।६७।। इह भवन्ति संजायन्ते, क्रमविशुद्धाः परिपाटिविशुद्धाः, काः? लेश्याः / ताश्च पीतपद्मशुक्लाः। एतदुक्तं भवतिपीतलेश्यायाः पद्मलेश्या विशुद्धा, तस्या अपि शुक्ललेश्यति क्रमः / कस्यैता भवन्ति ? अत आहधर्मध्यानोपगतस्य, धर्मध्यानयुक्तस्येत्यर्थः। किंविशिष्टाश्चैता भवन्ति ? अत आह-तीव्रमन्दाऽऽदिभेदा इति। तत्र तीव्रभेदाः पीताऽऽदिस्वरूपेष्वन्त्याः, मन्दभेदास्त्वाद्याः / आदिशब्दान्मध्यमपक्षपरिग्रहः अथवौघत एव परिणामविशेषात् तीव्रमन्दाऽऽदिभेदा इति गाथाऽर्थः / / 67 / / उक्त जिणसाहुगुणकित्तण-पसंसणादाणविणयसंपन्नो। सुअसीलसंजमरओ, धम्मजझाणी मुणेयव्यो / / 66 / / जिनसाधुगुणोत्कीर्तनप्रशंसादानविनयसंपन्न / इह जिनसाधवः प्रतीताः, तद्गुणाश्च निरतिचारसम्यग्दर्शनाऽऽदयः, तेषामुत्कीर्तनं सामान्येन संशब्दनमुच्यते / प्रशंसा त्वहो ग्लाध्यतया भक्तिपूर्विका स्तुतिः, विनयोऽभ्युत्थानाऽऽदिः, दानमशनाऽऽदिप्रदानम् : एतत्संपन्न एतत्समन्वितः / तथा श्रुतशीलसंयमरतः-तत्र श्रुते सामाथिकाऽऽदिबिन्दुसारान्तं, शीलं व्रताऽऽदिसमाधानलक्षणं, संयमस्तु प्राणातिपाताऽऽदिनिवृत्तिलक्षणः / यथोक्तम्-पञ्चाऽऽश्रवादित्यादि। एतेषु भावतो रतः / किम्? धर्मध्यानो विज्ञातव्य इतिगाथाऽर्थः / / 66 / / गतं लिङ्गद्वारम्। (14) अधुना फलद्वारावसरः / तच लाघवार्थ शुक्लध्यानफलाधिकारे वक्ष्यतीति / उक्तं धर्मध्यानम्। इदानीं शुक्लध्यानावसर इत्यस्य चान्वर्थः प्राग्निरूपित एव। इहापि च भावनाऽऽदीनि फलान्तानि तान्येव द्वादश द्वाराणि भवन्ति / तत्र भावनादेशकालाऽऽसनविशेषेषु धर्मध्यानादस्याविशेष एवेत्यतस्तान्यनादृत्याऽऽलम्बनाऽऽदीन्यभिधित्सुराहअह खंतिमहवऽज्जव-मुत्तीओ जिणमयप्पहाणाओ। आलंवणेहि जेहिं, सुक्कज्झाणं समारुहइ / / 70 // अथेत्यासनविशेषाऽऽनन्तर्ये, क्षान्तिमार्दवाऽऽर्जवमुक्तयः-क्रोधमानमायालोभपरित्यागरूपाः। परित्यागश्चाक्रोधेन वर्तनम् , उदयनिरोधः, उदीर्णस्य च विफलीकरणमिति। एवं मानाऽऽदिष्वपि भावनीयम् / एता एव क्षान्तिमार्दवाऽऽर्जवमुक्तयो विशेष्यन्तेजिनमतप्रधाना इति-जिनमते तीर्थकरदर्शन, कर्मक्षयहेतुतामधिकृत्य प्रधानाः जिनमतप्रधानाः / प्राधान्यं चाऽऽसामकषायं चारित्रम् , चारित्राच निश्चयतो मुक्तिरितिकृत्वा / ततश्चैना आलम्बनानि प्रानिरूपितशब्दार्थानि, यैरालम्बनैः करणभूतैः शुक्लध्यानं समारोहति / तथा च क्षान्त्याद्यालम्बन एव शुक्लध्यानमासादयति, नान्यइतिगाथाऽर्थः / व्याख्यातं शुक्लध्यानमधिकृत्याऽऽलम्बनद्वारम्। (शुक्लध्यानभेदाश्च ' सुक्कज्झाण ' शब्दे विलोकनीयाः) साम्प्रतं क्रमद्वारावसरः-क्रमश्चाऽऽद्ययोर्द्वयो धमध्यानएवोक्तः / इह पुनरयं विशेषःतिहुयणविसयं कमसो, संखिविअ मणं अणुम्मि छउमत्थो। झायइ सुनिप्पकंपो, झाणं अमणो जिणो होइ / / 71 / / त्रिभुवनमधस्तिर्य गर्व लोक भेदं, तद्विषयो गोचर आलम्बनं
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy