________________ झाण 1668 - अभिधानराजेन्द्रः भाग - 4 झाण किंचउवओगलक्खणमणा-इनिहणमत्थंतरं सरीराओ। जीवमरूवं कारिं, भोइंच सयस्स कम्मस्स / / 56 / / उपयुज्यतेऽनेनेत्युपयोगः, साकारानाकाराऽऽदिः / उक्तं च- "स / द्विविधोऽष्टचतुर्भेदः / स एव लक्षणं यस्य स उपयोगलक्षणस्तम ; जीवमिति वक्ष्यति / तथा-अनाद्यनिधनम् अनाद्यपर्यवसितं, भवापवर्गप्रवाहापेक्षया नित्यमित्यर्थः / तथाऽर्थान्तरं पृथग्भूतं, कुतः? शरीरात् , जातावेकवचनम्-शरीरेभ्य औदारिकाऽऽदिभ्य इति / किमिति ? अत आह-जीवति, जिविष्यति, जिवितवान् वा जीव इति, तम्। किंभूतमिति ? अत आह-अरूपणिममूर्तमित्यर्थः / तथा करि निर्वर्तकं, कर्मण इतिगम्यते। तथा भोक्तारमुपभोक्तारम्, कस्य?-स्वकस्य आत्मीयस्य, कर्मणो ज्ञानाऽऽवरणाऽऽदेरिति गाथाऽर्थः / / 56 / / तस्स य सकम्मजणिअं, जम्माइजलं कसायपायालं / वसणसयसावयमणं, मोहाऽऽवत्तं महाभीमं / / 57 // तस्य च जीवस्य च, स्वकर्मजनितम्-आत्मीयकर्मनिवर्तितम्। कम् ?संसारसागरमिति वक्ष्यति। किम्भूतम् ? जन्माऽऽदिजलं, जन्म प्रतीतम्; आदिशब्दाजरामरणपरिग्रहः / एतान्येवातिबहुत्वाङलमिव जलं यस्मिन्स तथाविधस्तम्। तथा कषायपातालंकषायाः पूर्वोक्ताः,तएवागाधभवजननसामान्येन पातालमिव पातालं यस्मिन् स तथाविधस्तम् / तथा व्यसनशतश्वापदवन्तम्-व्यसनानि दुःखानि, धूताऽऽदीनि वा, तथा तान्येव पीडाहेतुत्वात् श्वापदानि, तान्यस्य विद्यन्त इति तद्वान् , तं, (मणं ति) देशीशब्दो मत्वर्थीयः / उक्तं च-" मतुवत्थम्मि मुणेजह, | आलं इल्लं मणं च मणुयं च " इति। तथा मोहाऽऽवर्तम्-मोहो मोहनीय कर्म, तदेव तत्र विशिष्टभ्रमिजनकत्वात् आवर्तो यस्मिन् स तथाविधस्तम् / तथा महाभीमम्-अतिभयानकमिति गाथार्थः / / 57 // किंचअन्नाणमारुएरिअ-संजोगविओगवीइसंताणं। संसारसागरमणो-रपारमसुहं विचिंतिजा / / 58 // अज्ञानं ज्ञानाऽऽवरणकर्मोदयजनित आत्मपरिणामः, स एव तत्प्रेरकत्वान्मारुतो वायुः, तेनेरितः प्रेरितः, कः ?-संयोगवियोगवीचिसन्तानो यस्मिन् स तथाविधस्तम् / तत्र संयोगः केनचित्सह संबन्धः, वियोगस्तेनैव विप्रयोगः / एतावेव सततप्रवृत्तत्वाद्वीचय ऊर्मयस्तत्प्रवाहः सन्तान इति भावना / संसरणं संसारः सागर इव संसारसागरस्तम्। किम्भूतम् ?-" अणोरपारं" अनाद्यपर्यवसितम्, अशुभमशोभनं, विचिन्तयेत् , तस्य गुणरहितस्य जीवस्येति गाथाऽर्थः / / 58 / / तस्स य संतरणसहं, सम्मइंसणसुबंधणं अणहं। नाणमयकन्नधारं, चारित्तमयं महापो।। 56 // तस्य च संसारसागरस्य, सन्तरणसह सन्तरणसमर्थ, पोतमिति वक्ष्यति। किंविशिष्टम् ? सम्यग्दर्शनमेव शोभनं बन्धनं यस्य स तथाविधः, तम् , अनघम्-अपापम्। ज्ञानं प्रतीतं, तन्मयस्तदात्मकः, कर्णधरो निर्यामकविशेषो यस्य यस्मिन् वा स तथाविधस्तम् , चारित्रं प्रतीतम् , तदात्मकम् / महापोतमिति महाबोहित्थम; क्रिया पूर्ववदिति / गाथाऽर्थः / / 56 / / संवरकयनिच्छिद्यु,तवपवणाऽऽविद्धजवणतरवेगं। वेग्गमग्गपडिअं, विसुत्तिआवीइनिक्खोहं॥६०॥ इहाऽऽश्रवनिरोधः संवरः, तेन कृतं निश्छिद्रम्, स्थगितरन्ध्रमित्यर्थः। अनशनाऽऽदिलक्षणं तपः, तदेवेष्टपुरं प्रति प्रेरकत्वात् पवन इव तपःपवनः, तेनाऽऽविद्धस्य प्रेरितस्य, जवनतरः शीघ्रतरः, वेगो रयो यस्य स तथाविधस्तम्। तथा विरागस्य भावो वैराग्यं, तदेवेष्टपुरप्रापकत्वाद् मार्ग इव वैराग्यमार्गः, तस्मिन् पतितो गतस्तम्; तथा विश्रोतसिका अपध्यानानि, एता एवेष्टपुरप्राप्तिविघ्नहेतुत्वाद्वीचय इव विश्रोतसिकावीचयः, ताभिर्निक्षोभ्यः निष्प्रकम्पस्तमिति गाथाऽर्थः // 60 // एवम्भूतं पोतम्। किम् ?आरोढुं मुणिवणिआ, महग्घसीलंगरयणपडिपुन्नं / जह तं निव्वाणपुरं, सिग्घमविग्घेण पावंति // 61 // आरोदुमित्यारुह्य, के ? मुनिवणिजः-मन्यन्ते जगतस्त्रिकालावस्थामिति मुनयः, त एवातिनिपुणमायव्ययपूर्वकप्रवृत्तेर्वणिज इव मुणिवणिजः / पोत एव विशेष्यतेमहा_णि महार्हाणि, शीलाङ्गानि पृथिवीकायसमारम्भपरित्यागाऽऽदीनि वक्ष्यमाणलक्षणानि, तान्येवैकान्तिकाऽऽत्यन्तिकसुखहेतुत्वाद्रत्नानि, तैः प्रतिपूर्णो भृतस्तम्।यथा येन प्रकारेण, तत्प्रक्रान्तं, निर्वाणपुरं सिद्धिपत्तनं परिनिर्वाणपुरं वेति पाठान्तरम् / शीघ्रम् आशु, स्वल्पे न कालेनेत्यर्थः / अविघ्नेनान्तरायमन्तरेण, प्राप्नुवन्त्यासादयन्ति, तथा विचिन्तयेदिति वर्त्तते। इत्ययं गाथाऽर्थः // 61 // तत्थ य तिरयणविणिओ-गमइअमेगंति निरावाह। साहाविअंनिरुवमं,जह सुक्खं अक्खयमुविंति।। 62 / / तत्र च परिनिर्वाणपुरे, त्रिरत्नविनियोगाऽऽत्मकमितित्रीणि रत्नानि ज्ञानाऽऽदीनि, विनियोगश्चैषां क्रियाकरणं, ततः प्रसूतेस्तदात्मकमुच्यते। तथैकान्तिक मिति-एकान्तभावि; निराबाधमित्याबाधारहितं, स्वाभाविकं न कृत्रिमम् , निरुपममुपमाऽतीतमिति / उक्तं च-"ण वि अस्थि माणुसाणं, तं सोक्खं / " इत्यादि। यथा येन प्रकारेण, सौख्यं प्रतीतम्, अक्षयमपर्यवसानम् , उपयान्ति सामीप्येन प्राप्नुवन्ति, क्रिया प्राग्वदिति गाथाऽर्थः / / 62 // किं बहुणा सव्वं चिअ, जीवाइपयत्थवित्थरोवेअं। सव्वनयसमूहमयं, झाइजा समयसब्भावं / / 63 / / किंबहुना भाषितेन ? सर्वमेव निरवशेषमेव, जीवाऽऽदिपदार्थविस्तरोपेतंजीवाजीवाऽऽ श्रवबन्धसंवरनिर्जरामोक्षाऽऽख्यपदार्थप्रपञ्चसमन्वितं, समयसद्भावमिति योगः / किंविशिष्टम् ? सर्वनयसमूहाऽऽत्मकं द्रव्यास्तिकायाऽऽदिनयसङ्घातमयमित्यर्थः / ध्यायेद्विचिन्तयेदिति भावना। समयसद्भावं सिद्धान्तार्थमिति हृदयम्। अयं गाथाऽर्थः / गतं ध्यातव्यद्वारम्॥ 63 // (12) साम्प्रतं येऽस्यध्यातारस्तान्प्रतिपादयन्नाहसव्वप्पमायरहिआ, मुणओ खीणोवसंतमोहाय। झायारो नाणधणा, धम्मज्झाणस्स निद्दिट्ठा॥ 64 // प्रमादा मद्याऽऽदयः / यथोक्तम्- " मज्जं विसयकसाया, निद्दा विकहा य पंचमी भणिया / " सर्वप्रमादैः रहिताः सर्वप्रमादरहिताः, अप्रमादवन्त इत्यर्थः / मुनयः साधवः क्षीणोपशान्तमो