________________ झाण 1667 - अभिधानराजेन्द्रः भाग - 4 झाण धानमानानि। किम ?-'विचिन्तयेत्' इति पर्यन्ते वक्ष्यति षष्ट्या (?) (58) गाथायामिति / तत्र लक्षणाऽऽदीनि विचिन्तयेदत्रापि गाथान्ते द्रव्याणामित्युक्तं, तत्प्रतिपदमायोजनीयमिति / तत्र लक्षणं धर्मास्तिकायाऽऽदिद्रव्याणां गत्यादि : तथा संस्थानं मुख्यवृत्त्या पुद्गलरचनाऽऽकारलक्षणं परिमण्डलाऽऽद्यजीवानाम्।यथोक्तम्-" परिमंडले पवड्डे. तंसे चउरंस आयतेचेव। "जीवशरीराणांचसमचुतरनाऽऽदि। यथोक्तम्" समचउरंसे णिग्गोहमंडले साति वामणे खुम्जे। हुंडे वि य संठाणे, जीवाणं छ मुणेयव्वा // 1 // " धर्माधर्मयोरपि लोकक्षेत्रापेक्षया भावनीयमिति। उक्तंच-"हेट्ठा मज्झे उवरिं, छव्वीझल्लरिमुइंगसंठाणो। लोगो अद्धागारो, अद्धा खित्तागिईणेआ॥१॥" तथाऽऽसनान्याधारलक्षणानि धर्मास्तिकायाऽऽदीनां लोकाऽऽकाशाऽऽदीनि स्वरूपाणि वा। तथा विधानानि धर्मास्तिकायाऽऽदीनामेव भेदानीत्यर्थः / यथा" धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पदेसे " इत्यादि। तथा मानानिप्रमाणानि धर्मास्तिकायाऽऽदीनामेवाऽऽत्मीयानि / तथा उत्पादस्थितिभङ्गाऽऽदिपर्याया ये च द्रव्याणां धर्मास्तिकायाऽऽदीनां, तान्विचिन्तयेदिति। तत्रोत्पादाऽऽदिपर्यायसिद्धिः" उत्पादव्ययध्रौव्ययुक्तं सत्' इति वचनात्। युक्तिः पुनरत्र" घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम्। शोकप्रमोदभाध्यस्थ्य, जनो याति सहेतुकम्॥१॥ पयोव्रतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः। अगोरसवतो नोभे, तस्मात्तत्वं त्रयाऽऽत्मकम्॥२॥" ततश्च धर्मास्तिकायो विवक्षितसमयसंबन्धरूपापेक्षयोत्पद्यते, तदनन्तरातीतसमयसंबन्धरूपापेक्षया तु विनश्यति, धर्मास्तिकायद्रव्याऽऽत्मना तु नित्य इति / उक्तं च-" सर्वव्यक्तिषु नियतं, क्षणे क्षणेऽन्यत्वमथ च न विशेषः / सत्योचित्यपचित्योराकृतिजातिव्यवस्थानात्॥१॥" आदिशब्दादगुरुलध्वादिपर्यायपरिग्रहः / चशब्दः समुच्चयार्थ इति गाथाऽर्थः / / 53 // किञ्चपंचत्थिकायमइअं, लोगमणाइनिहणं जिणक्खायं / नामाइभेअविहिअं, तिविहमहोलोगभेआई / / 54 / / पञ्चास्तिकायमयं लोकमनाद्यनिधनं जिनाऽऽख्यातमिति, क्रिया पूर्ववत् / तत्रास्तयः प्रदेशाः, तेषां काया अस्तिकायाः, पञ्च च ते अस्तिकायाश्चेति विग्रहः / एते च धर्मास्तिकायाऽऽदयो गत्याधुपग्रहकरा ज्ञेया इति। उक्तंच"जीवानां पुद्गलानां च, गत्युपग्रहकारणम्। धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा // 1 // जीवानां पुद्गलानां च, स्थित्युपग्रहकारणम्। अधर्मः पुरुषस्येव, तिष्ठासोरवनिः समा॥२॥ जीवानां पुद्गलानां च, धर्माधर्मास्तिकाययोः / बादराणां घटी यद-दाकाशमवकाशदम॥३॥ ज्ञानाऽऽत्मा सर्वभावज्ञो, भोक्ता कर्ता च कर्मणाम्। नानासंसारिमुक्ताऽऽख्यो, जीवः प्रोक्तो जिनाऽऽगमे / / 4 / / स्पर्शरसगन्धवर्ण-शब्दमूर्तिस्वभावकाः। सङ्घातभेदनिष्पन्नाः, पुद्गला जिनदेशिताः // 5 // तन्मयं तदात्मकम् लोक्यत इतिलोकस्तम् , कालतः किंभूतमिति ? अत आह-अनाद्यनिधनम्-अनाद्यपर्यवसितमित्यर्थः / अनेनेश्वराऽऽ- | दिकृतव्यवच्छेदमाह / असावपि दर्शनभेदासिण एवेत्यत आहजिनाऽऽख्यातं तीर्थकरप्रणीतम्। आह-जिनदेशितानीत्यस्माजिनप्रणीतधर्माधिकारोऽनुवर्तत एव, ततश्च जिनाऽऽख्यातमित्यतिरिच्यते।न। अस्याऽऽदरख्यापनार्थत्वात्, आदरख्यापनाऽऽदौ च पुनरुक्तदोषानुपपत्तेः। तथोक्तम्" अनुवादाऽऽदरवीप्सा-भृशार्थविनियोगहेत्वसूयासु। ईषत्संभ्रमविस्मय-गणनस्मरणे न पुनरुक्तम् // 1 // तथा-नामाऽऽदिभेदविहितं भेदतो नामाऽऽदिभेदावस्थापितमित्यर्थः / उक्तञ्च" नाम ठवणा दविए, खेत्ते काले भवे च भावे य। पञ्जवलोगे य तहा, अट्टविहो लोगनिक्खेवो // 1 // " भावार्थश्चतुर्विंशतिस्तवविवरणादवसेयः। साम्प्रतं क्षेत्रलोकमधिकृत्याऽऽह-त्रिविधं त्रिप्रकारम् , अधोलोकभेदाऽऽदीनि प्राकृतशैल्याऽधोलोकाऽऽदिभेदम् , आदिशब्दात्तिर्यगूर्वलोकपरिग्रहः / इति गाथार्थः॥ 54 // किंच-तस्मिन्नेव क्षेत्रलोके इदं चेदं च विचिन्तवेदिति प्रतिपादयन्नाहखिइवलयदीवसागर-निरयविमाणभवणाइसंठाणं। वोमाइपइट्ठाणं, निचं लोगट्ठिइविहाणं // 55 // क्षितिवलयद्वीपसागरनिरयविमानभवनाऽऽदिसंस्थानं, तत्र क्षितयः खलु घर्माऽऽद्या ईषत्प्राग्भारावसाना अष्टौ भूमयः परिगृह्यन्ते। वलयानि धनोदधिधनवाततनु वाताऽऽत्मकानि धर्माऽऽदि-सप्तपृथिवीपरिक्षेपीण्येकविंशतिः / द्वीपा जम्बूद्वीपाऽऽदयः स्वयम्भूरमणद्वीपान्ता असङ्ख्येयाः / सागरा लवणसागराऽऽदयः स्वयम्भूरमणसमुद्रपर्यन्ता असङ्ख्येया एव / निरयाः सीमन्तकाऽऽद्या अप्रतिष्ठानावसानाः संख्येयाः। यतउक्तम्"तीसा य पन्नवीसा, पनरसय दसेव सयसहस्साई। तिन्नेगं पंचूर्ण, पंच य नरगा जहा कमसो"||१|| विमानानि ज्योतिष्काऽऽदिसंबन्धीन्यनुत्तरविमानान्तान्यसक्येयानि, ज्योतिष्कविमानानामसङ्ख्येयत्वात्। भवनानि भवनवास्यालयलक्षणानि असुराऽऽदिदशनिकायसंबन्धीनि सङ्ख्येयानि। उक्तंच" सत्तेव य कोडीओ, हवंति वावत्तरि सयसहस्सा। एसो भवणसमासो, भवणवतीणं वियाणेजा।। 1 / / " आदिशब्दादसङ्ख्येयव्यन्तरनगरपरिग्रहः। उक्तंच" हेट्ठोवरि जोयणसय-रहिए रयणाएँ जोयणसहस्से। पढमे वंतरियाणं, भोमा णगरा असंखेजा।। 1 // " ततश्च क्षितयश्च वलयानि चेत्यादिद्वन्द्वः / एतेषां संस्थानमाकारविशेषलक्षणं, विचिन्तयेदिति / तथा व्योमाऽऽदिप्रतिष्ठानमित्यत्र प्रतिष्ठितिः प्रतिष्ठानं, भावे ल्युट् / व्योम आकाशम् / आदिशब्दाद्वाताऽऽदिपरिग्रहः / व्योमाऽऽदौ प्रतिष्ठानमस्येति व्योमाऽऽदिप्रतिष्ठानं, लोकस्थितिविधानमिति योगः। विधिर्विधानं, प्रकार इत्यर्थः। लोकस्य स्थितिः लोकस्थितिः, स्थितिर्व्यवस्था मर्यादत्यनर्थान्तरम्। तद्विधानम्। किम्भूतम् ? नित्यं शाश्वतम्। क्रिया पूर्ववदिति गाथार्थः / / 55 / /