SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ झाण 1666 - अभिधानराजेन्द्रः भाग - 4 झाण लावाश्रित्य, किम् ? यथा समाधिनेतियथैव स्वास्थ्ये भवति, तथैव प्रतिपत्तिरिति गाथार्थः // 44 / गतं क्रमद्वारम्। (11) इदानीं ध्यातव्यमुच्यतेआणा विजऍ अवाए, विवागें संठाणओ अनायव्या। एए चत्तारि पया, झायव्वा धम्मझाणस्स / / 45 // तचतुर्भेदमाज्ञाऽऽदि / उक्तं च-आज्ञाऽपायविपाकसंस्थानविपयाय धर्ममित्यादि। (तत्राद्यभेदम् ' आणा ' शब्दे द्वितीयभागे 115 पृष्ठे गतम्) अधुना द्वितीय उच्यतेरागद्दोसकसाया-ऽऽसवाइकिरियासु वट्टमाणाणं / इहपरलोगावाए, झाइज्जा वजपरिवजी॥५१॥ रागद्वेषकषायाऽऽश्रवाऽऽदिक्रियासु वर्तमानानां इहपरलोकापायान् ध्यायेत् / यथा-रागाऽऽदिक्रियैहिकाऽऽमुष्मिकविरोधिनी। उक्तंच" रागः सम्पद्यमानोऽपि, दुःखदो दुष्टगोचरः। महाव्याध्यभिभूतस्य, अपथ्यान्नाभिलाषवत्" / / 1 / / तथा " द्वेषः सम्पद्यमानोऽपि, तापयत्येव देहिनम्। कोटरस्यो ज्वलन्नाशु, दावानल इव द्रुमम् " // 2 // तथा " दृष्ट्यादिभेदभिन्नस्य, रागस्याऽऽमुष्मिक फलम्। दीर्घः संसार एवोक्तः, सर्वज्ञैः सर्वदर्शिभिः " // 3 // इत्यादि। तथा" दोसानलसंतत्तो, इह लोगे चेव दुक्खिओ जीवो। परलोगम्मि य पावो, पावइ निरयानलं तत्तो " // 4 // इत्यादि। तथाकषायाः क्रोधाऽऽदयः, तदपायाः पुनः" कोहो पीई पणासेइ, माणो विणयनासणो। माया मित्ताणि नासेइ, लोभो सव्वविणासणो " // 5 // "कोहो य माणोय भणिग्गही य. माया य लोभो य पवड्डमाणा। चत्तारि एए कसिणा कसाया, सिंचंति मूलाइँ पुणब्भवस्स" // 6 // तथा आश्रवाः कर्मबन्धहेतवो मिथ्यात्वाऽऽदयः, तदपायाः पुन:" मिच्छत्तमोहियमई, जीवो इहलोग एव दुक्खाई। निरओवमाइ पावो, पावति पसमाऽऽइगुणहीणो " // 7 // तथा"अज्ञानं खलु कष्ट, क्रोधाऽऽदिभ्योऽपि सर्वदोषेभ्यः। अर्थ हितमहितं वा, न वेत्ति येनाऽऽवृतो लोकः // 8 // तथा"जीवा पावंति इह, पाणवधादविरतीऐं पावाए। नियसुयघायणमादी, दोसे जणगरहिए पावे // 6 // परलोगम्मिविएवं, आसवकिरियाहि अजिए कम्मे। जीवाण चिरमवाया, णिरयादिगतिं भमंताण " // 10 // इत्यादि। आदिशब्दः स्वगतानेकभेदख्यापकः; प्रकृतिस्थित्वनुभावप्र देशबन्धभेदग्राहक इत्यन्ये। क्रियास्तु कायिक्याऽऽदिभेदाः पञ्चः एताः पुनरुत्तरत्र न्यक्षेण वक्ष्यामः। विपाकः पुनः" किरियासु वट्टमाणा, काइगमाईसु दुक्खिया जीवा। इह चेव य परलोगे, संसारपवड्डगा भणिया॥१॥" ततश्चैवं रागाऽऽदिक्रियासु वर्तमानानामपावान् ध्यायेत् / किंवि-शिष्टः सन्निति ? आह-वय॑परिवर्जी-तत्र वर्जनीयं वय॑मकृत्यं परिगृह्यते, तत्परिवर्जी, अप्रमत्त इति गाथार्थः // 51 // उक्तः खलु द्वितीयो ध्यातव्यभेदः। अधुना तृतीय उच्यतेपयइट्ठिइप्पएसा-णुभावभिन्नं सुहासुहविभत्तं। जोगाणुभावजणिअं, कम्मविभागं विचिंतिजा / / 52 / / तत्र प्रकृतिस्थितिप्रदेशानुभावभिन्नं शुभाशुभविभक्तमित्यत्र प्रकृतिशब्देनाष्टौ कर्मप्रकृतयोऽभिधीयन्ते, ज्ञानाऽऽवरणीयाऽऽदिभेदा इति / प्रकृतिरंशो भेद इति पर्यायाः। स्थितिः-तासामेवावस्थानं जघन्याऽऽदिभेदभिन्नम् / प्रदेशशब्देन जीवप्रदेशकर्मपुद्गलसंबन्धोऽभिधीयते, अनुभावशब्देन तु विपाकः / एते च प्रकृत्यादयः शुभाशुभभेदभिन्ना भवन्ति / ततश्चैतदुक्तं भवतिप्रकृत्यादिभेदभिन्नं शुभाशुभविभक्तंयोगानुभावजनितं मनोयोगाऽऽदिगुणप्रभवं, कर्मविपाकं विचिन्तयेदिति गाथाक्षरार्थः।। भावार्थः पुनर्वृद्धविवरणादवसेवः। तचेदम्- " इह पथतिभिन्नं शुभाशुभविभक्त कम्मविपागं विचिंतेज्जा / तत्थ पयतीओ त्ति कम्मणो भेदा, अंसा नाणावरणिज्जाइणो अट्ठा, तेहिं भिन्नं पि हतं च, सुभं पुन्नंसाताऽऽदियं, असुभ पावं,तेहिं विभिन्नं विभिन्नविपागं,जहा कम्मपगमीए तहा विसेसेण चिंतेजा विचिंतेजा। किञ्च ठितिभिन्नं च सुभासुभविभिन्न कम्मविपाकं विचिंतेज्जा / ठिति त्ति तासिं चेव अट्ठण्हं पगडीण जहन्नमज्झिमुक्कोसकालावत्था, जहा कम्मपगडीए। किं च पएसभिन्न शुभाशुभं० जाव कृत्वा पूर्वविधानं पदयोस्तावेव पूर्ववद्वर्यो वर्गधनौ कुर्यात् / तां तृतीयराशेः, ततः प्राग्वत् कृत्वा पूर्वविधानमिति 256 / अमीषां धने कृते राशिरयमागच्छति / अथवा चतुर्भिरष्टौ वारा गुणिते अस्य राशेः पूर्वपदस्य घनाऽऽदि कृत्या, तस्य वर्गाऽऽदि / ततः द्वितीयपदस्य इदमेव विपरीतं क्रियते।तत एतावेव वयेते। ततस्तृतीयपदस्य वर्गघनौ क्रियते / एवमनेन क्रमे-णायं राशिः 16777216 चिंतेजा। पदेसो त्तिजीवपदेसाणं कम्मपदेसेहिं सुहुमेहिं एकखेत्तावगाहिं पुट्ठोगाढअणंतअणुबादरउडेहिं भेदोहिं बद्धाणं वित्थरओय कम्मपगडीए भणियाणं कम्मविपाकं चिंतेज्जा / किं च-अणुभावभिन्नं सुभासुभविभत्त कम्मविवागं विचिं-तेजा। तत्थ अणुभावो त्ति, तासिं चेवऽट्ठह पगडीणं पुट्ठबद्धनिका-इयाणं उदयाओ अणुभावणं, तं च कम्मविपाकं जोगाणुभावजणियं विचिंतेजा। तत्थ जोगा मणक्यकाया, अणुभावो जीवगुण एव। स च मिथ्यादर्शनाविरतिप्रमादकषायाः, तिहिं अणुभावेण यजणिय-मुप्पाइयं जीवस्स कम्मंजं, तस्स विपाकं उदयं विचिंतेजा" इति। उक्तस्तृतीयो ध्यातव्यभेदः। साम्प्रतं चतुर्थ उच्यतेजिणदेसिआई लक्खण-संठाणासणविहाणमाणाई। उप्पायट्ठिइभंगा, पज्जाया जे अदव्वाणं / / 53 / / जिनाः प्रानिरूपितशब्दार्थास्तीर्थकराः : तैर्देशितानि कथितानि जिनदेशितानि / कानि ? अत आह-लक्षणसंस्थानाऽऽसनवि /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy