________________ झाण 1665 - अभिधानराजेन्द्रः भाग - 4 झाण माधान स्वास्थ्यं, भवति जायते / केषाम् ? इत्यत आह-मनोवाकाययोगानां प्राइनिरूपितस्वरूपाणामिति / आह-मनोयोगसमाधानमस्तु, वाक्काययोगसमाधानं त्वत्र क्वोपयुज्यते, न हि तन्मयं ध्यानं भवति? अत्रोच्यते तत्समाधानम्-तावन्मनोयोगोपकारकं ध्यानमपि च तदात्मकं भवत्येव। यथोक्तम्" एवंविधा गिरा मे, वत्तव्वा एरिसी न वत्तव्वा। इय वेयालिय वम-स्स भासओ वाइयं झाणं // 1 // " तथा" सुसमाहियकरपाय-स्स अकज्जे कारणम्मि जयणाए। किरियाकरणं जत, काइयझाणं भवे जइणो 111 / ' न चात्र समाधानमात्रकारिन्यमेव गृह्यते, किंतु भूतोपरोधरहितः, तत्र भूतानि पृथिव्यादीनि, उपरोधस्तत्संघट्टनाऽऽदिलक्षणः, तेन रहितः परित्यक्तो यः / एकग्रहणे तज्जातीयग्रहणात् अनृतादत्ताऽऽदानमैथुनपरिग्रहाऽऽद्युपरोधरहितश्च, स देशो, ध्यायतः-चिन्तयतः, उचित इति शेषः / अयं गाथार्थः / / 37 / / गतं देशद्वारम्। (10) अधुना कालाऽऽसनाऽऽलम्बनक्रमद्वारेषु क्रमप्राप्त कालद्वारमभिधित्सुराहकालो वि सो चिअ जहिं, जोगसमाहाणमुत्तमं लहइ। न उ दिवसनिसावेला-इनिअमणं झाइणो भणि॥ 38 // कलनं कालः, कलासमूहो वा, स चार्द्धतृतीयेषु द्वीपसमुद्रेषु चन्द्रसूर्यगतिक्रियोपलक्षितो दिवसाऽऽदिरवसेयः / अपिशब्दो देशानिय-मेन तुल्यत्वसंभावनार्थः / तथा चाह-कालोऽपि स एव, ध्यानोचित इति गम्यते / यत्र काले, योगसमाधानं मनोयोगाऽऽदिस्वास्थ्यम् , उत्तम प्रधानं, लभते प्राप्नोति, न तु पुनर्नव, तुशब्दस्य पुनःशब्दार्थत्वादेवकारार्थत्वाद्वा। किम् ? दिवसनिशावेलाऽऽदिनियमनं ध्यायिनो भणितमिति / दिवसनिशे प्रतीते / वेला सामान्यत एव तदेकदेशो मुहूर्ताऽऽदिः / आदिशब्दात्पूर्वाहापरालाऽऽदिसूचा / एतन्नियमनं दिवैवेत्यादिलक्षणं, ध्यानिनः सत्त्वस्य, भणितमुक्तं, तीर्थकरगणधरैनैवेति गाथार्थः / गतं कालद्वारम्॥३८॥ आसनविशेषद्वारं व्याचिख्यासयाऽऽहजचिअ देहावत्था, जिआ ण झाणोवरोहिणी होइ। झाइज्जा तयवत्थो, ठिओ निसन्नोऽनिसन्नो वा / / 36 || इह चैव काचित् , देहावस्था शरीरावस्था निषण्णताऽऽदिरूपा, किम् ? जितेत्यभ्यस्ता, उचिता वा, तथाऽनुष्ठीयमाना, न, ध्यानोपरोधिनी भवति-नाधिकृतधर्मध्यानपीडाकरी भवतीत्यर्थः / ध्यायेत, तदवस्थ इति-सैवावस्था यस्य स तदवस्थः, तमेव विशेषतः प्राऽऽहस्थितः कायोत्सर्गेण, ईषन्नताऽऽदिना निषण्ण उपविष्टो, वीरासनाऽ5दिनाऽनिषण्णः शयितो दण्डाऽऽयताऽऽदिना, वा विभाषायामिति गाथार्थः / / 36 / / आह-किं पुनरयं देशकालाऽसनानामनियम इति? अत्रोच्यतेसव्वासु वट्टमाणा, मुणओ जं देसकालचिट्ठासु। वरकेवलाइभावं, पत्ता बहुसो समियपावा।। 40 / / सर्वास्वित्यशेषासु, देशकालचेष्टास्विति योगः। चेष्टा देहावस्था, किम् ? वर्तमाना अवस्थिताः, के ? मुनयः प्राड्निरूपितशब्दार्थाः, यद्यस्मात्कारणात् : किम् ? घरः प्रधानश्वासौ केवलाऽऽदिभावश्च, तं, प्राप्ता | इति / आदिशब्दान्मनःपर्यायज्ञानाऽऽदिपरिग्रहः / किं सकृदेव प्राप्ताः? ना केवलवर्ज बहुशोऽनेकशः, किंविशिष्टाः? शान्तपापाः, तत्र पातयति नरकाऽऽदिष्विति पापम् , शान्तमुपशमं नीतं पापं यैस्ते तथाविधा इति गाथार्थः / / 40 // तो देसकालचिट्ठा-नियमो झाणस्स नत्थि समयम्मि। जोगाण समाहाणं, जह होइ तह पयइयव्वं / / 41 / / यस्मादिति पूर्वगाथायामुक्तं, तेन सहास्याभिसंबन्धः, तस्माद् , देशकालचेष्टानियमो, ध्यानस्य, नास्ति न विद्यते। क्व? समये आगमे, किं तु योगानां मनःप्रभृतीनां, समाधानं पूर्वोक्तं, यथा भवति तथा यतितव्यं यत्नः कार्य इत्यत्र नियम एवेति गाथा-र्थः / / 41 // गतमासनद्वारम्। ___ अधुना आलम्बनद्वारावयवार्थप्रतिपादनायाऽऽहआलंबणाऽऽइवायण-पुच्छणपरिअट्टणाणुचिंताओ। सामाइआइ एया-इसद्धमाऽऽवस्सयाइं च / / 42 // इह धर्मध्यानाऽऽरोहणार्थमालम्च्यन्त इत्यालम्बनानि, वाचनापृच्छना परावर्त्तनाऽनुचिन्ता इति / तत्र वाचनं वाचना, विनेयाय निर्जरायै सूत्राऽऽदिदानमित्यर्थः / शङ्किते सूत्राऽऽदौ संशयापनोदाय गुरुपृच्छनं प्रश्न इति / परिवर्तन तु पूर्वाधीतस्यैव सूत्राऽऽदेरविस्मरणनिर्जरानिमित्तमभ्यासकरणमिति। अनुचिन्तनमनुचिन्ता, मनसैवाविस्मरणनिमित्तं सूत्रानुस्मरणमित्यर्थः / वाचना च, प्रश्नश्चेत्यादि द्वन्द्वः / एतानि च श्रुतधर्मानुगतानि वर्तन्ते / तथा सामायिकाऽऽदीनि सद्धर्माऽऽवश्यकानि चेति। अमूनि तु चरणधर्मानुगतानि वर्तन्ते। सामायिकमादौ येषां तानि सामायिकाऽऽदीनि / सामायिकं प्रतीतम् , आदिशब्दान्मुखवरित्रकाप्रत्युप्रेक्षणाऽऽदिलक्षणसकलचक्रवालसामाचारीपरिग्रहः / यावत्पुनरपि सामायिकमिति। एतान्येव विधिवदासेव्यमानानि, सन्ति शोभनानि, सन्ति च तानि चारित्रधर्माऽऽवश्यकानि चेति विग्रहः / आवश्यकानि नियमतः करणीयानि।चः समुचये। इति गाथार्थः / / 42 // साम्प्रतममीषामेवाऽऽलम्बनत्वे निबन्धनमाहविसमम्मि समारोहइ,दढदव्वाऽऽलंबणो जहा पुरिसो। सुत्ताऽऽइकयाऽऽलंबो, तह झाणवरं समारुहइ॥ 43 / / विषमे निम्ने दुःसंचारे, समारोहति सम्यगपरिक्लेशेनोज़ याति। कः ? दृढं बलवत् , द्रव्यं रज्ज्वाद्यालम्बनं यस्य स तथाविधः / यथा पुरुषः पुमान्कश्चित्सूत्राऽऽदिकृताऽऽलम्बनः, वाचनाऽऽदिकृताऽऽलम्बन इत्यर्थः / तथा तेनैव प्रकारेण, ध्यानवरं धर्मध्यानमित्यर्थः। समारोहतीति गाथार्थः / गतमालम्बनद्वारम्। अधुना क्रमद्वारावसरः / तत्र लाघवार्थ क्रमं धर्मस्य शुक्लस्य च प्रतिपादयन्नाहझाणपडिवत्तिकम्मो, होइ मणोजोगनिग्गहाईओ। भवकाले केवलिणो, सेसस्स जहा समाहीए। 44 // ध्यानं प्राइनिरूपितशब्दार्थ, तस्य प्रतिपत्तिक्रम इति समासः। प्रतिपत्तिक्रमः प्रतिपत्तिपरिपाट्यभिधीयते। स च भवति मनोयोगनिग्रहाऽऽदिः / तत्र प्रथम मनोयोगनिग्रहः, ततो वाग्योगनिग्रहः, ततः काययोगनिग्रह इति / किमयं सामान्येन सर्वस्यैवेत्थंभूतः क्रमः? न, किं तु भवकाले केवलिनः / अत्र भवकालशब्देन मोक्षगमनप्रत्यासन्नः अन्तर्मुहूर्तप्रमाण एय शैलेश्यवस्थान्तर्गतः परिगृह्यते। केवलमस्यास्तीति केवली, तस्य शुक्लध्यान एवायं क्रमः प्रतिपत्तिक्रमः / शेषस्थान्यस्य धर्मध्यानप्रतिपत्तुः, योगका