________________ झाण 1664 - अभिधानराजेन्द्रः भाग - 4 झाण परिग्रहः / उक्तञ्च- " शङ्काकासाविचिकित्साऽन्यदृष्टिप्रशंसापरपाखण्डसंस्तवाः सम्यग्दृष्टरतीचाराः " इति। (एतेषां च स्वरूप | प्रत्याख्यानाध्ययने न्यक्षेण वक्ष्यामः) तत्र शङ्काऽऽदय एव सम्यक्त्वाऽऽख्यप्रथमगुणातिचारत्वाद्दोषाः शङ्काऽऽदिदोषाः, तैः रहितः त्यक्तः ; उक्तदोषरहितत्वादेव। किम् ? प्रथमस्थैर्याऽऽदिगुणगणोपेतः। तत्र प्रकर्षेण श्रमः प्रश्रमः खेदः।सचस्थपरसमयतत्त्वाधिगमरूपः, स्थैर्य तु जिनशासने निष्प्रकम्पता। आदिशब्दात् प्रभावनाऽऽदिपरिग्रहः / उक्त-"सपरसमएँ कोसल्लं, थिरिया जिण-सासणे पभावणया। आययणसेवभत्ती, दंसणदीवा गुणा पंच"॥ 1 // प्रश्रमस्थैर्याऽऽदय एव गुणाः, तेषां गण: समूहः, तेनोपेतो युक्तो यः स तथाविधः / अथवाप्रशमाऽऽदिना स्थैर्याऽऽदिना च गुणग-णेनोपेतः। तत्र प्रशमाऽऽदिगुणगणः प्रशमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्याभिव्यक्तिलक्षणः; स्थैर्याऽऽदिस्तु दर्शित एव / य इत्थम्भूतः, असौ भवत्यसंमूढमनाः, तत्त्वान्तरेऽभ्रान्तचित्त इत्यर्थः / दर्शनशुद्ध्योक्तलक्षणया हेतुभूतया, क्व? ध्याने इतिगाथार्थः / / 32 / / उक्ता दर्शनभावना। ___ साम्प्रतं चारित्रभावनास्वरूपं गुणदर्शनायेदमाहनवकम्माणायाणं, पोराणविणज्जरं सुभादाणं / चारित्तभावणाए, झायमयत्तेण य समेइ।। 33 // नवकर्मणामनादानमितिनवान्युपचीयमानानि प्रत्यप्राणि भ-ण्यन्ते, क्रियन्ते इति कर्माणिज्ञानाऽऽवरणीयाऽऽदीनि, तेषामनादानमग्रहणम् , चारित्रभावनया समेति गच्छतीति योगः। तथा पुराणविनिर्जरांचिरन्तनक्षपणमित्यर्थः / तथा शुभाऽऽदानमितिशुभं पुण्यं सम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्रात्मकं, त-स्याऽऽदानं ग्रहणम्। किम् ?-चारित्रभावनया हेतुभूतया ध्यानं, चशब्दान्नवकर्मानादानाऽऽदि वा ; अयत्नेनाक्लेशेन, समेति गच्छति, प्राप्नोतीत्यर्थः। तत्र चारित्रभावनयेति कोऽर्थः ? 'चर गतिभक्षणयोरित्यस्य''अर्तिलुधूसूखनिसहचर इत्रः // 3 / 2 / 184 / / इति (पाणि०) इत्रप्रत्ययान्तस्य चारित्रमिति भवति। चरन्त्यनिन्दितमनेनेति चरित्रंक्षयोपशमरूपं, तस्य भावश्चारित्रम् / एतदुक्तं भवति-इहा-न्यजन्मोपात्ताष्टविधकर्मसंचयापचयाय चरणभावः चारित्रमिति, सर्वसावद्ययोगविनिवृत्तिरूपा क्रियेत्यर्थः / तस्य भावनाऽभ्यासश्चारित्रभावनेति गाथार्थः / उक्ता चारित्रभावना // 33 // साम्प्रतं वैराग्यभावनास्वरूपं गुणदर्शनार्थमाहसुविइअजगस्सहाओ, निस्संगो निब्मओ निरासो अ। वेरग्गभाविअमणो, झाणम्मि सुनिचलो होइ / / 34 / / ___सुष्टुवतीव विदितो ज्ञातः जगतश्चराचरस्या यथोक्तम्" जगन्ति जङ्गमान्याहु-र्जगद् ज्ञेयं चराचरम्॥" स्वोभावः स्वभावः। " जन्म मरणाय नियत, बन्धुर्दुःखाय धनमनिवृतये। तन्नास्ति यन्न विपदे, तथापि लोको निरालोकः " // 1 // इत्यादिलक्षणो येन स तथाविधः / कदाचिदेवभूतोऽपि कर्मपरिणतिवशात् ससड्गो भवत्यत आह-निःसङ्गो विषयस्नेहसङ्गरहितः / एवम्भूतोऽपि कदाचित् समयो भवत्यत आह-निर्भयः-इहलोकाऽऽदिसप्तभयविप्रमुक्तः / कदाचिदेवम्भूतोऽपि विशिष्टपरिणत्यभावात् परलोकमधिकृत्य साऽऽशंसो भवत्यत आह-निराशश्च-इहपरलोकाऽऽ शंसाविप्रमुक्तः, चशब्दात्तथाविधक्रोधाऽऽदिरहितश्च / य एवंविधो वैराग्यभावितमना भवति स खल्वज्ञानाऽऽधुपद्रवरहितत्वाद् ध्याने सुनिश्चलो भवतीति गाथार्थः // 34 // उक्ता वैराग्यभावना, मूलद्वारगाथाद्वये ध्यानस्य भावना इति व्याख्यातम्। (6) अधुना देशद्वारव्याचिख्यासयाऽऽहनिचं चिअ जुवइपसू-नपुंसगकुसील परिण्वन्जिअंजइणो! ठाणं विअणं भणि, विसेसओझाणकालम्मि॥३५।। नित्यमेव सर्वकालमेव, न केवलं ध्यानकाल इति / किम् ? युवतिपशुनपुंसककुशीलपरिवर्जितं, यतेः स्थानं विजनं भणितमि-ति। तत्र युवतिशब्देन मनुष्यस्त्री, दैवी च परिगृह्यते। पशुशब्देनतुतिर्यक्रस्त्रीति। नपुंसकं प्रतीतं, कुत्सितं निन्दितं शीलं वृत्तं येषां ते कुशीलाः, ते च तथाविधा द्यूतकाराऽऽदयः। उक्तञ्च"जुइयरसोलमेंठा, वट्टा उद्भामगाइणो जे य। एते हुति कुसीला, वजेयव्या पयत्तेणं " // 1 // युवतिश्च पशुश्चेत्यादिद्वन्द्वः / युवत्यादिभिः, परिसमन्ताद्, वर्जित रहितमिति विग्रहः / यतेस्तपस्विनः साधोः, एकग्रहणे तज्जातीयग्रहणमिति साध्याश्च / किं ? स्थानमवकाशलक्षणम् / तदेव विशेष्यतेयुवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतं जनं विजनं, भणितमुक्तं, तीर्थकरैर्गणधरैश्वेदमेवभूतं नित्यमेव, अन्यत्र प्रवचनोक्तदोषसंभवाद् , विशेषतो ध्यानकाल इति। अपरिणतयोगाऽऽदिनाऽन्यत्र ध्यानस्याऽsराधयितुमशक्यत्वादिति गाथार्थः / / 35 // इत्थं तावदपरिणतयोगाऽऽदीनां स्थानमुक्तम् , अधुना परिणतयोगाऽऽदीनधिकृत्य विशेषमाहथिरकयजोगाणं पुण, मुणीण झाणे सुनिच्चलमणाणं / गामम्मि जणाइन्ने, सुन्नेऽरने व न विसेसो // 36 // तत्र स्थिराः संहननधृतिभ्यां बलवन्त उच्यन्ते, कृता निर्वतिताः, अभ्यस्ता इति यावत् / के ?-युज्यन्त इति योगाः-ज्ञानाऽऽदिभावनाऽऽदिव्यापाराः, सत्त्वसूत्रतपाप्रभृतयो वायैस्ते कृतयोगाः, स्थिराव ते कृतयोगाश्चेति विग्रहः / तेषाम् / अत्र च स्थिरकृतयोगयोश्चतुर्भङ्गी भवति / तद्यथा-" थिरेणानेगे णो कयजोगे " इत्यादि। स्थिरा वा पौनःपुन्यकरणेन परिचिताः कृता योगा यैस्ते तथा-विधाः, तेषाम् / पुनःशब्दो विशेषणार्थः / किं विशिनष्टि?-तृतीयभगवता, न शेषाणां, स्वभ्यस्तयोगानां वा / मुनीनामिति-मन्यन्ते जीवाऽऽदीन् पदार्थानिति मुनयोविपश्चितः साधवः, तेषाम् , तथा ध्याने अधिकृते एव धर्मध्याने, सुष्टयतिशयेन निश्चलं निष्प्रकम्पं मनो येषां ते तथाविधाः, तेषाम्। एवंविधानां स्थानं प्रतिग्रामेजनाऽऽकीर्णे, शून्येऽरण्ये वा, न विशेष इति / तत्र ग्रसति बुद्ध्यादीन गुणान् इति ग्रामः, गम्यो वा कराऽऽदीनामिति ग्रामः, सन्निवेसविशेषः / इह चैकग्रहणेन तज्जातीयग्रहणान्नगरखेटकर्वटाऽऽदिपरिग्रह इति। जनाऽऽकीर्णे जनाऽऽकुले ग्रामे एवोद्यानाऽऽदौ, तथा शून्यं तस्मिन्नेव, अरण्ये वा कान्तारे येति, वा विकल्पेन विशेषान्न भेदः, सर्वत्र तुल्यभावत्वात् परिणतत्वात्तेषामिति गाथार्थः / / 36 // तो जत्थ समाहाणं, होइ मणोवयणकायजोगाणं / भूओवरोहरहिओ, सो देसो झायमाणस्स // 37 // यत एतदुक्तमतस्तस्मात् कारणाद् , यत्र ग्रामाऽऽदौ स्थाने, स