________________ झाण 1663 - अभिधानराजेन्द्रः भाग - 4 झाण (4) अथ ध्यानस्यैव भेदानाहकायाऽऽदितिहिकिकं, तिव्वं मउयं च मज्झं च / जह सीहस्स गतीओ, मंदा य पुता दुया चेव / / पुनर्दृढाध्यवसायाऽऽत्मकं चित्तं त्रिधाकायिक, वाचिक, मानसिकं च। कायिकं नामयत्कायव्यापारेणोपयुक्तो भङ्गकचारणिकां करोति, कूर्मवद्वा संलीनाङ्गोपाङ्गस्तिष्ठति। वाचिकं तुमयेदृशी निरवद्या भाषा भाषितव्या, नेदृशी सावद्येति विमर्शपुरस्सरं यद्भाषते / यद्वाविकथाऽऽदिव्युदासेन श्रुतपरावर्तनाऽऽदिकमुपयुक्तः करोति तद्वाचिकम्। मानसं तु-एकस्मिन् वस्तुनि चित्तस्यैकाग्रता / पुनरेकैकं त्रिविधं-तीव्र, मृदुकं च, मध्यं च / तत्र तीव्रमुत्कटम् , मृदुकं च मन्दम् , मध्यं च-नातितीव्र नातिमृदुकमित्यर्थः / यथा सिंहस्य गतयस्तिस्रो भवन्ति। तद्यथा-मन्दा च, प्लुता, द्रुता च। तत्र मन्दाविलम्बिता, प्लुतानातिमन्दा नाति त्वरिता, दुताअतिशीघ्रवेगा। बृ० 1 उ० / दर्श०।। इत्थं तावत् सप्रसङ्ग ध्यानस्य सामान्येन लक्षणमुक्तम् ; अधुना विशेषलक्षणाभिधित्सया ध्यानोद्देशं विशिष्टफलहेतु भावंच सङ्केपतः प्रदर्शयन्नाह (5) प्रशस्ताप्रशस्तानि ध्यानानिअझै 1 रुदं 2 धम्मं 3, सुक्कं 4 झाणाइँ तत्थ अंताई। निव्वाणसाहणाई, भवकारणमट्टरुदाई / / 5 / / आर्त्त, रौद्रं, धर्म, शुक्लम् / तत्र ऋतं दुःखं, तन्निमित्तो दृढोऽध्यवसायः, ऋते भवमार्त्त, क्लिष्टमित्यर्थः / हिंसाऽऽद्यतिक्रौर्यानुगतं रौद्रम् / चरणश्रुतधर्मानुतं धर्मम् / शोधयत्यष्टप्रकारं कर्ममलं, शुचं वा क्लामयतीति शुक्लम्। अमूनिध्यानानि वर्तन्ते। अधुना फलहेतुत्वमपदर्शयति-तत्र ध्यानचतुष्टये, अन्ते चरमे-सूत्रक्रमप्रामाण्याद्धर्मशुक्ले इत्यर्थः / किम् ? निर्वाणसाधने / इह नितिनिर्वाण, सामान्येन सुखमभिधीयते। तस्य साधने, कारणे इत्यर्थः / ततश्च-'' अट्टेण तिरिक्खगति, रोद्दज्झाणेण गम्मती नरयं / धम्मेण देवलोय, सिद्धिगतिं सुक्कझाणेणं॥१॥" इति युदक्तं, तदपि न विरुध्यते। देवगतिसिद्धिगत्योः सामान्येन सुखसिद्धेरिति। अथापि निर्वाणं मोक्षः, तथाऽपि पारम्पर्येण धर्मध्यानस्यापि तत्साधनत्वादविरोध इति / तथा भवकारणमातरौद्रे इति। तत्र भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः-संसार एव, तथा-ऽप्यत्र व्याख्यानतो विशेष प्रतिपत्तेस्तिर्यनारकभवग्रह इति गाथार्थः / / 5 / / आव०४ अ०। सम्म०। (6) अथ शुभाशुभध्यानज्ञापनार्थमिदमाहवण्णरसगंधफासा, इट्ठाणिट्ठा विभासिया सुत्ते। अहिकिच्च दव्वलेसा, ताहि उसाहिज्जई भावो।। सूत्रे प्रज्ञापनाऽऽदौ, कृष्णाऽऽदीनां लेश्यानां यद्वर्णगन्धरसस्पर्शाः, इष्टा अनिष्टाश्च, विभाषिता विविधमनेकैरुपमानैर्वर्णिताः / (लेश्यावर्णनं ' लेस्सा ' शब्दे वक्ष्यते) तदेतत् सर्वमपि द्रव्यलेश्या अधिकृत्य प्रतिपत्तव्यम् / ताभिश्च द्रव्यलेश्याभिः शुभाशुभाध्यवसायरूपः साध्यते भावः। बृ० 1 उ०। आव०। दर्श०। (आर्तध्यानवक्तव्यता 'अदृज्झाण' शब्दे प्रथमभागे 235 पृष्ठे निरूपिता रौद्रध्यानवक्तव्यता तु 'रोद्दज्झाण' शब्दे वक्ष्यते) धर्मशुक्लध्यानयोस्तु परमार्थतो ध्यानत्वादिहैव व्याख्या। (7) साम्प्रतं धर्मध्यानावसरः, तत्र तदभिधित्सवै वाऽऽदाविदं द्वारगाथाद्वयमाहझाणस्स भावणाओ, देसं कालं तहाऽऽसणविसेसं / आलंबण कम्मं झा-इअव्वयं जे अ झायारो // 28!! तत्तोऽणुप्पेहाओ, लेस्सा लिंगं फलं च नाऊण। धम्मं झाइज मुणी, तक्कयजोगो तओ सुकं / / 26 / / ध्यानस्य प्राड्निरूपितशब्दार्थस्य, किम् ? भावनाः-ज्ञानाऽऽद्याः, ज्ञात्वेति योगः / किं च-देश तदुचितं, कालं, तथाऽऽसनविशेष तदुचितमिति, आलम्बनं वाचनाऽऽदि, क्रमं मनोनिरोधाऽऽदि, तथा ध्यातव्यं ध्येयमाज्ञाऽऽदि, तथा ये च ध्यातारः-अप्रमादाऽऽदियुक्ताः, ततोऽनुप्रेक्षा:-ध्यानोपरमकालभाविन्योऽनित्यत्वाऽऽद्यालोचनारूपाः, तथा लेश्याः-श्रद्धा एव, तथा लिङ्ग-श्रद्धानाऽऽदि, तथा फलंसुरलोकाऽऽदि / चशब्दः स्वगतानेकभेदप्रदर्शनपरः / एतद् ज्ञात्वा, किम् ? धर्ममितिधर्मध्यानं, ध्यायेन्मुनिरिति / तत्कृतयोगः-धर्मध्यानकृताभ्यासः,ततः पश्चात्, शुक्लध्यानमितिगाथाद्वयसमासार्थः। व्यासार्थ तु प्रतिद्वारं ग्रन्थकारः स्वयमेव वक्ष्यति। 28 / 26 / तत्राऽऽद्यद्वारावयवार्थप्रतिपादनायाऽऽहपुव्वकयट्मासो भा-वणाहिँ झाणस्स जुग्गयमुवेइ / ताओ अनाणदंसण-चरित्तवेरग्गनिअयाओ।। 30 // "वेरग्गजणिआओ" इति पाठान्तरम्। पूर्व ध्यानात्प्रथम, कृतो निर्वर्तितः, अभ्यास आसेवनालक्षणो येन स तथाविधः, काभिः पूर्वकृताभ्यासः ?-भावनाभिः करणभूताभिः, भावनासु वा भावनाविषये पश्चाद् , ध्यानस्याधिकृतस्य, योग्यताम्अनुरूपताम् , उपैति यातीत्यर्थः / ताश्च भावना ज्ञानदर्शनचारित्रवैराग्यनियता वर्तन्ते, नियता इति परिच्छिन्नाः। पाठान्तरे वा जनिता इति गाथार्थः // 30 // साम्प्रतं ज्ञानभावनास्वरूपं गुणदर्शनायेदमाहणाणे निचन्भासो, कुणइ मणोधारणं विसुद्धिं च / नाणगुणमुणिअसारो, तो झाइ सुनिचलमईओ // 31 // ज्ञाने श्रुतज्ञाने, नित्यं सदा, अभ्यास आसेवनालक्षणः, करोति निर्वर्त्तयति, किम् ? मनसोऽन्तःकरणस्य, चेतस इत्यर्थः / धारणमशुभव्यापारनिरोधेनावस्थानमिति भावना। तथा विशुद्धिं च, तत्र विशोधनं विशुद्धिः, सूत्रार्थयोरिति गम्यते / ताम, चशब्दाद् भवनिर्वेद च। एवं ज्ञानगुणज्ञातसार इति-ज्ञानेन गुणाना जीवा-जीवाऽऽश्रिताना, 'गुणपर्यायं च द्रव्यम्' इति वचनात् , पर्यायाणां च तदविनाभाविना (मुणितो) ज्ञातः सारः परमार्थो येन स तथोच्यते, ज्ञानगुणेन वा ज्ञानमाहात्म्येनेति भावः / ज्ञातः सारो येन, विश्वस्येति गम्यते / स तथाविधः। ततश्च पश्चाद्, ध्यायति चिन्तयति; किंविशिष्टः सन् ? निश्चला निष्प्रकम्पा, सम्यग्ज्ञानतोऽन्यथाप्रवृत्तिकम्परहितेति भावः / मतिर्बुद्धिर्यस्य स तथाविध इति गाथार्थः // 31 / / उक्ता ज्ञानभावना। साम्प्रतं दर्शनभावनास्वरूपं गुणदर्शनार्थमिदमाहसंकाइदोसरहिओ, पसमत्थिज्जाइगुणगणोवेओ। होइ असंमूढमणो, सणसुद्धीइ झाणम्मि।। 32 // (संकादिदोसरहित त्ति) शङ्कनं शङ्का, आदिशब्दात्कासाऽऽदि