________________ झाण 1662 - अभिधानराजेन्द्रः भाग - 4 झाण क्ल, शोकं ग्लपयतीत्यर्थः / ध्यै -ध्यायते चिन्त्यतेऽनेन तत्त्व-मिति ध्यानम् , एकाग्रचित्तनिरोध इत्यर्थः / शुक्लं च तद् ध्यानं च, तदेव कर्मेन्धनदहनादग्निः शुक्लध्यानाग्निः, तथा मिथ्यादर्शनाविरतिप्रमादकषाययोगैः क्रियत इति कर्मज्ञानाऽऽवरणीयाऽऽदि, तदेवातितीवदुःखानलनिबन्धतत्वादिन्धनं कर्मेन्धनं, ततश्च शुक्लध्यानाग्निना दग्धं स्वस्वभावापनयनेन भस्मीकृतं कर्मेन्धनं येन स तथाविधः, तं प्रणम्य, प्रकर्षण मनोवाकाययोगैर्नत्वेत्यर्थः / किम् ? समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानाध्यानाध्ययनं प्रवक्ष्यामीति योगः / तत्राधीयत इत्यध्ययनं, कर्मणि ल्युट्, पठ्यत इत्यर्थः / ध्यानप्रतिपादकमध्ययनं ध्यानाध्ययनम्। तद्याथात्म्यमङ्गीकृत्य प्रकर्षण वक्ष्येऽभिधास्ये, किंविशिष्ट वीरं प्रणम्य ? इत्यत आह-योगेश्वरं, योगीश्वरं वा / तत्र युज्यन्त इति योगा मनोवाक्कायव्यापारलक्षणाः, तैरीश्वरः प्रधानः, तम्। तथाहि-अनुत्तरा एव भगवतो मनोवानायव्यापारा इति। यथोक्तम्" दव्वमणोजोएणं, मणनाणीण अणुत्तराणं च। संसयवोच्छित्ति के-वलेण नाऊण सति कुणइ॥१॥ रिभियपयवखरसरला मिच्छितरतिरिच्छसगिरपरिणामा। मणणेव्वाणी वाणी, जोयणनीहारिणी चेव // 2 // एक्का य अणेगेसिं, संसयवोच्छेयणम्मि अपडिहया। नय निविज्जइ सोआ, तिप्पइ सव्वाछएणं पि॥३॥ सव्वसुरेहिंतो वि हु, अहिगो कंलो य कायजोगो से। तह वि य पसंतरूवे, कुणइ सया पाणिसंघाए"। 4 / / इत्यादि। युज्यते वाऽनेन केवलज्ञानाऽऽदिनाऽऽत्मेति योगो धर्मशुक्लध्यानलक्षणः। स येषां विद्यते इति योगिनः साधवः, तैरीश्वरः, तदुपदेशेनतेषा प्रवृत्तेः, तत्संबन्धादिति / तेषां वा ईश्वरो योगीश्वरः प्रभुः स्वामीत्यनर्थान्तरम् / तं योगीश्वरम् / अथवा योगिस्मार्ययोगिनां चिन्त्य, ध्येयमित्यर्थः / पुनरपिस एव विशेष्यते-शरण्य-तत्रशरणे साधुः शरण्यः, तं रागाऽऽदिपरिभूताऽऽश्रितसत्त्ववत्सल, रक्षकमित्यर्थः, ध्यानाध्ययन प्रवक्ष्यामीत्येतद्व्याख्यातमेव। अत्राऽऽह-यः शुक्लध्यानाग्निदग्धकर्मेन्धनः स योगीश्वर एव, यश्व योगीश्वरः स शरण्य एवेति गतार्थे विशेषणे / न। अभिप्रायापरिज्ञानात्। इह शुक्लध्यानाग्निदग्धकर्मेन्धनः सामान्यकेवल्यपि भवति, न त्वसौ योगेश्वरः, वाकायातिशयाभावात् / स एव च तत्त्वतः शरण्य इति ज्ञापनार्थमेवादुष्टमेतदपि / तथा चोभयपदव्यभिचारे एकपदव्यभिचारे अज्ञातज्ञापनार्थं च शास्त्रे विशेषणाभिधानमनुज्ञातमेव पूर्वमुनिभिरित्यलं विस्तरेणेति गाथार्थः // 1 // (3) साम्प्रतं ध्यानाध्यानलक्षणं प्रतिपादयन्नाहजं थिरमज्झवसाए, तं झाणं जं चलं तयं चित्तं / तं हुज्न भावणा वा, अणुपेहा या अहव चिंता।।२।। यदित्युद्देशः, स्थिरं निश्चलम् , अध्यवसान, मन एकाग्रताऽऽलम्बनमित्यर्थः। तदिति निर्देशे, ध्यानप्राङ्निरूपितशब्दार्थम्। ततश्चैतदुक्तं भवतियत्स्थिरमध्यवसानं तद्ध्यानमभिधीयते, यच्चलमिति यत्पुनरनवस्थितं तचित्तम् / तचौधतस्त्रिधा भवतीति दर्शयति। तद्भवेद्भावना वेतितचित्तं भवेत् / का? भावनाभाव्यत इति भावना, ध्यानाभ्यास क्रियेत्यर्थः / वा विभाषायां, अनुप्रेक्षा वेति-अनुपश्चाद्भाये, प्रेक्षणं प्रेक्षा, सा च स्मृतिः, ध्यानादृष्टस्य चित्तचेष्टेत्यर्थः / वा पूर्ववत्। अथवा (चिते त्ति) अथवाशब्दः प्रकारान्तरप्रदर्शनार्थः / चिन्तेतिवा खलूक्तप्रकारद्वयरहिता मनश्चेष्टा, सा चिन्तेति गाथार्थः / / 2 / / इत्थं ध्यानाऽध्यानलक्षणमोघतोऽभिधायाधुनाऽध्यानमेव का लस्वामिभ्यां निरूपयन्नाहअंतोमुत्तमित्तं, चित्तावत्थाणमेगवत्थुम्मि। छउमत्थाणं झाणं, जोगनिरोहो जिणाणं तु // 3 // इह मुहूर्तः सप्तसप्ततिलवप्रमाणः कालविशेषो भण्यते / (आव०) अन्तर्मध्यकरणे, ततश्च अन्तर्मुहूर्त्तमात्र, कालमिति गम्यते / मात्रशब्दस्तदधिककालव्यवच्छेदार्थः। ततश्च भिन्नमुहूर्तमेव कालम् , किम् ? चित्तावस्थानमितिचित्तस्य मनसः, अवस्थानं चित्तावस्थानम् , अवस्थितिरवस्थानं, निष्प्रकम्पतया वृत्तिरित्यर्थः। क्व? एकवस्तुनिएकमद्वितीय, वसन्त्यस्मिन् गुणपर्याया इति वस्तुचेतनाऽऽदि : एकं च तद्वस्तु च एकवस्तु, तस्मिन् / छद्मस्थानां ध्यानमितितत्र च्छादयतीति छद्म-पिधानं, तच ज्ञानाऽऽदीनां गुणानामाचारकत्वाद्ज्ञानाऽऽवरणाऽऽदिलक्षणं घातिकर्म, छद्मनि स्थिताः छदास्थाः, अकेवलिन इत्यर्थः / तेषां छद्मस्थानां, ध्यानं प्राग्वत्। ततश्चायं समुदायार्थः-अन्तर्मुहूर्त्तकालं यचित्तावस्थानम् एकस्मिन् वस्तुनि तत् छद्मस्थानां ध्यानमिति / योगनिरोधो जिनानां त्विति। तत्र योगास्तत्त्वत औदारिकाऽऽदिशरीरसंयोगसमुत्था आत्मपरिणामविशेषव्यापारा एव / यथोक्तम्-" औदारिकाऽऽदिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषः काययोगः, तथौ-दारिकवैक्रियाऽऽहारकशरीरव्यापाराऽऽहृतवाग्द्रव्यसमूहसाचिव्याजीवव्यापारो वाग्योगः ; तथौदारिकवैक्रियाऽऽहारकशरीरव्यापाराऽऽहतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोग इति / अमीषा निरोधो योगनिरोधः, निरोधनं निरोधः, प्रलयकरणमित्यर्थः / केषां ? जिनानां केवलिना, तुशब्द एवकारार्थः / स चावधारणे, योगनिरोध एव, नतु चित्तावस्थानं, चित्तस्यैवाभावात्। अथवा योगनिरोधो जिनानामेय ध्यानं, नान्येषाम् , अशक्यत्वादित्यलं विस्तरेण / यथा चायं योगनिरोधो जिनानां ध्यानं यावन्तंच कालं तद्भवत्येतदुपरिष्टाद्वक्ष्याम इति गाथार्थः // 3 // साम्प्रतं छद्मस्थानामन्तर्मुहूर्तात्परतो यद्भवति, तदुपदर्शयन्नाहअंतोमुहुत्तपरओ, चिंता झाणंतरं व हुजाहि। सुचिरं वि हुज्ज बहुव-त्थुसंकमे झाणसंताणो॥४|| अन्तर्मुहूर्तात्परत इति-भिन्नमुहूर्तादूर्द्ध, चिन्ता प्रामुक्तस्वरूपा, तथा ध्यानान्तरं वा भवेत्। तत्रेहनध्यानादन्यद्ध्यानं ध्यानान्तरं परिगृह्यते, किं तर्हि ? भावनाऽनुप्रेक्षाऽऽत्मकं चेत इति / इदं च ध्यानान्तरं तदुत्तरकालभाविनि ध्याने सति भवति, तत्राप्ययमेव न्याय इति कृत्वा ध्यानसन्तानप्राप्तिर्यतः, अतस्तमेव कालमानं वस्तुसंक्रमद्वारेण निरूपयन्नाह-सुचिरमपि प्रभूतमपि, कालमिति गम्यते / भवेत् . बहुवस्तुसंक्रमे सति, ध्यानसन्तानो ध्यानप्रवाह इति / तत्र बहूनि च तानि वस्तूनि बहुवस्तूनि, आत्मगतपरगतानि गृह्यन्ते। तत्राऽऽत्मगतानि मनःप्रभृतीनि, परगतानि द्रव्याऽऽदीनीति,तेषु संक्रमः संचरणमिति गाथार्थः।। 4 ||