SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ जोण 1652 - अभिधानराजेन्द्रः भाग - 4 जोणि जोण-पुं०(योन) अनार्थप्राये देशभेदे, ज्ञा०।। जोणयपल्हवियइसिणियथोरुणियलसियलउसियदावडिसिंहलिआरबिपुलिंदिपक्कणिवल्हिमुरुडिसवरिपारसीहिं।। योनिकाभिः, पलविकाभिः, इसिनिकाभिः, थोरुनिकाभिः, लसिकाभिः, लकुसिकाभिः, द्राविडीभिः, सिंहलीभिः, आरबीभिः, पुलिन्दीभिः, पक्वणीभिः, बहिकाभिः, मुरुण्डीभिः, शबरीभिः, पारसीभिः, नानादेशीभिरनार्यप्रायदेशोत्पन्नाभिरित्यर्थः / ज्ञा० 1 श्रु० १अ०। जोणि-पुं०स्त्री०(योनि) उत्पत्तिस्थाने, उत्त० 3 अ० / सूत्र० / मण्यादीनामुत्पत्तिस्थाने आकरे, वाच० / कारणे, पञ्चा० 4 विव० / उत्पत्तिहेतौ, प्रश्न० 1 आश्र० द्वार / उपाये, स्था० 3 ठा०३ उ०। (अर्थयोनयः ' अत्थजोणि 'शब्दे प्रथमभागे 506 पृष्ठे भाविताः) युः मिश्रणे इति वचनाद् युवन्ति तैजसकार्मणशरीरवन्तः सन्त औदारिकाऽऽदिशरीरयोग्यस्कन्धसमुदायेन मिश्रीभवन्ति जीवा यस्या सा योनिः / भ० 10 श०२ उ० / औणाऽऽदिको निप्रत्य- यः / जीवानामुत्पत्तिस्थानविशेषे, स्था०७ ठा० / प्रव० / आचा०। प्रज्ञा०॥ नं०। स०। प्रश्न०। असुमतामुत्यत्तिस्थानं योनिर्भणनी-येति। सूत्र०१ श्रु०१२ अायोषिदवाच्यदेशे, अनु०। सा चस्म-रकूपिका। तल्लक्षणम्इत्थीऍ नाभिहिट्ठा, सिरादुगं पुप्पनालियागारं / तस्स य हिट्ठा जोणी, अहोमुहा संठिया कोसा / / 6 / / स्त्रिया नार्याः, नाभेरधोऽधोभागे, पुष्पनालिकाऽऽकार सुमनोवृन्तसदृशं, शिराद्विकं धमनियुग्मं वर्तते, च पुनः, तस्य शिराद्विकस्याओ योनिः स्मरकूपिका संस्थिताऽस्ति / किंभूता ? अधोमुखाः / पुनः किंभूता ?-(कोस त्ति) कोशा खड्गपिधानकाऽऽकारेत्यर्थः / / 6 // तं०। योनिसंख्या यथाचोरासीइजोणिप्पमुहसयसहस्सा पण्णत्ता ! चतुरशीतियाँनयो जीवोत्पत्तिस्थानानि० त एव प्रमुखानि द्वाराणि योनिप्रमुखानि, तेषां शतसहस्राणि लक्षाणि योनिप्रमुखशतसहस्राणि प्रज्ञप्तानि / स० 84 सम०। पुढविदग अगणि मारुअ, इक्किक्के सत्तजोणिलक्खाओ। वण पत्तेअ अणंते, दस चउदस जोणिलक्खाओ ||652 // विगलिंदिएसु दो दो, चउरो चउरो अनारयसुरेसु / तिरिएसु हुंति चउरो, चउदसलक्खाउ मणुएसुं॥९८३॥ 'य' मिश्रणे, इत्यस्य धातोः, युवन्ति भवान्तरसंक्रमणकाले तैजसकार्मणशरीरवन्तः सन्तो जीवा औदारिकाऽऽदिशरीरप्रायोग्यपुद्गलस्कन्धैर्मिश्रीभवन्त्यस्यामित्यौणादिके 'नि 'प्रत्यये योनिः ; जीवानामुत्पत्तिस्थानमित्यर्थः। तत्र पृथिव्युदकाग्निमरूता संबन्धिन्येकैकस्मिन् समूहे सप्त सप्त योनिलक्षा भवन्ति। तद्यथा-सप्त पृथिवीनिकाये, सप्तोदकनिकाये, सप्ताग्निनिकाये, सप्त वायु-निकाये। वनस्पतिनिकायो द्विविधः / तद्यथा-प्रत्येकोऽनन्तकायश्च / तत्र प्रत्येकवनस्पतिनिकाये दश योनिलक्षाः, अनन्तवनस्पतिनिकाये चतुर्दश / विकलेन्द्रियेषु द्वीन्द्रियाऽऽदिषुद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रयरूपेषु प्रत्येकं द्वेद्वेयोनिलक्षाः। | तद्यथा-वे योनिलक्षेद्वीन्द्रियेषु, द्वे योनिलक्षे त्रीन्द्रियेषु, द्वे चतुरिन्द्रयेषु। तथा चतस्रो योनिलक्षा नारकाणां, चतस्रो देवाना, तथा तिर्यक्षु पञ्चेन्द्रियेषु चतस्रो योनिलक्षाः / तथा चतुर्दश योनिलक्षा मनुष्येषु / सर्वसंख्यायाश्च मीलने चतुरशीतियोनिलक्षा भवन्ति इति।नच वक्तव्यम्, अनन्तानां जीवानामुत्पत्तिस्थानान्यप्यनन्तानि प्राप्नुवन्ति, यतो जीवानां सामान्याऽऽधारभूतो लोकोऽप्यसंख्येयप्रदेशात्मक एव, विशेषाऽधाररूपाण्यपि नरकनिष्कुटेष्वेव च, येन प्रत्येक साधारणजन्तुशरीराण्यसंख्येयान्येव, ततो जीवानामानन्त्येऽपि कथमुत्पत्तिस्थानानन्त्यम् / भवतु तहसंख्येयानीति चेत् ? नैवम् / यतो बहून्यपि तानि केवलिदृष्टन केनचिद्वर्णाऽऽदिना धर्मेण सदृशान्येकैव योनिरिष्यते, ततोऽनन्तानामपि जन्तूनां केवलिविवक्षितवर्णाऽऽदिसादृश्यतः परस्परान्तर्भावचिन्तया चतुरशीतिलक्षसंख्या एव योनयो भवन्ति, न हीनाधिकाः // 682 / 683 // एतदेवाऽऽहसमवण्णाइसमेआ, बहवो विहु जोणिलक्खभेआओ। सामन्ना घेप्पंति हु, एक्कगजोणीऍ गहणेणं / / 684 // समैः सदृशैः, वर्णाऽऽदिभिर्वर्णगन्धरसस्पर्शः, समेता युक्ताः, समानवर्णगन्धरसस्पर्शा इत्यर्थः / बहवोऽपि प्रभूता अपि, योनिभेदलक्षाः, हुनिश्चितम् , इह एका योनिर्जातिग्रहणेन गृह्यते / कुतः ? सामान्याद् . व्यक्तिभेदतः प्राभूत्येऽपि समानवर्णगन्धरसस्पर्शसद्भावेन सादृश्यादिति / ननु योनिकुलयोः कः प्रतिविशेषः ? उच्यते-योनिः जीवानामुत्पत्तिस्थानं, यथा-वृश्चिकाऽऽदेर्गोमयाऽऽदि / कुलानि तु-योनिप्रभवाणि / तथाहि-एकस्यामेव योनावनेकानि कुलानि भवन्ति, यथा छगणयोनौ कृमिकुलं, कीटकुलं ; वृश्चिककुलमित्यादि। यदि वा तस्यैव वृश्चिकाऽऽदेोमयाऽऽद्येकयोनित्वेनोत्पन्नस्यापि कपिलरक्ताऽऽदिवर्णभेदादनेकविधानि कुलानीति। प्रव०१५१ द्वार। सम०। आचा०। योनिभेदाःतिविहा तिविहा जोणी, अंडा पोया जराउया चेव। वेइंदिय तेइंदिय, चउरो पंचिंदिया चेव / / 154 // "तिविहा'' इत्यादि / अत्र हि शीतोष्णमिश्रभेदात्तया सचित्ताचित्तमिश्रभेदात्तथा संवृतविवृततदुभयभेदात्तथा स्त्रीपुंनपुसकभेदाच्च इत्यादीनि बहूनि योनीनां त्रिकाणि संभवन्ति / तेषां सर्वेषां संग्रहार्थ त्रिविधा त्रिविधेति वीप्सानिर्देशः / तत्र नारकाणामाद्यासु तिसृषु भूमिषु शीतैव योनिः, चतुर्णामुपरितननरकेषु शीता, अधस्तननरकेषूष्णा, पञ्चमीषष्ठीसप्तमीषूष्णव, नेतरे, गर्भव्युत्क्रान्तिकतिर्यमनुष्याणामशेषदेवानां च शीतोष्णा योनिर्नेतरे, द्वित्रिचतुःपश्शेन्द्रियसंमूर्छनजतिर्यङ्गनुष्याणां त्रिविधाऽपि योनिः-शीता, उष्णा, शीतोष्णा चेति / तथा नारकदेवानामचित्ता, नेतरे, द्वीन्द्रियाऽऽदिसंमूर्छनजपञ्चेन्द्रियतिर्यअनुष्याणां त्रिविधाऽपि योनिः सचित्ताचित्तमिश्रयोनिर्नेतरे। तथा देवनारकाणां संवृतायोनिर्नेतरे, द्वित्रिचतुरिन्द्रियसंमूर्छनजपञ्चेन्द्रियतिर्यअनुष्याणां विवृता योनिर्नेतरे, गर्भव्युत्क्रान्तिकतिर्यजनुष्याणां संवृतविवृता योनिर्नेतरे, तथा नारकानपुंसकजपञ्चेन्द्रियतियजनुष्याणां विवृतायोनिर्नेतरे, गर्भयोनय एव। तिर्यश्चस्त्रिविधाःस्त्रीपुंनपुंसक्योनयोऽपि मनुष्या अप्येवं त्रैविध्यभाजः। देवाः स्त्रीपुंयोनय एव / तथा परं मनुष्ययोनेस्वैविध्यम् / तद्यथा-कूर्मोन्नता, तस्यां चाहनचक्रवादिसत्पुरुषाणामुत्पत्तिः / तथा संखाऽऽवर्ता, सा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy