________________ (25) घण्टापथः। गब्भाओ निप्पडतस्स, जोणिजंतनिपीलणे। कोटीगुणं तयं दुक्खं, कोडकोडीगुणं पि वा / / 2 / / जायमाणाण जं दुक्खं, मरमाणाण जंतुणो। तेण दुक्खविवागेण, जाइंन सरति अप्पणो॥३॥" तथाचदुःखवर्णकः "कालं गति दुक्खेहि, मणुया पुन्नेहि उज्झिया। दुक्खं मणुयजाईणं, गोयम ! जं तं नियोधत // 1 // जमणुसमयमणुभवंताण, सयहा उब्वेइयाण वि। निविण्णाणं पिदुक्खेहिं, वेरगनतहा भवेशा" अच्छिनिमीलणमित्तं, नऽत्थि सुहं दुक्खमेव अणुबद्धं / नरए नेरइयाणं, अहोनिसं पचमाणाणं ||1|| जंनिरए नेरइया, दुक्खं पार्वति गोयमा! तिक्खं / तंपुण निगोयमज्झे, अणंतगुणियं मुणेयव्वं / / 1 / / " इत्यादि सर्व 'दुक्ख' शब्दे विवृतम्।। जिनवचनाऽश्रद्दधानस्य जमालेरिव 'दोकिरिय' शब्दे आर्यगङ्गस्य चरितम् / तथाहि-उल्लुकातीरं नाम नगरम्, तत्र च महागिरिशिष्यो धनगुप्तो नाम, तस्यापि शिष्य आर्यगङ्गो नामाऽऽचार्यः। अयं च नद्याः पूर्वतटे, तदाचार्यास्त्वपरतटे, ततोऽन्यदाशरत्समये सूरिवन्दनार्थं गच्छन् गङ्गो नदीमुत्तरति, स च खल्वाटः। ततस्तस्योपरिष्टाद् उष्णेन दह्यते खल्ली, अधस्तात्तु नद्याः शीतलजलेन शैत्यमुत्पद्यते / ततोऽत्रान्तरे कथमपि मिथ्यात्वमोहनीयोदयादसौ चिन्तितवान्-अहो सिद्धान्ते किल युगपत् क्रियाद्वयानुभवो निषिद्धः, अहं त्वेकस्मिन् एव समये शैत्यमौष्ण्यं चवेदयामि, अनु-भवविरुद्वत्वान्नेदमागमोक्तं शोभनमाभातीति विचिन्त्य गुरुभ्यो निवेदयामास। ततस्तैर्वक्ष्यमाणयुक्तिभिः प्रज्ञापितोऽसौ यदा च स्वाग्रहास्तबुद्धित्वाद् न किञ्चित् प्रतिपद्यते, तदा उद्घाट्यबाह्यः कृतो विहरन् राजगृहनगरमागतः / तत्र च महातपस्तीरप्रभवनाम्नि प्रश्रवणे मणिनागनाम्नो नागस्य चैत्यमस्ति। तत्समीपे च स्थितो गङ्गः पर्षत्पुरस्सरं युगपत् क्रियाद्वयवेदनंप्ररूपयति स्म। तच्च श्रुत्वा प्रकुपितो मणिनागः तमवादीत्-अरे दुष्ट शिक्षक ! किमेवं प्रज्ञापयसि? यतोऽत्रैव प्रदेशे समवसृतेन श्रीमद्वर्धमानस्वामिना एकस्मिन् समये एकस्याएव क्रियाया वेदनं प्ररूपितम् / तचेह मयाऽपि श्रुतम्। तत् किं ततोऽपि लष्टतरः प्ररूपको भवान्, येनैवं युगपत् क्रियाद्वयवेदनं प्ररूपयसि? तत् परित्यज चैतां कूटप्ररूपणाम्, अन्यथा नाशयिष्यामि त्वाम्। इत्यादि तदुदितभयवाक्यैर्युक्तिवचनैश्च प्रबुद्धौऽसौ मिथ्यादुष्कृतं दत्वा गुरुमूलं गत्वा प्रतिक्रान्त इति। 'दोकिरिय' शब्दे 2635 पृष्ठत आरभ्य विलोकनीयोऽयं विषय इति विस्तरभयाद् विरम्यतेऽस्मिन् विषयेऽस्माभिः / ननु जिनवचनश्रवणं जिनाऽऽज्ञापालनं च जैनानां सम्यक्त्विनां परमो धर्म इति धर्मपदार्थसार्थनिरूपणा निरूपयितव्येति तामेवाऽऽचष्ट द्विधा हि धर्मशब्दस्य प्रवृत्तिलॊके विलोक्यते / तथाहि सर्वत्र वस्तुनि यद् वस्तुनः स्वभावः स धर्म उच्यते।यथा घटे घटत्वं, मनुष्ये मनुष्यत्वमित्यादि। तथा चोक्तम्-"धर्माः सहभाविनः, पर्यायाः क्रमभाविनः।" 'धम्मो त्ति वा सभावो त्ति वा एगट्ठा। 'दुर्गतौ प्रपतन्तं जीवं धारयतीति धर्मः, स च क्लेशनिवृत्तिनिर्वृतिप्राप्तिसाधनः स्वर्गमोक्षाऽऽदिप्रापको मनुष्येणेतिकर्तव्यतारूपो हृदयसंवेद्यो मातापितृसुहृत्संवेद्यः संसारगर्ताऽऽवटनिपतनप्रहाणप्रवणः परमपुनीतः कस्य चेतो नावस्कन्दति। / तत्र शब्दप्रवृत्तिनिमित्तरूपस्य (गौणस्य) धर्मस्य धर्मिणा सहकान्तेन भेदेऽभ्युपगम्यमाने धर्मिणो निःस्वभावताऽऽपत्तिः, स्वभावस्य धर्मत्यात् तस्य च ततोऽन्यत्वात् , स्वो भावः स्वभावः, तस्यैवाऽऽत्मीया सत्ता, न तु तदर्थान्तरं धर्मरूपं, ततो न निःस्वभावताऽऽपत्तिरिति चेत्।न। इत्थं स्वरूपसत्ताऽभ्युपगमे तदपरसत्तासामान्ययोगकल्पनाया वैयर्थ्यप्रसङ्गात्। अपि च यद्येकान्तेन धर्म-धर्मिणोर्भेदः ततो धर्मिणो ज्ञेयत्वाऽऽदिभिधर्मरननुवेधात् तस्य सर्वथाऽनवगमप्रसङ्गः, न ह्यज्ञेयस्वभावं ज्ञातुं शक्यते इति। तथा च सति तदभावप्रसङ्गः, कदाचिदप्यवगमाभावात्, तथाऽपि तत्सत्त्वापगमेऽतिप्रसङ्गः, अन्यस्यापितस्य कस्यचित् कदाचिदप्यनवगतषष्ठभूताऽऽदेर्भावाऽऽपत्तेः। एवं च धर्म्यभाये धर्माणामपि ज्ञेयत्वप्रमेयत्वाऽऽदीनां निराश्रयत्वादभावाऽऽपत्तिः / न हि धाधाररहिताः क्वापि धर्माः संभवन्ति, तथाऽनुपलब्धेः। अन्यच-परस्परमपि तेषां धर्माणामेकान्तेन भेदाभ्युपगमे सत्त्वाऽऽद्यननुवेधात् कथं भावाभ्युपगमः? तदन्यसत्त्वाऽऽदिधर्माभ्युपगमे च धर्मित्वप्रसक्तिरनवस्था च / तन्नैकान्ताभेदपक्षे धर्मधर्मिभावः / नाप्येकान्तभेदपक्षे, यतस्तस्मिन् अभ्युपगम्यमाने धर्ममात्र वा स्यात्, धर्मिमात्रं वा? अन्यथैकान्तभेदानुपपत्तेः, अन्यतराभावाद् वा अन्यतरस्याप्यभावः, परस्परनान्तरीयकत्वात् / धर्मनान्तरीयको हि धर्मी , धर्मिनान्तरीयकाश्च धर्माः, ततः कथमेकाभावे पररूपावस्थानमिति? कल्पितो धर्मधर्मिभावस्ततो न दूषणमिति चेत्तर्हि वस्त्वभावप्रसङ्गः। न हि धर्मधर्मिस्वभावरहितं किञ्चिद वस्त्वस्ति, धर्मधर्मिभावश्च कल्पित इति तदभावप्रसङ्गः / धर्मा एव कल्पिता न धर्मी, तत्कथमभावप्रसङ्ग इति चेत्, नाधमार्णा कल्पनामात्रभावत्वाभ्युपगमेन परमार्थतोऽसत्त्वाभ्युपगमात् तदभावे च धर्मिणोऽप्यभावाऽऽपत्तिः / अथ तदेवैकं स्वलक्षणं स कलसजातीयविजातीयव्यावृत्त्येकस्वभावाः धर्मिव्यावृत्तिनिबन्धनाश्च या व्यावृत्तयो भिन्ना इव विकल्पितास्ता धर्मास्ततो न कश्चिद्दोषः। तदप्यसङ्गतम्। एवं कल्पनायां वस्तुनोऽनेकान्तात्मकताप्रसक्तेः / अन्यथा सकलसजातीयविजातीयव्यावृत्त्ययोगात्, न हि येन निजस्वभावेन घटाद् व्यावर्तते पटस्तेनैव स्तम्भादपि, स्तम्भस्य घटरूपताप्रसक्तेः / तथाहि-घटाद् व्यावर्तते घटव्यावृत्तिस्वभावतया, स्तम्भादपि चेत् घटव्यावृत्तिस्वभावतयैव व्यावर्तते, तर्हि बलात् स्तम्भस्य घटरूपताप्रसक्तिः / अन्यथा-ततः तत्स्वभावतया व्यावृत्त्ययोगात्। तस्माद्द्यतो यतो व्यावर्तते तत्तद्व्यावृत्तिनिमित्तभूताः स्वभावा अवश्यमभ्युपगन्तव्याः, ते चानेकान्तेन धर्मिणो भिन्नाः, तदभावप्रसङ्गात्। तथा च तदवस्थ एव पूर्वोक्तो दोषः, तस्माद् भिन्ना अभिन्नाश्च / भेदाभेदोऽपि धर्मधर्मिणोः कथमिति चेत्, उच्यते-इह यद्यपि तादात्म्यतोधर्मिणा धर्माः सर्वेऽपिलोलीभावेन व्याप्ताः तथाऽप्ययं धर्मी, एते धर्मा इति परस्परं भेदोऽप्यस्ति, अन्यथा तद् भावानुपपत्तिः। तथा च सति प्रतीतिबाधा, मिथो भेदेऽपिच विशिष्टान्योन्यानुवेधेन सर्वधर्माणां धर्मिणा व्याप्तत्वादभेदोऽप्यस्ति, अन्यथा तस्य धर्मा इति प्रसङ्गानुपपत्तेरित्यलमप्रासङ्गिकवस्तुस्वभावरूपधर्मनिरूपणेन।