________________ घण्टापथः। (24) तमतमपास्तम् / तथाहि-यदुत्पादविनाशयोर्न यस्योत्पादविनाशी, न तत्ततोऽभिन्नम्, यथा घटात्पटः, न भवतः पर्यायोत्पादविनाशयोर्द्रव्यस्योत्पादविनाशौ / न चायमसिद्धो हेतुः, स्थासकोशकुशूलाऽऽद्यवस्थासु मृदादिद्रव्यस्याऽऽनुगामित्वेन दर्शनात् / न चास्य मिथ्यात्वं, कदाचिदन्यथादर्शनासिद्धः। उक्तं च-"यो ह्यन्यरूपसंवेद्यः, संख्येय्येतान्यथा पुनः / स मिथ्या न तु तेनैव , यो नित्यमवगम्यते / / 1 / / " तथैकस्मिन् स्वाऽऽधारभूते द्रव्ये आश्रिता गुणाः रूपाऽऽदयः। एतेन च ये द्रव्यमेवेच्छन्ति, तद्व्यतिरिक्ताँश्च रूपाऽऽदीन अविद्योपदर्शितानाहुः, तन्मतनिषेधः कृतः / संविन्निष्ठा हि विषयव्यवस्थितयः / न च रूपाऽsद्युत्कलितरूपंकदाचित् केनचिद्रव्यमवगतम्, अवगम्यतेवा, अतस्तद्विवर्त एव रूपाऽऽदयो, न तु तात्त्विकाः केचन तद्भेदेन सन्ति / नन्वेवं रूपाऽऽदिविवर्ता द्रव्यमित्यपि किंन कल्पते? अथ तथैव प्रतीतिः, एवं सति प्रतीतिरुभयत्र साधारणेत्युभयमुभयाऽऽत्मकमस्तु / अनेन च य एवमाहुः यदाधन्तयोरसत, मध्येऽपि तत्तथैव, यथा गरीचिकाऽऽदौ जलाऽऽदि। न सन्ति च कुशूलकपालाऽऽद्यवस्थयोर्घटाऽऽदिपर्यायाः, ततो द्रव्यमेवाऽऽदिमध्यान्तेषु सत्, पर्यायाः पुनरसन्तः, वैराकाशकेशाऽऽदिभिः सदृशा अपि भ्रान्तैः सत्यतया लक्ष्यन्ते / यथोक्तम्''आदावन्ते च यन्नास्ति, मध्येऽपि हि न तत्तथा। वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः।।।१॥" ते अपाकृताः। तथाहि-आद्यन्तयोरसत्वेन मध्येऽप्यसत्त्वं साधयतामिदमाकृतम्-यत् कृचिदसत् तत् रार्वरिमन्नसत् इति, ततश्च मृद्रव्यैः अव्यस्यासत्त्वात् सर्वस्मिन्नप्यसत्त्वप्रसङ्गः / अथेष्टमेवैतत्, सत्तामात्रस्यैव तत्त्वत इष्टत्वात्। उक्तं हि'सर्वमकं सदविशेषात्। नन्वेवमभावे भावाभावाभावस्यापि सर्वत्राभावप्रसङ्गः, तस्माद्बाधकप्रत्ययोदय एवासत्त्वेऽपि निबन्धनमिति न क्वचिदसत्त्वे तस्यावश्यंभावः, ततो द्रव्यवत् पर्यायाणाभप्यबाधितबोधविषयत्वे सत्यमस्तु, तथा गुणेष्वपि नवपुराणाऽऽदिपर्यायाः प्रत्यक्षप्रतीता एके कियत्कालभाविनः, प्रतिसयमभाविनस्तु पुराणत्वाऽऽद्यन्यथाऽनुपपत्तेरनुमानतोऽवसीयन्ते। ततश्च द्रव्यगुणपर्यायाऽऽत्मकमेक सबलमणिवत् चित्रपतङ्गाऽऽदिवद् वा वस्त्विति स्थितम् / "दव्वं पज्जवविजुतं, दव्वविउत्ता य पज्जवा नऽस्थि / उप्पायटिइभंगा, हदि दवियलक्खणं एयं ||12||" अथ द्रव्यभेदा इमे- "धम्मो अधम्मो आगासं, कालो पुग्गलजंतवो। एस लोगो ति पण्णत्तो, जिणेहिं वरदंसिहिं // 7 // " अनन्तरोक्तद्रव्यषट्काऽऽत्मकत्वलोकस्य। उक्तं हि- "धर्माऽऽदीना वृत्तिव्याणां भवति यत्र तत् क्षेत्रम्। तैव्यैः सह लोकः, तद्विपरीतं ह्यलोकाऽऽख्यम्॥१॥" किञ्च-एतेऽपि भेदवन्तः। तथा चाऽऽह-''धम्मो अधम्मो आगासं एगं दव्वं वियाहियं / अणंताणि उ दव्वाणि, कालो पोग्गलजंतवो॥८॥"वैशेषिकरीत्या द्रव्यप्रतिपादनं, तत्खण्डनच 'दव्व' शब्दे 2465 पृष्टे द्रष्टव्यम्। जिनवचनादेवाभयदानाऽऽदीनां महाफल दत्वमुक्तमस्ति। तथाह"दानेन महाभोगो, देहिनां सुरगतिश्च शीलेन। भावनया च विमुक्तिः, तपसा सर्वाणि सिद्ध्यन्ति // 1 // " 'दाणं च तत्थ तिविह, नाणपयाणं च अभयदाणं च / धम्मोवग्णहदाणं, च नाणदाणं इमं तत्थ // 52 // "दितो य नाणदा भुवणे जिणसासणं सगुद्धरइ। सिरिपुंडरीयगणहर, इव पावइ परमपयमतुलं / / 65|| ता दायव्यं नाणं, अणुसरियव्वा सुनाणिणो मुणिणो। नाणस्स सया भत्ती, कायव्वा कुसलकामेहिं / / 66|| वीयं तु अभयदाणं, तं इह अभयेण, सयल्जीवाणं / अभउ त्ति धम्ममूलं, दयाइधम्मो पसिद्धमिणं // 17 // इक्क चिअ अभयपया-णमित्थ दाऊण सव्वसत्ताणं। वजाऽऽउह व्व कमसो, सिज्झति पहीणजरमरणा ||8||" "धम्मोवग्गहदाणं, तइयं पुण असणवसणमाईणि। आरंभनियत्ताणं, साहूणं हुति देयाणि // 100 / / तित्थयरचक्कवट्टी-बलदेवा वासुदेवमंडलिया। जायंति जगब्भहिया, सुपत्तदाणप्पभावेणं // 101 / / जह भयवं रिसहजिणो, घयदाणवलेण सयलजयनाहो। जाओ जह भरहवई, भरहो मुणिभत्तदाणेणं / / 10 / / दंसणमित्तेण-वि मुणि-वराण नासेइ दिणकयं पावं / जो देइ ताण दाणं, तेण जए किं न सुविद्वत्तं / / 103 // " "न तवो सुठु गिहीणं, विसयाऽऽसत्ताण होइन हु सील। सारंभाण न भावो, तो साहीणं सया दाणं / / 106 / / " "ता तेसिं दायव्वं, सुद्धं दाणं गिहीहिँ भत्तीए। अणुकंपोचियदाणं, दायव्वं निययसत्तीए।।१०५॥" अनूदितं चैतत् श्रीहेमसूरिभिः"प्रायः शुद्धस्विविधविधिना प्रासुकैरेषणीयैः, कल्पप्रायैः शुद्धस्विविधविधिना प्रासुकैरेषणीयैः, कल्पप्रायैः स्वयमुपहितैः वस्तुभिः पानकाऽऽद्यैः। काले प्राप्तान् सदनमसमश्रद्धया साधुवर्गान्, धन्या केचित् परमविहिताः, हन्त समानयन्ति // 1 // " तथा च दाने मनोहारिणी कृतपुण्यकथा 2461 पृष्टे विलोकनीया। दानं प्रति विधिनिषेधविचारौ 2466 पृष्ठे विद्वद्भिरवधायौँ / जिनवचनप्रसङ्गात् साम्प्रत ज्ञानत्रयभावाभावयोर्दी क्षाऽधिकारित्वानधिकारित्वप्रतिपादनायाऽऽह- "अस्मिन् सति दीक्षायाः, अधिकारी तत्त्वतो भवति सत्त्वः / इतरस्य पुनर्दीक्षा, वसन्तनृपसन्निभा ज्ञेया // 1 // " इत्यादि दीक्षासंबन्धिन सर्व विषयं दिक्खा' शब्दे 2506 पृष्टतः 2508 पृष्ठपर्यन्तं विलक्षणविचक्षणाः पश्यन्तु! दीक्षाया दुःखनिवारकत्वेन फलदत्वमुक्तम्।दुःखस्वरूपंतुजिनवचने"दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवेद् गर्भवासो नराणां, बालत्वे चाऽपि दुःखं मललुलिततनुस्त्रीपयःपानमिश्रम् / तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः,संसारे रेमनुष्याः ! वदतयदिसुखं स्वल्पमप्यस्ति किश्चित्? // 1 // " तथाहि-- "जाणंति अणुहवंति य, अणुजम्मजरामरणसंभवे दुक्खे / न य विसएसु विरजति, दुग्गइगमणपत्थए जीवे // 1 // " "दुक्खमेवमवीसाम, सव्वेसिं जगजंतुणो / एग समय तसभावे, जं सम्म अहियासियं / / 1 / / " "सर्वं परवशं दुःखं, सर्वमात्मवशं सुखम् / एतदुक्तं सभासेन, लक्षणं सुखदुःखयोः // 1 // " पुण्यापेक्षमपि होवं, सुख परवशं स्थितम् / ततश्च दुःखमेवैतद, ध्यान तात्त्विकं सुखम् // 1 // " तथा च "सूईहिं अग्गिवन्नाहिं, संभिन्नस्स निरंतरं। जावइयं गोयमा ! दुक्खं, गब्भे अट्ठगुणं तओ।।१।।