________________ (23) घण्टापथः। तस्योदयात् कृतार्थो-ऽप्यर्हस्तीर्थ प्रवर्तयति।।१।। तत्स्वाभाव्यादेव, प्रकाशयति भास्करो यथा लोकम्। तीर्थप्रवर्तनाय, प्रवर्तते तीर्थकर एवम् / / 2 / / ननु तीर्थप्रवर्तन नाम प्रवचनार्थप्रतिपादन, प्रवचनार्थ चेद् भगवान् प्रतिपादयति, तर्हि नियमादसर्वज्ञः, सर्वस्यापि वक्तुरसर्वज्ञतयोपलम्भात्। तथा चात्र प्रयोगः विवक्षितः पुरुषः सर्वज्ञो न भवति, वक्तृत्वात, रथ्यापुरुषवदिति। तदसत्। सन्दिग्धव्यतिरेकतया हेतोरनैकान्तिकत्वात्। तथाहि वचनं न सर्ववेदनेन सह विरुद्ध्यते, अतीन्द्रियेण सह विरोधानिश्चयात्। द्विविधो हि विरोधः- परस्परपरिहारलक्षणः, सहानवस्थानलक्षणश्च। तत्र परस्परपरिहारलक्षणः तादात्म्यप्रतिषेधे,यथा घटपटयोः / न खलु घटः पटाऽऽत्मको भवति, नापि पटो घटाऽऽत्मको भवति, ''न सत्ता सत्ताऽन्तरसुपैति / " इति वचनात्, ततो नानयोः परस्परपरिहारलक्षणो विरोधः / एवं सर्वेषामपि वस्तूनां भावनीयम् / अन्यथा वस्तुसाङ्कर्यप्रसक्तेः / यस्तु सहानवस्थानलक्षणो विरोधः, स परस्परबाध्यबाधकभावसिद्धौ सिद्धयति, नान्यथा, यथा वह्नि-शीतयोः। तथाहि-विवक्षिते प्रदेशे मन्दमन्दमभिज्वलनवति वह्नौ शीतस्यापि मन्दनन्दभावः / यदा पुनरत्यर्थज्वालामतिविमुञ्चति वह्निस्तदा सर्वथा शीतस्याभाव इति भवत्यनयोर्विरोधः। उक्तं च- "अविकलकारणमेकं, तदपरभावे यदाऽऽभवन्न भवेत् / भवति विरोधः स तयोः, शीतहुताशाऽऽत्मनोदृष्टः / / 1 / / " नचैवं वचनसंवेदयोः परस्परं बाध्यबाधकभावः, न हि संवेदनेतारतम्येनोत्कर्षमासादयति वचखितायाः तारतम्येनापकर्ष उपलभ्यते, तत्कथमनयोः सहानवस्थानलक्षणो विरोधः, अथ सर्ववेदी वक्ता नोपलब्ध इति विरोध उघुष्यते। तदयुक्तम् / अत्यन्तपरोक्षो हि भगवान्, ततः कथमनुपलम्भमात्रेण तस्याभावनिश्चयः, अदृश्यविषयस्यानुपलम्भस्याभावनिश्वायकत्वायोगात्। सर्वे चैते तीर्थकरसंबन्धिविषयाः 'तित्थयर' शब्दे 2246 पृष्ठतः 2312 पृष्ठपर्यन्तं विद्वद्भिर्विलोकनीयाः। अथ द्रव्यस्तव-भावस्तवयोः को विशेषः, कुत्र च फलाऽऽधिक्यमित्यत्राऽऽहननु वित्तपरित्यागाऽऽदिना द्रव्यस्तव एव ज्यायानिति अल्पबुद्धीना शङ्कासंभवः, तत्राऽऽह-"दव्वत्थओ य भावत्थओ य दव्वत्थओ बहुगुणो त्ति / बुद्धि सिया अनिउणमइवयणमिणं छजीवहियं / / 4 / / छज्जीवकायसंजमों दव्वथए सो विरुज्झई कसिणो। तो कसिणसंजमविऊ, पुप्फाईयं न इच्छति // 5 // " यद्येवं किमयं द्रव्यस्तव एकान्ततो हेय एव वर्तते, आहोस्विदुपादेयोऽप्यस्ति? उच्यते-साधूनां हये एव, श्रावकाणामुपादेयोऽपि / तथाहि- ''अकसिणपवत्तयाणं, विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणे, दव्वत्थऍ कूवदिटुंतो | // 6 // " आह-यः प्रकृत्येवासुन्दरः स कथं श्रावकाणामपि युक्तः? उच्यते-कूपदृष्टान्तोऽत्र बोद्धव्यः। यथा कोऽपि तृषाऽपनोदार्थ कूपं खनति / यद्यपि पूर्व तस्य मृत्तिकाकर्दमाऽऽदिना शरीरं मलिनीभवति, तथाऽपि तदुद्गतेन पानीयाऽऽदिना प्रक्षाल्यते गात्रं, ततः स अन्ये च जनाः, सुखभाजना भवन्ति / एवं द्रव्यस्तवेऽपि यद्यप्यसंयमस्तथाऽपि तत एव सा परिणामबुद्धिर्भवति, याऽसंयमवर्ज सर्वनिरवशेष क्षपयति। किश-"अप्पविरियस्स पढ़मो, सहकारिविसेसभूअओ सेओ। इयरस्स बज्झचाया, इयरो चिय एस परमत्थो।।२। दव्वत्थयं पिकाउं,ण तरइ जो अप्पवीरियत्तेणं / परिसुद्धं भावथयं, काही सो संभवो एस // 3 // " एतदेव स्पष्टयति-"जो वज्झच्चाएणं,णो इत्तरिअंपिणिग्गहं कुणइ। इह अप्पणो सयासे, सव्वच्चारण कह कुजा? // 5 // " किञ्च-आरम्भत्यागेन ज्ञानाऽऽदिगुणेषु वर्धमानेषु द्रव्यस्तवहानिरपिन भवति कर्तुः दोषाय। विवेचनमस्य 'थय' शब्दे 2385 पृष्ठपर्यन्तं द्रष्टव्यं प्रज्ञावद्भिः / 'थविरकप्प' शब्दे 2386 पृष्ठे स्थविरकल्पविचारः। तथाह-द्विविधा भवन्ति साधवः / गच्छप्रतिबद्धवाः, गच्छबहिर्गताश्च / पुनरेकैकशी द्विधा जिनकल्पिकाः, स्थविरकल्पिकाश्च / एतेषां स्थविरकल्पिकजिनकल्पिकानां परस्परमयं विशेषः। तथाहि"थेराणं नाणत्तं, अतरंतं अप्पिणंति गच्छस्स। गच्छे निरवजेण, करति सव्वं पि पडिकम्मं / / 1 / / एकेकपडिग्गहगा, सप्पाउरणा हवंति थेरा उ। जेसिं उण जिनकप्पे, न य तेसिं वत्थपायाणि / / 2 / / निप्पडिकम्मसरीरा, अवि अच्छिमलं पि नेव अवणिति। विसहति जिणा रोग, कारेंति कयाइ न तेगिच्छं॥३॥ संजमकरणुज्जोया, णिप्फातग णाणदंसणचरित्ते / दीहाउ वुड्डवासे, वसहीदोसेहि य विमुक्का।।४।। मोत्तुं जिणकप्पठिई,जा मेरा एस वन्निया हेट्ठा। एसा उ दुपदजुत्ता, होति ठिती थेरकप्पस्स // 5 // " इति। ननु द्रव्यस्तवो गृहस्थैः कर्तव्य इति पूर्व यदुक्तं तत्र "वाक्यार्थज्ञाने पदार्थज्ञानस्य कारणता" इति न्यायाद् द्रव्यस्वरूपनिर्वचनं कर्तव्यम्। उच्यते- "गुणपर्याययोः स्थानमेकरूपं सदाऽपि यत् / स्वजात्या द्रव्यमाख्यातं, मध्ये भेदो न तस्य वै / / 1 / / ' व्याख्या चैषागुणपर्यायजिनं कालत्रये एकरूपं द्रव्यं स्वजात्या निजत्वे एकस्वरूपं भवति, परं पर्यायवदन परावृत्तिं लभते तद्रव्यमुच्यते। यथा ज्ञानाऽऽदिगुणपर्यायभाजनंजीवद्रव्यम्, रूपाऽऽदिगुणपर्यायभाजनं पुद्गलद्रव्यम्, सर्वरक्तत्वाऽऽदिघटत्वाऽऽदिगुणपर्यायभाजनं मृद्रव्यम् / यथा वा तन्तवः पटापेक्षया द्रव्य, पुनस्तन्तवोऽवयवापेक्षया पर्यायाः / कथम् ? यतः पटविचाले पटावस्थाविचाले च तन्तूनां भेदो नास्ति,तन्त्ववयवावस्थायामन्वयत्वरूपो भेदोऽस्ति, तस्मात्पुद्गलस्कन्धमध्ये द्रव्यपर्यायत्वमापेक्षिकं बोध्यम् / अथ कश्चिदेवं कथयिष्यतिद्रव्यत्वं तु स्वाभाविकं न जातम्, आपेक्षिकं जातं, तदा त समाधत्तेयत् सकलवस्तूनां व्यवहारापेक्षयैव जायते, न तु स्वभावेनैव, तस्मादत्र न कश्चिद् दोषः। ये च समवायिकारणप्रमुखैर्द्रव्यलक्षणं मन्यते, तेषामपि अपेक्षामनुसतय्यैवेति / 'गुणपर्यायव द्रव्यम्।' इति तत्त्वार्थे / 'सहभावी गुणो धर्मः, पर्यायः क्रमभाव्यथ। भिन्ना अभिन्नास्विविधाः, त्रिलक्षणयुता इमे // 1 // मुक्ताभ्यः श्वेतताऽऽदिभ्यो, मुक्तादाम यथा पृथक्। गुणपर्याययोर्व्यक्त-द्रव्यशक्तिस्तथाऽऽश्रिता॥२॥" किञ्च–'गुणाऽऽश्रयो द्रव्यम्।' यदुक्तम्-"गुणाणमासओ दव्यं, एगदव्वस्सिया गुणा। लक्खणं पज्जवाणंतु, दुहओ अस्सिया भवे // 6 // " तथाहिगुणानामाश्रयो, यत्रस्थास्ते उत्पद्यन्ते, उत्पद्य चावतिष्ठन्ते, प्रलीयन्तेच तद्रव्यम्। अनेन रूपाऽऽदय एव वस्तु, न तव्यतिरिक्तमन्यदितिताथाग