________________ घण्टापथः। (22) पंचसमिया तिगुत्ता, उज्जुत्ता संजमे तवे चरणे। वाससयं पि वसंता, मुणिणो आराहगा भणिया // 5 // " नित्यवासविषये संगमस्थविरचरितं तु 2071 पृष्ठे द्रष्टव्यम्। ननु जिनवचन श्रद्धावतो निर्वाणं श्रूयते, तत्किं नाम निर्वाणम् / तथाहि"मनसि किं दीवस्सव, नासो निव्वाणमस्स जीवरस। दुक्खक्खयाइरूवा, किं होज्जव से सओऽवत्था / / 1675 // " तद् यथा सोगताः प्राऽऽहु:"दीपो यथा निवृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम्। दिशं न काञ्चिद् विदिशं न काश्चित, स्नेहक्षयात् केवलमेति शान्तिम् / / 1 / / जीवस्तथा निवृतिमभ्युपेतो, नवावनिं गच्छति तान्तरिक्षम्। दिशं न काश्चिद् विदिशं न काश्चिद, क्लेशक्षयात् केवलमेति शान्तिम् // 2 // " किं वा यथा जैनाः प्राऽऽहुस्तथा निर्वाणं भवेत्? तथाहि-रागद्वेषमदमोहजन्मजरारोगाऽऽदिदुःखक्षयरूपा विशिष्टा काचिदवस्था विद्यमानरय जीवस्य। उक्तंच-"केवलसंविदर्शनरूपाः सर्वार्तिदुःखपरिमुक्ताः। मोदन्ते मुक्तिगताः, जीवाः क्षीणान्तरांरिंगणाः।।१।।' अथवा-खस्येवानादित्वात् कर्मजीक्योः संयोगस्यावियोगात् संसाराभाव एव न भवत्। जीवाऽऽकाशयोरिव ययोरनादिः संयोगः त्रयोवियोगो न भवति, अनादिश्च जीवकर्मणोः संयोगः, ततो वियोगाऽनुपपत्तिः, ततश्न न संसाराभावः, तथा च सति कुतो मोक्षः? अथात्रैव प्रतिविधीयते नायमेकान्तो यदनादिसंयोगो न भिद्यते यतः काञ्चनधातुपाषाणयोरनादिरपि संयोगोऽग्न्यादिसंपर्केण विघटत एव, तद्वद् जीवकर्मरायोगस्यापि सम्यग् ज्ञानक्रियाभ्यां वियोगो मण्डिकवत् प्रतिपद्यताम्। ननु यथा कर्मणो नाशे संसारो नश्यति, तथा तन्नाशे जीवत्वस्यापि नाशाद् मोक्षा भावो भविष्यति? एतदप्यसारम् / यतः कर्मजनितः संसारः, तन्नाशे संसारस्य नाशो युज्यत एव, कारणाऽभावे कार्याऽभावस्य सुप्रतीतत्वात्। जीवत्वं पुनरनादिकालप्रवृत्तत्वात् कर्मकृतं न भवति, अतस्तन्नाशे जीवस्य न कशिद नाशः, कारणव्यापकयोरेव कार्यव्याप्यनिवर्तकत्वात, कर्म तु जीवस्य न कारण, नापि व्यापकम् / इतव जीवो न नश्यति-"न विगारानुवलंभादागास पि व विणासधम्मो सो / इह नासिणो विगारो, दीसइ कुंभरस वाऽवयदा / / 1681 // कालंतरनासी वा, घडो व्व कागाइओ मई होजा / नो पद्धसाभावो, भुवि तसग्मा विजं निचो / / 1982 / / " इति। अथ यदुक्तम्-दीपो यथा निर्वृतिभित्यादि।तत्रोत्तरम्"न य सव्वहा विणासोऽणलरस परिणामओ पयरसेव। कुंभरस कवालाण व, तहा विगारोवलंभाओ 111687 // ततः-"जह दीवो निव्वाणो, परिणामंतरमिओ तहा जीवो / भण्णइ परिनिव्वाणो, पत्तोऽणावाहपरिणाम।।१६६१।।"किञ्च- "मुत्तरसं परं सोक्खं, णाणाणावाहओ जहा मुणिणो / तद्धम्मा पुण विरहादावरणाऽऽवाह-हेऊणं / ||1662 // " इत्यादि निर्वाणविषयविस्तरः "णिव्वाण' शब्दे निर्वाणजिज्ञासुभिर्निपुर्ण निभालनीयः। तच्च निर्वाणं तपोऽन्तरा न लभ्यते इति प्रसङ्गतः तपःस्वरूपमुच्यते-"ज्ञानमेव बुधाः प्राहुः, कर्मणां तापनात् तपः। तदाभ्यन्तरमेवेष्ट, बाह्य तदुपबृहकम्॥१॥ तदेव हि तपः कार्य, दुनि यत्र नो भवेत्। येन योगान हीयन्ते, क्षीयन्ते नेन्द्रियाणि वा॥२॥ मूलोत्तरगुणश्रेणि-प्राज्यसाम्राज्य-सिद्धये। बाह्यमाभ्यन्तर चेत्थं, तपः कुर्याद महामुनिः / / 3 / / '' "एसो वारसभेओ, सुत्तनिवदो तवो मुणेयव्यो। एय विसेसो उ इमो, पइण्णगोऽणेगभेउ त्ति // 4 // तित्थयरनिगमाई, रावगुणपसाहणं तवो होइ। भव्वाण हिओ नियमा, विसेसओपढमाणीण // 5 // " जम्हा एसो सुद्धो, अणियाणो होइ भावियमईणं / तम्हा करेइ सम्म, जह विरहो होइ क माणं // 44 // " सो हु तवो कायव्वो, जेण मणोऽमंगलं न चिंतेइ / जेण न इंदियहाणी, जेण य जोगा न हायंति / / 4 / / '' "तपश्च त्रिविधं ज्ञेयमफलाऽऽकाहि भिर्नरैः। श्रद्धया परया तप्तं, सात्विक तप उच्यते / / 1 / / सत्कारमान पूजाऽर्थ तपो दम्भेन चैव यत्। क्रियतेतदिह प्रोक्तं, राजसंचलमध्रुवम्।।२।। मूढग्रहेण यचाऽऽत्मपीडया क्रियते तपः। परस्योच्छेदनार्थ वा, तत्तामसमुदाहृतम् / / 3 / / " इति। अनेकजन्माभ्यस्ततपःप्रभावात् तीर्थकरनामकर्मणी संवद्ध्य निर्वाणभधिरोहति जीव इति सिद्धान्तमनुस्मृत्य तीर्थकरविषयमेटावता-रयामः। तथाहि-तीर्थकरणशीलास्तीर्थकराः, अचिन्त्यप्रभावमहापुण्यसंज्ञिततन्नामकर्मविपाकतः, तस्यान्यथा वेदनायोगात्। तत्र येनेह जीवा जन्मजरामरणसलिलं मिथ्यादर्शनाविरतिगम्भीर महाभीषणकषायपातालं सुदुर्लध्यमोहाऽऽवतरौद्र विचित्रदुःखौघदुष्टश्वापदंरागद्वेषपवनविक्षोभितं संयोगवियोगवीचीयुक्तं प्रबलमनोरथवेलाऽऽकुलं सुदीर्घ संसारसागरं तरन्ति तत्तीर्थमिति / एतच यथाऽवस्थितसकलजीवाऽऽदिपदार्थप्ररूपकम् अत्यन्तानवधान्याविज्ञातचरणकरणक्रियाऽऽधारं त्रैलोक्यगतशुद्धधर्मसंपयुक्तमहासत्त्वाऽऽश्रयम् अचिन्त्यशक्तिरामन्विताविसंवादिपरमबोहित्थकल्पं प्रवचनं, निराधारस्य प्रवचनस्या-संभ वात सङ्घो वा ततश्चैतदुक्तं भवतिघातिकर्मक्षये ज्ञानकैवल्ययोगात् तीर्थकरनामकर्मोदयस्तत्स्वभावतया आदित्याऽऽदिप्रकाशनिदर्शनतः शास्त्रार्थप्रणयनाद् मुक्तकैवल्ये तदसंभवेनाऽऽगमानुपपत्तेः, भव्यजनधर्मप्रवर्तकत्वेन परम्पराऽनुग्रहकरास्तीर्थकरा इति तीर्थकरत्वरि-द्धिः / किश-सर्वेऽपि निरुपमधृतिसंहननाश्छद्मस्थावस्थावां चतुर्माना अतिशयसत्त्वसंपन्ना अच्छिद्रपाणिपात्रा जितसमस्तपरीषहाश्च यस्मात्तेन वजाभावेऽपि संयमविराधनाऽऽदीन् दोषान् न प्राप्नुवन्ति / तथा व सवस्त्रा एव साधवश्चिरं स्थास्यन्ति इत्यस्यार्थस्य ज्ञापनार्थ गृहीतैकवस्त्राः सर्वेऽपि तीर्थकृतोऽभिनिष्क्रामन्ति, तस्मिश्च वस्त्रे क्वापि पतिते वस्त्ररहितास्ते भवन्ति, न पुनः सर्वदा। ननु सर्वोऽपि प्रेक्षावान फलार्थी प्रवर्तते, अन्यथा प्रेक्षावत्ताक्षतिप्रसङ्गः। ततोऽसौ तीर्थ कुर्वन्नवश्यं फलमपेक्षते, फलं चापेक्षमाणोऽस्मादृश इव व्यक्तमवीतरागः। तदयुक्तम्। यतस्तीर्थकरः स एव भवति, यस्तीर्थकरनामकर्मोदयसमन्वितः। न हि सर्वेऽपि भगवन्तो वीतरागास्तीर्थप्रवर्तनाय प्रवर्तन्ते, तीर्थकरनामकर्मव तीर्थप्रवर्तनफलम्। ततो भगवान् वीतरागोऽपि तीर्थकरनामकर्मोदयतस्तीर्थप्रवर्तनस्वभावः सवितेव प्रकाशमुपकार्योपकारानपेक्षं तीर्थ प्रवर्तयतीति न कश्चिद्दोषः / उक्तंच-"तीर्थप्रवर्तनफलं, यत्प्रोक्तं कर्म तीर्थकरनाम।