________________ (21) घण्टापथः। यते प्राणिना? उच्यते-दुःसहे तीव्र खदिरागारमहाराशितापादनन्तगुणेऽभितापे बहुवेदनेऽपरित्यक्तविषयाभिष्वङ्गा जिनवचनानादरपराः स्वकृतकर्मगुरवः पतन्ति निरयाऽऽदिषु, तत्र च नानारूपा वेदनाः समनुभवन्ति। तथा चोक्तम्"गिद्धमुहणिद्धउक्खि-तबंधणोम्मुक्तकंधरकबंधे। दढगहियतत्तसंडा-सयग्गविसमुक्खुडियजीहे॥१॥ तिक्खंकुसग्गकड्डिय-कंटयरुक्खग्गजज्जरसरीरे। निमिसंतरं पिदुल्लह-सुक्खेऽवक्खेवदुक्खम्मि॥२॥ बद्धंधयारदुर्ग-धबंधणायारदुद्धरकिलेसे। भिन्नकरचरणसंकर-रुहिरवसादुग्गमप्पवहे॥३॥ सुष्माकंदकडाहु-कढतदुक्कयकयंतकम्मंते। मूलविभिन्नुक्खित्तु-द्धदेहणितंतपब्भारे ||4|| जतंऽतरभिजंतु-च्छलंतसंसहभरियदिसिविवरे। मजंतुप्फिडियसमुच्छलंतसीसट्ठिसंघाए॥५॥ इय भीसणम्मि निरए, पडंति जे विविहसत्तवहनिरया। सव्वब्भट्ठा य नरा, जयम्मि कयपावसंधाया // 6 // " इत्थं च बहवोऽपि विषया नरकसंबन्धिनः 'णरग' शब्दे विषयसूच्या 1625 पृष्ठे विभावनीयाः / प्रत्यक्षपरोक्षत्वेन ज्ञानस्य द्वैविधेयम्, केवलनोकेवलज्ञानत्वेन प्रत्यक्षस्याऽपि वैविध्यम्, अवधिमनःपर्यवज्ञानत्वेन केवलज्ञानस्यापि द्वैविध्यम्, परोक्षज्ञानस्य तु आभिनिबोधिकश्रुतज्ञानत्वेन द्वैविध्यम् / ननु यदि चैतन्यं ज्ञानमात्मनोऽत्यन्तव्यतिरिक्तम्, तदा कथमात्मनः संबन्धि ज्ञानमिति व्यपदेशः? यद्यात्मनो ज्ञानादव्यतिरिक्तत्वमिष्यते, तदा दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावाद् बुद्ध्यादीनां नवानामात्मविशेषगुणानामुच्छेदावसरे आत्मनोऽप्युच्छेदः स्यात्, तदव्यतिरिक्तत्वात अतोभिन्नाभिन्नमेवाऽऽत्मनो ज्ञानं यौक्तिकमिति / प्रपञ्चितं चैतत् 'णाण' शब्दे 1658 पृष्ठेन्यक्षेण परतीर्थिकमतोपन्यासनिरसनाभ्याम्। ज्ञानाज्ञानाभ्यां यद् भवति तदाह"मज्जत्यज्ञः किलाज्ञाने, विष्ठायामिव शूकरः। ज्ञानी निमज्जति ज्ञाने, मराल इव मानसे ||1|| निर्वाणपदमप्येकं, भाव्यते यद् मुहुर्मुहुः। तदेव ज्ञानमुत्कृष्ट, निर्बन्धो नास्ति भूयसा / / 2 / / स्वभावलाभसंस्कार-स्मरण ज्ञानमिष्यते। ध्यान्ध्यमात्रमतस्त्वन्यत्, तथा चोक्तं महात्मना ||3|| वादाँश्च प्रतिवादाँश्च, वदन्तोऽनिश्चिताँस्तथा। तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद् गतौ // 4 // अस्ति चेद् ग्रन्थिभिद्ज्ञानं, किं चित्रैस्तन्त्रयन्त्रणैः। प्रदीपाः क्वोपयुज्यन्ते, तमोघ्नी दृष्टिरेव चेत्॥५॥ पीयूषमसमुद्रोत्थं, रसायनमनौषधम्। अनन्यापेक्षमैश्वर्य, ज्ञानमाहुर्मनीषिणः॥६॥" "जो विणओ तं नाणं, जनाणं सो अवुचई विणओ। विणएण लहइ नाणं, नाणेण वि जाणई विणयं // 7 // " "क्रियानयः क्रियां बूते, ज्ञानं ज्ञाननयः पुनः। मोक्षस्य कारणं तत्र, भूयस्यो युक्तयो द्वयोः / / 8 / / नित्यनैमित्तिकैरेव, कुर्वाणो दुरितक्षयम्। ज्ञानं च विमलीकुर्व-न्नभ्यासेन तु पाचयेत्।।६।। अभ्यासात् पक्वविज्ञानः, कैवल्यं लभते नरः॥" "नाणी गिण्हइ नाणं, मुणेइ नाणेण कुणइ किचाई। भवसंसारसमुई, नाणी नाणट्टिओ तरति // 1 // " "तम्हा न वज्झकरणं, मज्झ एमाणं न यावि चारित्तं। नाणं मज्झ पमाणं, नाणे च ट्ठियं जओ तित्थं // 1 // " परन्त ज्ञानिनाऽपि चरणवता भाव्यम्"जाणतो वि अ तरिउं, काइयजोगं न जुंजई जोगं / सो वुडुइ सोएणं, एवं नाणी चरणहीणो।।१।।" ननु तत्र तत्र जिनवचने निगोदजीवानां चर्चा कृताऽस्तीति के ते निगोदजीवाः? उच्यते "जह अयगोलो धंतो, जाओ तत्ततवणिजसंकासो। सव्वो अगणिपरिणओ, णिगोयजीवे तहा जाण / / 16 / / एगरस दोण्ह तिण्ह व, संखेजाणं व पासिउंसक्का! दीसति सरीराई, णिगोयजीवाणऽणंताणं // 20 // " यथाऽयोगोलो ध्मातः सन् तप्ततपनीयसंकाशोऽग्निपरिणतो भवति, तथा निगोदजीवानपि जानीहि, निगोदरूपेऽप्येकै कस्मिन् शरीरे तच्छरीराऽऽत्मकतया अनन्तान् जीवान् जानीहि। ननु कथं निगोदरूप शरीर नियमादनन्तजीवपरिणामाऽऽविर्भावितं भवतीति? उच्यतेजिनवचनात् / तदम्- "गोला य असंखेज्जा, होति निगोया असंख्या गोले। एकेको य निगोओ, अणतजीवो मुणेयव्यो / / 1 / / " तभेदास्तु "णिगोय" शब्दे 2026. पृष्ठे द्रष्टव्याः। जिनवचनादेव 'निर्गन्थ' शब्दे पुलाकवकुशकुशीलनिर्ग्रन्थस्नातकभेदेन पञ्चविधनिर्गन्थस्वरूपनिरूपणानन्तरं तेषां साधकविचारः, कूजनताकर्करणताऽऽपध्यानताऽऽदिभेदेन निर्ग्रन्थानां, निर्ग्रन्थीनामसुखत्वाऽऽदि प्ररूप्य तद्वैपरीत्वेन सुखत्वाऽऽदिनिरूपणमेवमादयो विषयाः पश्चचत्वारिंशद द्रष्टव्याः / निर्ग्रन्थीशब्दे निग्रन्थीनामाचाराऽऽदिनिर्देशः / 'णितियवास' शब्दे साधुसाध्वीनां नित्यवास एकत्र निषिद्धः। तथाहि-विहारपरिहारेण सर्वदैकत्र निवासवतां प्रासुकैषणीयवसतिलाभाभावाद् गृहस्थाइवाऽऽश्रयाभावेषु मुक्तसमस्तजीवोपमर्दाऽऽदयः स्वयंग्रहकरणकारणानुमोदनाऽऽदौ प्रवर्त्तन्ते, ततश्चैषणायामपिजीवनिकायानामाकुट्यापि विराधनोत्पद्यते, ततश्च प्राणातिपातविरमणमहाव्रतभड्गनिरर्थकताया अपि शिरस्तुण्डमुण्डनाऽऽदेवैययं स्यात्। अन्यथैकत्र निवासे प्रतिदिनमाहाराऽऽदिदानवन्दनाऽऽदिप्रतिपत्त्योपगृहीतानां साधूनामनादिभवाभ्यासवशवर्तिनां प्रतिबन्धाऽऽदयः संभवन्ति। उक्तंच - "पडिबंधोलहुयत्तं, न जणुवयारो न देसविन्नाण।नाणाऽऽराहणमेए,दोसा अविहारपक्खम्मि।।१।।" ततश्च प्रतिबन्धात् संबन्धः संबन्धात् चित्तविप्लुतिः, चित्तविप्लुतेरकार्यप्रवृत्तिरिति। यदा च चित्तविप्लुत्या प्रेरितः स्त्रीसेवाऽऽदौ प्रवर्तते, तदान केवलं प्रथमव्रतभङ्गः, अपितु पञ्चानामपीति। किन्तु "जो होज्जउ असमत्थो, रोगेण व पेल्लिओ झुसियदेहो। सय्वमवि जहाभणिय, कयाइ न तरिज काउं जे / / 1 / / सो विय निययपरकम-ववसायधिइबलं अगूहेंतो। मोत्तूण कूडचरियं, जयइ जइ तो अवस्स जई।२।। निम्मम निरहंकारा, उज्जुत्ता नाणदंसणचरित्तम्मि। एगक्खेत्ते वि ठिया, खवेंति पोराणयं कम्मं // 3 // जियकोहमाणमाया, जियलोभपरीसहा य जे धीरा। बूढावासेऽवि ठिया, खवेंति पोराणयं कम्मं / / 4 / /