________________ जोगवहण 1642 - अभिधानराजेन्द्रः भाग - 4 जोगविहि जोगवहण-न०(योगवहन) योगोद्वहने, सेन०। प्राग योगोबहनं कृत्वा साधवो द्वादशाङ्गी पठेयुः, किं वाऽन्यथा वा ? इति प्रश्ने, उत्तरम-प्राग योगमुद्राह्य द्वादशाङ्गीं पठेयुः / कदाचित्केनचिदयोगोद्वहन विनाऽपि द्वादशाङ्गी पठिता शास्त्रे दृश्यते, तदपि कर्तव्यम्, आगमव्यवहारिकृतत्वात् / यत आगमव्यवहारी यथा लाभं जानाति, तथा करोतीति / ११६प्र० / सेन० 4 उल्ला० / जोगवाहि(ण् )-पुं०(योगवाहिन् ) योगेन वहति, वहणिनिः / पारदे क्षारभेदे च / वाच०। श्रुतोपधानकारिणि, स्था० 10 ठा०11०। ही० (एतद्वक्तव्यता' जोगविहि' शब्दे 1645 पृष्ठे वक्ष्यते) योगेन समाधिना सर्वत्रानुत्सुकत्वलक्षणेन वहतीत्येवंशीलो योगवाही। समाधिस्थायितरि, स्था०१० ठा०। जोगविंदु-पुं०(योगबिन्दु) योगस्य मोक्षहेतोरनुष्ठानस्य बिन्दुरवयवो योगबिन्दुः / योगावयवे, योगावयवानां प्रतिपादके आचार्यहरिभद्रसूरिविरचिते स्वनामख्याते प्रकरणग्रन्थभेदे च / यो० वि०। तस्य चेदमादिसूत्रम्नत्वाऽऽद्यन्तविनिर्मुक्तं, शिवं योगीन्द्रवन्दितम्। योगबिन्दुं प्रवक्ष्यामि, तत्त्वसिद्ध्यै महोदयम् / / 1 / / नत्वाऽभिवन्द्य, आदिः प्रथमभावः, अन्तःपर्यवसानं, ताभ्या विनिमुक्तं विरहितं, किम् ? इत्याह-शिवं सकलोपप्लवकलाविकल देवताविशेषम्। कीदृशम् ? इत्याह-योगीन्द्रवन्दितं गणधराऽऽदिमहामुनिनभस्कृतम् / किम ? इत्याह-योगबिन्दुम्-योगस्य मोक्षहेतोरनुष्ठानस्थ, बिन्दुरवयवो योगबिन्दुः, तत्प्रतिपादकतया प्रकरणभपि योगबिन्दुरुच्यते , ततो योगबिन्दुनामकं प्रकरण, प्रवक्ष्याभि अभिधास्ये। किमर्थम् ? इत्याहतत्त्वसिद्ध्यै आत्माऽऽदितत्त्वप्रतीतिनिमित्तम् / पुनरपि कीदृश योगबिन्दुम् ? इत्याह-महोदयं महान् प्रशस्य उदयो निःश्रेयसाभ्युदयसंसिद्धिरूपो यस्मात् स तथा तम्॥१॥ पुनरपि कीदृशं योगबिन्दुम ? इत्याहसर्वेषां योगशास्त्राणा-मविरोधेन तत्त्वतः। सन्नीत्या स्थापकं चैव, मध्यस्थाँस्तद्विदः प्रति॥२॥ सर्वेषा कपिलसुगताऽऽदिप्रणीतयोगशास्त्राणामध्यात्मग्रन्थाना-ग , अविरोधेन अविघटनेनोपलक्षितं, तत्वत ऐदम्पर्यपथलोचनेन, न पुनः शाब्दन्यायेनापि तस्य प्रतिदर्शनम् , अन्यथाऽन्यथाप्रवृत्तत्वात। पठ्यते च-" प्रशान्तवाहितासंज्ञ, विषभागपरिक्षयम् / शिववर्त्म ध्रुवादति, योगिभिर्गीयते ह्यदः // 1 // इति / तथा सन्नीत्या अन्वयव्यतिरेकशुद्धयुक्तिरूपया, स्थापकमविसंवादाऽऽपादनेन प्रतिष्ठाकारि सर्वयोगशास्त्राणामेव / चैव इति समुचये / ननु योगशाखकाराणां निजनिजमतात्यन्ताभिनिवेशेन विप्रतिपन्नत्वात्कथं सर्वयोगशास्त्राणां संस्थापकमिदं प्रकरणं स्यात् ? इत्याशङ्कयाऽऽहमध्यस्थान् स्वदर्शनरागपरदर्शनद्वेषयोर्मध्यभागवर्तिनः, तद्विदो योगशास्त्रविदः, श्रोतृन प्रति इति स्वदर्शनं प्रतीत्य, अमध्यमेषु श्रोतृषु वस्तुस्थापनाइयोगात् / तथा चोक्तम्-" आग्रही वत निनीषति युक्ति, तत्र यत्र मतिरस्य निविष्टा / पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् "19 // इति।। आान्तविनिर्मुक्तमिति च विशेषणं शिवसन्तानापेक्षम् / न पुनरेकः कश्विदनादिशुद्धः शिवः समस्ति, तस्य शास्त्रान्तरे महता प्रबन्धेन प्रतिषिद्धत्वात् / अत्र च नत्वा शिवमित्यनेन विघ्नापोहहेतुः शास्त्रमूलं मङ्गलमुक्तम् / योगबिन्दुमित्यनेन प्रेक्षावत्प्रवृत्त्यर्थमभिधेयम् / तत्त्वसिद्भ्य इत्यनेनानन्तरप्रयोजनम् / महोदयमित्यनेन तु परम्पराप्रयोजनमभिहितम् / अभिधानाभिधेयलक्षणश्च सबन्धः स्वयमेव दाच्य इति सर्वेषां योगशास्त्राणामविरोधेन इत्युक्तम्॥ 2 // यो० 'बिं०। अथास्य योगशास्त्राविरचनस्य प्रयोजनमुद्वारस्थानं स्वनाम च सूचयन् शारत्रकार इदमाहस्वल्पमत्यनुकम्पायै, योगशास्त्रमहार्णवात् / आचार्यहरिभद्रेण, योगबिन्दुः समुद्धृतः / / 525 / / स्वल्पमत्यनुकम्पाये तुच्छमतिजनानुग्रहाय, योगशास्त्राण्येव तत्तत्तन्त्रान्तरप्रसिद्धानि महार्णवो महासमुद्रः, तस्मात् / आचार्यहरिभद्रेणेति शास्त्रकृतो नाम / किम् ? इत्याह-योगबिन्दुः समुद्धृतः पृथककृत इति / / 525 / / अथशास्त्रकृदेवप्रणिधानमाहसमुद्धृत्यार्जितं पुण्यं, यदेनं शुभयोगतः। भवाऽऽन्ध्यविरहात् तेन, जनः स्ताद्योगलोचनः / / 526 / / समुद्धृत्य-उद्धारस्थानाविसंवादेन पृथकृत्य, अर्जितमुपात्तं, पुण्यं शुभकर्म, यद्विशिष्टस्वरूपम् , एनं योगबिन्दुम् , शुभयोगतः परोपकाररूपशुभव्यापारात् . भवाऽऽन्ध्यविरहातागद्वेषमोहलक्षणसंसारान्धभावस्य परिहारेण, तेन शुभकर्मणा, जनो भवलोकः, स्त्ताद्भवतीकीदृशः? इति आह-योगलोचनःयथाऽवस्थितवस्तुपरि-ज्ञानाबन्ध्यकारणत्वाद् योग एव लोचनमक्षि यस्य स तथा। विरह इति च भगवतः श्रीहरिभद्रसूरः स्वप्रकरणाङ्कप्रद्योतक इति। यो० बिं०। जोगविसुद्ध-पुं०(योगविशुद्ध) निरवद्यव्यापारे," उभओ जगविसुद्धा।" पञ्चा०१८ विव०। जोगविहि-पुं०(योगविधि) योगविधाने, षो०१३ विव०। उपधानवहन विना श्राद्धस्य, योगो द्वहनं च विना साधोः स्वस्वाचितश्रुताध्ययनवाचनाऽऽदिकमधर्म इति स्थितम्। योगाक्षराणि चैतानि-"तिहिं ठाणेहिं संपन्ने अणगारे अणाइअअणवदग्गं दीहम चाउरंतसंसारकतारं वीतीवएजा। तं जहा-अणिदाणयाए. दिद्रिसंपन्नयाए. जागवाहिनाए। " इति स्थानाङ्गतृतीयस्थाने। तथा-" दसहि ठाणेहिं जीवा आयमेसि भगत्ताए कम्मं पकरिति / तं जहा-अणिदाणयाए, दिट्टिसंपन्नयाए, जोगवाहिताए, खतिखमणयाए, जिइंदियत्ताए, अमाइल्लयाए. अपासत्थवाए.सुसामन्नत्ताए, पवयणवच्छल्लयाए.पवयणउठभावणयाए।" इति स्थानाइदशमस्थाने / तथा- ''णीयावित्ती अचवले, अमाई अकऊहले / विणीअविणए दंते, जोगवं उवहाणवं।। " (27 गाथा)तथा"पयणकोहमाणे अ, मायालोभपयण्णुए। पसंतचित्ते दनप्पा, जोगवं उवहाणवं / " (26 गाथा) इति चतुस्त्रिशोत्तराध्ययने / तथा"अणिस्सिओवहाण ति" समवायाङ्गे द्वात्रिंशद्योगसंग्रहाधिकारे।तथा'नाणं पंचविह पण्णता तंजहा-आभिणिबोहिअनाणं० जाय केवलणाणं। तत्थ चत्तारि नाणाई टप्पाईठवणिज्जाइंणो उद्दिसंति, णो समुद्दिसंति, णो अणुण्णविजंति; सुअनाणस्स उद्देसो 1, समुद्देसो 2, अणुण्णा 3, अणुओगो 4, पवत्तइ।" इत्या-अनुयोगद्वारे उद्देशाऽऽदिकरणच योगस्यैतिकर्तव्यता।