________________ जोगपिंड 1641 - अभिधानराजेन्द्रः भाग - 4 जोगवं ऊचुः पृष्टास्तषःशक्ति-रस्माकमियमीदृशी। तेष्वादृतस्ततो लोकः, क्षुभिताः श्रावका अपि॥३॥ आसतामपरे धर्माः, जिनधर्मोऽपि हील्यते। तदाऽऽर्यसमिताऽऽचार्याः, तत्रेयुर्वज्रमातुलाः / / 4 / / श्राद्धः सुधीगुरोराख्यद् , भौतोदन्तं गुरुस्ततः। भ्रमितानां प्रबोधाय, शिक्षा तस्य ददौ रहः / / 5 / / सोऽथ गत्वा प्रभाते तान् , भौतान् सर्वानमन्त्रयत्। हृष्टास्तेऽसचरित्रेण, क्षुभिताः श्रावका अपि।। 6 / / अथाऽऽनीय गृहे सर्वान् , पादशौचे कृतोद्यमः। स तैर्निषिध्यमानोऽपि, भक्त्यैवाक्षालयत् क्रमान्॥७॥ धौताश्च पादुकास्तेषां,यथेष्ट भोजितास्ततः। अथानुव्रजनं श्राद्धाः, श्रद्धालव इव व्यधुः / / 8 / / नद्यां प्राग्वत्प्रविष्टास्ते, बडन्तस्तारकैधुताः। तदेत्युच्चैर्जना ऊचु-मुष्टाः स्मश्छद्मतापसैः॥६॥ तत्राऽऽचार्यास्तदाऽऽयाताः, योग क्षिप्त्वा नदीं जगुः / एहि पुत्रि ! यथा यामो, वयं परतट तव || 10 // मिलितो द्वावपि तटौ, सर्वेषामपि पश्यताम्। गुरवः परतो जग्मु-र्लोकः सर्वोऽपि विस्मितः।।११।। तापसाः प्रतिबुद्धास्ते, तेषां पार्वं प्रवव्रजुः। ते ब्रह्मद्वीपवासित्वात् , तदाहाः साधवोऽभवन् " // 12 // आ० क०। जोगबुड्डि-स्त्री०(योगवृद्धि) सम्यग्दर्शनाऽऽदिमुक्तिबीजोत्कर्षे, यो० बिं०। / जोगब्भास-पुं०(योगाभ्यास) योगो ध्यानं, तस्याभ्यासः परिचयो योगाभ्यासः / ध्यानपरिचये, षो०। योगाभ्यासमाहस्थानोर्थाऽऽलम्बन-तदन्ययोगपरिभावनं सम्यक् / परतत्त्वयोजनमलं,योगाभ्यास इति तत्त्वविदः॥ 4 / / स्थीयतेऽनेनेति स्थानमासनविशेषरूपम्-कायोत्सर्गपर्यङ्कबन्धपद्माऽऽसनाऽऽदिसकलशास्त्रसिद्धम्। ऊर्णः शब्दः, स च वर्णाऽऽत्मकः / अर्थः शब्दस्याभिधेयम् / आलम्बनं बाह्यो विषयः प्रतिमाऽऽदिः / तस्मादालम्बनादन्यः,तद्विरहितस्वरूपोऽनालम्बन इति यावत। स्थानं चोर्णश्वार्थश्चाऽऽलम्बनं च तदन्यश्चैत एव योगाः, तेषां परिभावन सर्वतोऽभ्यसनं, सम्यक् समीचीनं, परंतत्वं योज-यतीति परतत्त्वयोजनं, मोक्षण योजनात् , अलमत्यर्थम् , योगस्य योगाङ्गरूपस्य ध्यानस्य वाऽभ्यासः परिचयो योगाभ्यासः, 'इति' इत्थं, तत्त्वविदोऽभिवदन्ति। कथं पुनः स्थानाऽऽदीना योगरूपत्वं, येन तत्परिभावनं योगाभ्यासो भवेत् ? उच्यते-योगाङ्गत्वेन, योगाङ्गस्य च शास्त्रेषु योगरूपताप्रसिद्धर्हे तुफलभावेनोपचारात् / योगाङ्गत्वं तु स्थानाऽऽदीनां प्रतिपादितमेव योगशास्त्रेषु। यथोक्तम्-" यमनियमाऽऽसनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि।" (2-26 पातञ्जलयोग०) / / 4 / / षो०२ विव०। जोगभंग-पु०(योगभङ्ग) श्रुतोपधानभड़े, स च द्विविधःसर्वभङ्गो, / देशभङ्गश्च / व्य०४ उ०। द्वा० / नि०। (योगभड़े प्रायश्चित्तम् ' च- | रियापविट्ट '' शब्दे तृतीयभागे 1162 पृष्ठे द्रष्टव्यम्) जोगभावियमइ-त्रि०(योगभावितमति) धर्मव्यापारविशेषवासितबुद्धौ, " | पायं तह जोगभावियमईणं / " योगभावितमतीनां धर्मव्यापारविशेष- | वासितधियामिति। पञ्चा० 4 विव०। जोगमग्ग-पुं०(योगमार्ग) योगवर्त्मनि, " आमूलमिदं परम, सर्वस्य हि योगमार्गस्य / " षो०१५ विव० / अध्यात्मशास्त्रपथे च / पञ्चा०१६ विव० जोगमुद्दा-स्त्री०(योगमुद्रा) हस्तविन्यासविशेषाऽऽत्मक मुद्राभेदे, संघा० 1 प्रस्ता०॥ योगमुद्रायाः स्वरूपमाहअण्णोण्णंतरिअंगुलि-कोसाकारेहिँदोहिँ हत्थेहिं / पिट्टोवरि कोप्परसं-ठिएहिँ तइ जोगमुद्दत्ति / / 16 / / अन्योन्येन परस्परेण, अन्तरिता व्यवहिताः, अङ्गुलयः करशाखा ययोस्तौ, तथा तौ, कोशाऽऽकारौ च कमलकोरकाऽऽकृती, उभयजोटनेनान्योऽन्यान्तरिताडलिकोशाऽऽकारी, ताभ्याम् / द्वाभ्यां, हस्ताभ्यां कराभ्यां, करणभूताभ्याम् / पुनः किंभूताभ्यां ? पेट्टस्य उदरस्य, उपरि ऊवभागे, कूर्पराभ्यां कुहणिकाभ्यां, संस्थिती व्यवस्थितौ यौ तौ तथा ताभ्यां-पेट्टोपरिकूर्परसंस्थिताभ्याम् / तथा तेन प्रकारेणाऽऽचरणगम्येन, अथवा-पञ्चाङ्गप्रणिपातापेक्षया समुचयार्थस्तथाशब्दः / योगो हस्तयोर्योजनविशेषः, समाधिर्वा, तत्प्रधाना मुद्राऽङ्गन्यासविशेषो विघ्नविशेषव्ययोहनसमर्थो योगमुद्रा, भवतीति गम्यते। इतिशब्दो योगमुद्रालक्षणसमाप्तिसंसूचकः, उपप्रदर्शनार्थो वा'इत्येवंलक्षणा योगमुद्रेत्यर्थः / इतिगाथार्थः / / 16 || पञ्चा०३ विव०। दर्श०। योगमुद्रया किं कर्त्तव्यम् ? इत्याह थयपाठो होइ जोगमुद्दाए। (17) स्तवपाठः शक्रस्तवाऽऽदिपठनम् , भवति, कर्तव्य इति शेषः। कया ? इत्याह-योगमुद्रया प्रदर्शितलक्षणया। ननु चतुर्विंशतिस्तवाऽऽदेरेव पाठो योगमुद्रया विधेयो, न तु शक्रस्तवस्य, तर्हि किमर्थं समाकुचितवामजानुभूमिविन्यस्तदक्षिणजानुर्ललाटपट्टघटितकरकुइमलः पठतीति जीवाभिगमाऽऽदिष्वभिधीयत इति? सत्यम्। केवलं नानन्तरोक्तविशेषणयुक्त एव तं पठतीति नियमोऽस्ति, पर्यशाऽऽसनस्थः शिरोऽधिनिवेशितकरकोरकस्तं पठतीत्यस्यापि ज्ञाताधर्मकथासु दर्शनात् / तथा हरिभद्राऽऽचार्येणापि चैत्यवन्दनवृत्तौ-" क्षितिनिहितजानुकरतलो भुवनगुरौ विनिवेशितनयनमानसः प्रणिपातदण्डकं पठति " इत्यस्य विध्यन्तरस्याभिधानात् / ततोऽस्य पाठे विविधविधिदर्शनात्सर्वेषां च तेषां प्रमाणग्रन्थोक्तत्वेन, विनयविशेषभूतत्वेन च निषेद्भुमशक्यत्वाद् योगमुद्रयाऽपि शक्रस्तवपाठो न विरुध्यते, विचित्रत्वान्मुनिमतानाम्।न चैतानि परस्परमतिविरुद्धानि, सर्वरपि विनयस्य दर्शितत्वादिति। पञ्चा० 3 विव०। प्रव० / दर्श० / सङ्घा०। जोगरहिय-त्रि०(योगरहित) सम्यगकृतयोगो द्वहने, तदात्मके सूत्र दोषभेदे च / न० / ध०३ अधि०। जोगलोयण-त्रि०(योगलोचन) योग एव लोचनमक्षि यस्य / योगबलेन यथावस्थितवस्तुपरिज्ञानवति, यो० बिं०।। जोगवं-त्रि०(योगवत्) योजन योगो व्यापारः तद्वान् , अतिशायने मतुप। व्यापारवति, योगः समाधिः, सोऽस्यास्तीति योगवान्। प्रशंसायां मतुप् / समाधिमति, उत्त 11 / संयमाऽऽदियोगवति च। सूत्र०१ श्रु०२ अ० १उ०।