SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ जोगट्ठाण 1636 - अभिधानराजेन्द्रः भाग-४ जोगदिहि स्थानम् / वीर्याऽऽदिविभागांशसंघाते, कर्म०५ कर्म०1 (तद्वक्तव्यता' अप्पाबहुय शब्दे प्रथमभागे 656 पृष्ठे गता) जोगणिओग-पुं०(योगनियोग) द्व० स०। कार्मणवशीकरणाऽऽदि-प्रकारे, / योगनियोगैः कार्मणवशीकरणाऽऽदिप्रकारैरिति / तं० / जोगणिग्गह-पुं०(योगनिग्रह) कायोत्सर्गे," उस्सग्गो ति वा जोगणिग्गहो त्ति वा।" आ० चू० 5 अ०। जोगणिरोह-पुं०(योगनिरोध) योगाश्चौदारिकाऽऽदिशरीरसंयोगसमुत्था आत्मपरिणामविशेषव्यापारा एव, तेषां निरोधनं निरोधः प्रलयकरणम्, योगनिरोधः / मनोवाक्कायव्यापारप्रलयक रणे, स एव च जिनानां ध्यानम्।" जोगणिरोहो जिणाणं तु।" आव०४ अ०। आ०म०। जोगणिव्वत्ति-स्त्री०(योगनिर्वृति) योगनिष्यत्तौ, भ०१श०१ उला" | कइविहाणं भंते ! जोगणिव्वत्ती पण्णत्ता / गोयमा ! तिविहा पण्णत्ता। तं जहामणजोगणिव्वत्ती, वइजोगणिव्वत्ती, कायजोग-निव्वत्ती, एवं० जाव वेमाणिया जस्स जइविहो जोगो।" भ०१६ श०८ उ०। जोगत्तिय-न०(योगत्रिक) कृतकारितानुमतिरूपे व्यापारत्रिके, दश० १०अ०। जोगदिट्ठि-स्त्री०(योगदृष्टि) योगजप्रातिभज्ञाने, द्वा० 16 द्वा०।। मित्राऽऽदिकायां योगदृष्टौ च। ध० 1 अधि०। सच्छ्रद्धासंगतो बोधो, दृष्टिः सा चाष्टधोदिता। मित्रा तारा बला दीप्रा, स्थिरा कान्ता प्रभा परा।। 25 / / सच्छूद्धया शास्त्रबाह्याभिप्रायविकलसदहलक्षणाया, संगतो, बोधो, दृष्टिः, तस्या उत्तरोत्तरगुणाऽऽधानद्वारा सत्प्रवृत्तिपदाऽऽवहत्वात् / तदुक्तम्- " सच्छ्रद्धा संगतो बोधो, दृष्टिरित्वभिधीयते। असत्प्रवृत्तिव्याघातसत्प्रवृत्तिपदाऽऽवहः " / / 1 / / इति / सा चाष्टथोदिताभित्रा, तारा, बला, दीप्रा, स्थिरा, कान्ता, प्रभा, परा चेति // 25 / / तृणगोमयकाष्ठाग्नि-कणदीप्रप्रभोपमा। रत्नाताराऽर्कचन्द्राऽऽभा, क्रमेणेक्ष्वादिसन्निभा॥२६॥ मित्रा दृष्टिस्तृणाग्निकणोपमा, न तत्त्वतोऽभीष्टकार्यक्षमा, सम्य-क प्रयोगकालं यावदनवस्थानात् / अल्पवीर्यतया ततः पटुस्मृतिबीजसंस्काराऽऽधानानुपपत्तेः, विकलप्रयोगभावाद्भावतो वन्दनाऽऽदिकार्यायोगादिति / तारा दृष्टिगोमयाग्निकणसदृशी। इयमप्युक्तकल्पैव, तत्त्वतो विशिष्ट स्थितिवीर्यविकलत्वात् , अतोऽपि प्रयोगकाले स्मृतिपाटवासिद्धेः, तदभावे प्रयोगवैकल्यात् , ततस्तथा तत्कार्याभावादिति / बला दृष्टिः काष्ठाग्निकणतुल्या / ईषद्विशिष्टोक्तबोधद्वयात् / तद्भावेनात्र मनाक् स्थितिवीर्ये, अतः पटुप्राया स्मृतिः, इह प्रयोगसमये, तद्भावे चार्थप्रयोगमात्रप्रीत्या यत्नलेशभावादिति / दीपा दृष्टिीपप्रभासदृशी। विशिष्टतरोक्त-बोधत्रयात् / अतोऽत्रोदने स्थितिवीर्ये, तत्पट्क्यपि प्रयोगसमये स्मृतिः / एवं भावतोऽप्यत्र द्रव्यप्रयोगो वन्दनाऽऽदौ, तथा भक्तितो यत्नभेदप्रवृतेरिति प्रथमगुणस्थानकप्रकर्ष एतावानिति समयविदः। स्थिरा च भिन्नग्रन्थेरेव, सा च रत्नाभा, तदवबोधो हि रत्ननास्समानः, तद्भावोऽप्रतिपाती प्रवर्द्धमानो निरपायो नापरपरितापकृत् परितोषहेतुः प्रायेण प्रणिधानाऽऽदियोनिरिति। कान्ता ताराऽऽभा, तदवबोधस्ताराभारसमानः। अतः स्थित एव प्रकृल्या निरतिचारमत्रानुष्ठानं शुद्धोपयोगानुसारि विशिष्टाप्रमादसचिव विनियोगप्रधानं गम्भीरोदाराऽऽशयमिति / प्रभा अाभा / तदवबोधस्तरणिभास्समानः, सद्ध्यानहेतुरेव सर्वदा, नेह प्रायो विकल्पावसरः / प्रशमसारं सुखमिह, अकिञ्चित्कराण्यत्रान्यशास्त्राणि, समाधिनिष्ठमनुष्ठानं, तत्सन्निधौ वैराऽऽदिनाशः, परानुग्रहकर्तृता, औचित्ययोगो विनयेषु, तथाऽबन्ध्या सक्रियेति। परा तु दृष्टिश्चन्द्राऽऽभा। तदवबोधश्चन्द्रचन्द्रिकाभास्समानः, सद्ध्यानरूप एव सर्वदा, विकल्परहितं मनः, तदा भावेनोत्तमं सुखम् , आरूढाऽऽरोहणभावतोऽनुष्ठानं प्रतिक्रमणाऽऽदि, परोपकारित्वं, यथा भव्यमबन्ध्या क्रियेति, तथा क्रमेण मित्राऽऽद्यनुक्रमेणेक्ष्वादिसन्निभा दृष्टिरिक्षुरसकक्कबगुडकल्पाः खल्याद्याश्चतस्रः खण्डशर्करामत्स्यण्डवर्षोलकसमाश्चाग्रिमा इत्याचार्याः / इक्ष्वादिकल्पानामेव रुच्यादिगोचराणां संवेगमाधुर्यभेदोपपत्तेः, नलाऽऽदिकल्पानामभव्यानां संवेगमाधुर्यशून्यत्वादिति / / 26 // यमाऽऽदियोगयुक्तानां, खेदाऽऽदिपरिहारतः। अद्वेषाऽऽदिगुणस्थानां, क्रमेणैषा सतां मता // 27 // यमाऽऽदयो योगाङ्गवाद् योगाः / यथोक्तम्- " यमनियमाऽऽसनप्रणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानियोगस्येति। " (226) तैर्युक्तानां खेदाऽऽदीना ध्यानाभिधानस्थले प्रोक्तानां योगप्रत्यनीकाऽऽशयलक्षणानां परिहारतोऽद्वेषाऽऽदयो येऽष्टौ गुणाः / तदुक्तम्-" अद्वेषो जिज्ञासा, शुश्रूषा श्रवणबोधमीमांसाः / परिशुद्धा प्रतिपत्तिः, प्रवृत्तिरष्टाङ्गिकी तत्त्व / / 1 / / " इति। तत्स्थानां तत्प्रतिबद्धवृत्तीनां क्रमेणैषा दृष्टिः सतां भगवत्पतञ्जलिभदन्तभास्कराऽऽदीनां योगिनां मतेष्टा / / 27 // आद्याश्चतस्रः सापाय-पाता मिथ्यादृशामिह। तत्वतो निरपायाश्च, भिन्नग्रन्थेस्तथोत्तराः / / 28 / / आद्याश्चतस्रो मित्राऽऽद्या दृष्टयः, इह जगति, मिथ्यादृशां भवन्ति / सापायपाता दुर्गतिहेतुकर्मव तेन तन्निमित्तभावादपायसहिताः। कर्मवैचित्र्याद् भंशयोगेन, सपाताश्च, न तु सपाता एव, ताभ्यः तदुतरभावादिति। तथोत्तराश्चतस्रः स्थिराऽऽद्या दृष्टयो भिन्नग्रन्थेस्तत्त्वतः परमार्थतश्च निरपायाः, श्रेणिकाऽऽदीनामेतदभावोपात्तकर्मसामर्थ्य हि तस्यापावस्यापिसदृष्ट्यविधातेन तत्त्वतोऽनपायत्वाद् वजतन्दुलवत्पाकेन तदाशयस्य कायदुःखभावेऽपि विक्रियाऽनुपपत्तेः, योगाऽऽचार्या एवात्र प्रमाणम्। तदुक्तम्-"प्रतिपातयुताश्चाद्याश्चतस्त्रोनोत्तरास्तथा। सापाया अपि चैतास्तत् , प्रतिपातेन नेतरा // 1 // " इति // 28 // प्रयाणभङ्गाभावेन, निशि स्वापसमः पुनः। विघातो दिव्यभवत-श्वरणस्योपजायते / / 26 // प्रयाणस्य कान्यकुब्जाऽऽदावनवरतगमनलक्षणस्य, भङ्गाभावेन निशि रात्रौ, स्वापरसमः पुनर्विघातः प्रतिबन्धः, पुनर्दिव्यभवतः स्वर्गजन्मनः सकाशात् , चरणस्य चारित्रस्योपजायते।। 26 / / तादृश्यौदयिके भावे, विलीने योगिनां पुनः। जाग्रनिरन्तरगति-प्राया योगप्रवृत्तयः / / 30 // तादृशि स्वर्गगतिनिबन्धने सरागचारित्रदशायति, औदयिके भावे प्रशस्तरागाऽऽदिरूपे, विलीने पुनयाँ गिनां जाग्रतो या निरन्तरा गतयः, तत्प्राया योगिनां प्रवृत्तयो भवन्ति, अक्षेपेणैव
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy