SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ जोग 1636 - अभिधानराजेन्द्रः भाग - 4 जोग प्रभावजातिप्रभवस्वभावाः। केन क्रियन्ते भुवनेशिवगौश्चिरन्तनं कर्म निरस्य चित्राः? ||2|| विवर्य मासान्नवगर्भमध्ये, बहुप्रकारैः कललाऽऽदिभावैः। उद्बत्ये निष्काशयते सवित्र्याः, को गर्भतः कर्म विहाय पूर्वम् ?" // 3 // इत्यादि। "वीतरागोऽस्ति, सर्वज्ञः प्रमाणाबाधितत्वतः। सर्वदा विदितः सद्भिः , सुखाऽऽदिकमिव ध्रुवम्॥१॥ क्षीयते सर्वथा रागः, क्वापि कारणहानितः। ज्वलनो हीयते किं न, काष्ठाऽऽदीनां वियोगतः।२।। प्रकर्षस्य प्रतिष्ठान, ज्ञानं क्वापि प्रपठ्यते। परिमाणमिवाऽऽकाशे, तारतम्योपलब्धितः " // 3 // इत्यादि। अत्रैवाभ्युचयमाहकिं चान्यद् योगतः स्थैर्य ,धैर्य श्रद्धा च जायते। मैत्री जनप्रियत्वं च, प्रातिभं तत्त्वभासनम्॥ 52 / / किं च इत्यभ्युचये, अन्यत्प्रागुक्ताद्विलक्षणं योगफलमस्ति / तदेव दर्शयतियोगतो योगात् , स्थैर्य स्थिरभावः प्रतिपन्ननिर्वाहणो, धैर्य व्यसनाशनिसन्निपातेऽपि अविचलितप्रकृतिभावः, श्रद्धा च रुचिस्तत्वमार्गानुगा, जायते आविर्भवति, मैत्री सर्वसत्त्वेषु मित्रभावः, जनप्रियत्वं च शिष्टलोकवल्लभभावः, प्रातिभं सहजप्रतिभाप्रभवं, तत्त्वभासनं जीवादितत्त्वावलोकनं भवतीति / / 52 // तथा आ विद्वदङ्गनासिद्ध-मिदानीमपि दृश्यते। एतत्प्रायस्तदन्यत्तु, सुवबागमभाषितम् / / 55 / / आ विद्वदङ्गनासिद्धम्-आ-विद्वद्भ्यः आ-अङ्गनाभ्यश्च यो लोकः, तस्येत्यर्थः / सिद्धं प्रतीतम् , इदानीमपि दुःषमायां, किं पुनः सुषमदुःषमाऽऽदावित्यपिशब्दार्थः / दृश्यते अवलोक्यते, एतत् प्रागुक्तं योगफलं. प्रायो बाहुल्येन, तदन्यत्तूक्तादन्यत् पुनर्योगफलं, सुबहु अतिभूरि, आमर्षांषध्यादिकं हि प्राप्तिरूपम् , आगमभाषितम्आवश्यकनियुक्त्यादिनिरूपितम् / यदुक्तंतत्र" आमोसहि विप्पोसहि-खेलोसहि जल्लमोसही चेव। संभिन्नसोय उजुमइ, सव्वोसहि चेव बोधव्यो॥६८।। चारण आसीविस के-वली य मणणाणिणो य पुव्वधरा। अरहंत चकवट्टी, बलदेवा वासुदेवा य" / / 66 // इति। " अलौल्यमारोग्यमनिष्टुरत्वं, गन्धः शुभो मुत्रपुरीषमल्पम्। कान्तिः प्रसादः स्वरसौम्यताच, योगप्रवृत्तेः प्रथमं हि लिङ्गम् // 11 // मैत्र्यादियुक्तं विषयेषु चेतः, प्रभाववद्धैर्यसमन्वितं च। द्वन्द्वैरधृष्यत्वमभीष्टलाभो, जनप्रियत्वं च तथा परं स्यात्॥२॥ दोषव्यपायः परमाचतप्तिरौचित्ययोगः समता च गुर्वी। वैराऽऽदिनाशोऽथ कृतंभरा धीः, निष्पन्नयोगस्य तु चिह्नमेतत्" // 3 // __अथोक्तादेव योगफलात्तत्त्वान्तरप्रसिद्धयर्थमाहन चैतद्भूतसङ्घात-मात्रादेवोपपद्यते। तदन्यद्भेदकाभावे, तद्वैचित्र्याप्रसिद्धितः॥५६॥ न च चैव, एतद्योगमहात्म्यं भावयोगिषूपलभ्यमानं, भूतसङ्घातमात्रादेव पृथिव्यादिमहाभूतसङ्घातात् केवलादात्माऽऽदिरूपतत्त्वान्तरशून्यात् , उपपद्यते घटते / कुतः ? इत्याह-तदन्यभेदकाभावेतस्माद् भूतसङ्घाताद् यदन्यत्तत्त्वान्तरमात्मकाऽऽदिलक्षणं, भेदकं विशेषकारि, तस्याभावे तद्वैचित्र्याप्रसिद्धितः, तेषां भूतसालानां कायाऽऽकारपरिणतानामपि, वैचित्र्यस्य नानात्वस्य, योगमाहात्म्ययुक्तत्वेतरलक्षणस्य, अप्रसिद्धेरघटनात्। अतो बलात् अनुमिमीमहे भूतसङ्घातारिक्तं विचित्रशक्तिसङ्गतं तत्त्वान्तरं समस्ति, यद-शादयं योगमाहात्म्यभावाभावलक्षणो भेदः संपद्यते॥५६॥ यो० बिं०। __ अथ निगमयन्नाहएवं च तत्त्वसंसिद्धे-योगे एव निबन्धनम्। अतो यनिश्चितैवेयं, नान्यतस्त्वीदृशी क्वचित्॥६४ // एवं चोक्तन्यायेनैव, तत्त्वसंसिद्धेः-आत्मादृष्टाऽऽदिप्रतीतेः, योग एव नापरं किशिद् , निबन्धनं हेतुर्वर्तते / एतदपि कुतः ? इत्याह-अतः योगात् , यत् यस्मात् , निश्चितैव अविपर्यासवत्येव, इयं तत्त्वसिद्धिः स्याद् , न नैव, अन्यतोऽन्यस्माद्वादप्रतिवादाऽऽदेः, तुः पुनरर्थे, ईदृशी निश्चितरूपा तत्त्वसंसिद्धिः, क्वचित् क्षेत्राऽऽदौ / 64 / (28) अतोऽत्रैव महान् यत्न-स्तत्तत्तत्त्वप्रसिद्धये। प्रेक्षावता सदा कार्यो, वादग्रन्थास्त्वकारणम् / / 65 / / विनिवृत्ताऽऽग्रहत्वं च, तथा दन्द्रसहिष्णुता। तदभावश्च लाभश्च, बाह्यानां कालसङ्गतः।। 53 / / विनिवृत्ताऽऽग्रहत्वं च निर्मुक्तानुचितार्थाभिनिवेशित्वं च, तथा द्वन्द्वसहिष्णुता निरुपक्रमक्लिष्टकर्मोदयाऽऽपादितानामिष्ठवियोगानिष्टसंप्रयोगाऽऽदीनां व्यसनानां सम्यक् सहनभावः / तदभाव श्व द्वन्द्वविनाशश्च प्रायः परिशुद्धयोगोपहतशक्तिकत्वाद् द्वन्द्वसंपादकोपायानाम् , लाभश्च प्राप्तिश्च बाह्यानां निर्वाहाऽऽदीनां समाधिहेतूनां, कालसङ्गतो यो यत्र काले योग्य इति / / 53 // तथाधृतिः क्षमा सदाचारो, योगवृद्धिः शुभोदया। आदेयता गुरुत्वं च, शमसौख्यमनुत्तरम् / / 54 / / धृतिर्येन केनचि व्यसनभोजनाऽऽदिना निर्वाहमात्रनिमित्तेन सन्तोषः / क्षमा सत्येतरदोषश्रवणेन कार्यतत्त्वमविचार्यान्तर्बहिश्च कोपोदयाद् विक्रियामापाद्यमानस्याऽऽत्मनो निरोधनम् / सदाचारः सर्वोपकारप्रियवचनाकृत्रिमोचितस्नेहाऽऽदिका सज्जनचेष्टा / योगवृद्धिः सम्यग्दर्शनाऽऽदिमुक्तिबीजोत्कर्षरूपा / शुभोदया प्रशस्तफलोद्गमहेतुः / धृत्यादेः प्रत्येकविशेषणमेतत्। आदेयतापरैरादरणीयवचनचेष्टनरूपता। गुरुत्वं च सर्वत्र गौरवलाभलक्षणम्। तथा शमसौख्यमतिमन्दीभूतकषायविषदोषतया प्रशमशर्म / अनुत्तरं विषयसेवाजनिताऽऽनन्दात्निशायि। यतः पठ्यते-" निर्जितमदमदनानां, वाक्कायमनोविकाररहितानाम्। विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् // 1 // इति / अत्र च "लोकत्रये चकारास्तथाशब्दश्च समुच्चयार्थः / / 54 / /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy