________________ जोग 1635 - अभिधानराजेन्द्रः भाग - 4 जोग तथादेवान गुरून द्विजान् साधून , सत्कर्मस्या हि योगिनः। प्रायः स्वप्ने प्रपश्यन्ति, हृष्टान् सन्नोदनापरान् / / 44 // देवान्-आराध्यतमान जिनाऽऽदीन् , गुरून् धर्माऽऽचार्याऽऽदीन् , मातापित्रादीन् वा, द्विजान् लब्धदीक्षानामकद्वितीयद्वितीयजन्मनो मुनीन् , साधून शेषशिष्टलौकान् , सत्कर्मस्थाः स्वसिद्धान्ताविरुद्धक्रियास्थिताः, हिः प्राग्वद् , योगिनो योगाभ्यासपराः प्राणिनः, किम् ? इत्याह-प्रायो बाहुल्येन, स्वप्ने प्रतीतरूपे एव, प्रपश्यन्ति प्रेक्षन्ते, हृष्टान हर्षवतः, तथा सन्नोदनापरान् शुद्धार्थविषयप्रेरणपरायणान् / / 44 / / नचासौ भ्रान्तेति भावयन्नाहनोदनाऽपि च सा यतो,यथार्थवोपजायते। तथाकालाऽऽदिभेदेन, हन्त ! नोपप्लवस्ततः॥ 45 / / नोदनाऽपि च न केवलं देवतादर्शनाऽऽदि, सा देवाऽऽदिकृता, यतो यस्मात्कारणात् , यथार्थव सूचितप्रयोजनफलैवोपजायते / कथम् ? इत्याह-तथाकालाऽऽदिभेदेन तत्प्रकारकालक्षेत्रमावविशेषेण, हन्त ! इति प्राग्वत् / न नैव, उपप्लवः वाताऽऽदिधातुविकारजनितश्चित्तसंक्षोभो वर्तते प्रेरणा, ततो यथार्थत्वाद हेतोः, न हि यथार्थफलभाजः प्रतिभासा अविसंवादिरूपत्वाल्लोके उपप्लवरूपता लभन्ते, किंतु सत्यरूपतामेवेति // 45 // तथास्वप्नमन्त्रप्रयोगाच, सत्यः स्वप्नोऽभिजायते। विद्वज्जनेऽविगानेन, सुप्रसिद्धमिदं तथा / / 46 / / स्वप्नमन्त्रप्रयोगाचस्वप्नलाभफलो मन्त्रविषयः, तत्प्रयोगात् . चकाराच्छुद्धयोगाच्च, सत्यः स्वप्नो यथार्थः स्वप्नः, अभिजायते आविर्भवति, एतदेव द्रढीकुर्वन्नाह-विद्वज्जने मतिमल्लोके, अविगानेनाविप्रतिपत्त्या, सुप्रसिद्धभतीव ख्यातिमागतम् , इदं स्वप्नमन्त्रप्रयोगात्सत्यः स्वप्नो जायत इत्येतत्,तथा तेन प्रकारेण // 46 // नैवंभूतहेतुकोऽयं व्यवहार इति दर्शयतिन ह्येतद्भूतमात्रत्व-निमित्तं संगतं वचः। अयोगिनः समध्यक्षं, यन्नैवंविधगोचरम् / / 47 // न हि नैव, एतदुक्तरूपं देवतादर्शनाऽऽदि, भूतमात्रत्वनिमित्तं भूतमात्रत्वं केवलभूतभाव एव, निमित्तं हेतुर्यस्य तत्तथा, इत्येवं परेण प्रवर्तमानं, सङ्गतं घटमानकं, वचो वचनम् , एतत्स्वप्नदर्शनाऽऽदि, यत्कश्चिद् भूतमात्रमित्युच्यते, तदसङ्गतं वच इत्यर्थः / कुतः? इत्याहअयोगिनोऽर्वागदर्शिनः प्रमातुः, समध्यक्ष प्रत्यक्षं चाक्षुद्राऽऽदि, यत् यस्माद् , नैव, एवंविधगोचरम्-एवंविधाः स्वप्नदर्शनाऽऽदिरतीन्द्रियोऽर्थो भूतमात्रनिमित्तो, न तु देवताऽनुग्रहमन्त्रप्रयोगाऽऽदिनिमित्तक इत्यादिकोऽर्थो गोचरो विषयो यस्य ततथा। इदमुक्तं भवतिछद्मस्थस्य पृथिव्यादिरूपभूतमात्रपरिहारेणातीन्द्रिये देवताऽऽदावर्थे विधिप्रतिषेधयोः प्रत्यक्षमक्षममेव, तस्य तदविषयत्वादिति / / 47 // एतदेव भावयतिप्रलापमात्रं च वचो, यदप्रत्यक्षपूर्वकम्। यथेहाप्सरसः स्वर्गे, मोक्षे चाऽऽनन्द उत्तमः।। 48|| प्रलापमात्रमनर्थकमेव, चः समुचये ; वचो वचनम्। कीदृशम् ? इत्याहयदप्रत्यक्षपूर्वक प्रत्यक्षेणानुपलभ्य यद्भाषितम्। दृष्टान्तमाह-यथा इह | मर्त्यलोके, कश्चिद् वक्ति असर्वज्ञवादी मीमांसकाऽऽदिः, अप्सरसो मेनकारम्भाऽऽद्याः स्वर्गे सन्ति, मोक्षे च मुक्तौ पुनरानन्द आह्लादः, उत्तमः सर्वातिशायी ; साक्षादृष्ट हि वाच्य अप्सरःप्रमुखे ब्रुवाणो मीमांसकाऽऽदिः प्रलापमात्रकार्येव स्यात् , एवं नास्तिकोऽप्यतीन्द्रियं देवताऽऽदिकं निह्ववान इति / अथैवमनवकाशीकृतः कदाचित्परलोकसंशयवादी, मीमांसको वा ब्रूयात् ? / / 48 / / यथायोगिनो यत्समध्यक्षं, ततश्चेदुक्तनिश्चयः। आत्माऽऽदेरपि युक्तोऽयं, तत एवेति चिन्त्यताम् / / 46 // योगिनो दिव्यदृशः प्रमातुः, यत्समध्यक्षं प्रत्यक्षज्ञानं, ततस्तत्समध्यक्षाद, चेद् यदि, उक्तनिश्चयः-अप्सरसः स्वर्गे, मोक्षे चाऽऽनन्द इति प्रामुक्तार्थनिर्णयो जायते, एवं तर्हि आत्माऽऽदेरप्यतीन्द्रियार्थस्य। किं पुनः प्रस्तुतस्य ? इत्यपिशब्दार्थः / युक्तो घटमानोऽयं निश्चयः, तत एव योगिसमध्यक्षादेव, इत्येतच्चिन्त्यतां विमृश्यता-मिति // 4 // एतदेव भावयतिअयोगिनो हि प्रत्यक्ष-गोचरातीतमप्यलम्। विजानात्येतदेवं च, बाधाऽत्रापि न विद्यते / / 50 / / अयोगिनोऽर्वाग्दृशः प्रमातुः, हिर्यस्मात् प्रत्यक्षगोचरातीतमपि ऐन्द्रियकाध्यक्षविषयभावातिक्रान्तमपि आत्माऽऽदि वस्तु, किं पुनरितररूपम् ? इत्यपिशब्दार्थः / अलमत्यर्थम् , हस्ततलन्यस्तनिस्तलस्थूलमुक्ताफलावलोकनोदाहरणेन, विजानाति प्रेक्षते / एतद्योगिसमध्यक्ष, दिव्यदर्शनत्वात्तस्य। यदि नामैवं ततः किं सिद्धम् ? इत्याह-एवं च अस्मिश्च प्रकारे सति, बाधा अघटनालक्षणा, अत्रापि आत्माऽऽदिनिश्चये, न केवलमप्सरःप्रभृतावर्थे, इत्यपिशब्दार्थः। न विद्यते नास्ति / / 50 // (27) इत्यमागमगम्यत्वमभिधायाधुनाऽनुमानविषयत्वमाहआत्माऽऽद्यतीन्द्रियं वस्तु,योगिप्रत्यक्षमावतः। परोक्षमपि चान्येषां, न हि युक्त्या न युज्यते / / 51 / / आत्माऽऽदि आत्मकर्मसर्वज्ञाऽऽदि, अतीन्द्रियमिन्द्रियविषयभावातीतं वस्तु, न हिन, युज्यते इत्युत्तरेण योगः। कीदृशम् ? इत्याहयोगिप्रत्यक्षभावतः सर्वज्ञज्ञानविषयभावने, परोक्षमपि च इन्द्रियज्ञानागोचरमपि, किं पुनरपरोक्षम् ? इत्यपिचशब्दार्थः / अन्येषामस्मादृशाम् अर्वागदृशां, न हि नैव, युक्त्या शुद्धहेतुप्रयोगरूपया, न युज्यते, किं तु युज्यत एव। तत्रयुक्तिः" अचेतनानि भूतानि, नतद्वर्मो न तत्फलम्। चेतनाऽस्ति च यस्येह, स एवाऽऽत्मेति बुध्यताम् // 1 // यदीयं भूतधर्मः स्यात् , प्रत्येक तेषु सर्वदा। उपलभ्येत सत्त्वाऽऽदि, कठिनत्याऽऽदयो यथा // 2 // काठिन्यादिस्वभावानि, भूतान्यध्यक्षसिद्धितः। चेतना तु न तद्रूपा, सा कथं तत्फलं भवेत्॥३॥" इत्यादि। "तुल्यप्रतापोद्यमसाहसानां, केचिल्लभन्ते निजकार्यसिद्धिम्। परेन तामत्र निगद्यतां मे कर्मास्ति हित्वा यदि कोऽपि हेतुः॥१॥ विचित्रदेहाऽऽकृतिवर्णगन्ध