________________ जोग 1634 - अभिधानराजेन्द्रः भाग - 4 जोग निकाचितानामपि यः, कर्मणां तपसा क्षयः / सोऽभिप्रेत्योत्तमं योग-मपूर्वकरणोदयम् // 24 / / निकाचितानामपि उपशमनाऽऽदिकरणान्तसंयोज्यत्वेन व्यवस्थापितनामपि, कर्मणां यस्तपक क्षयो, भणित इति शेषः / "तवसा उ निकाइआणं पि, " इति वचनात् / सोऽपूर्वकरणोदयम् , उत्तमं योगं धर्मसंन्यासलक्षणमभिप्रेत्य, न तु यत्किश्चित्वप इति द्रष्टव्यम् / तत्त्वमत्रत्यमध्यात्मपरीक्षाऽऽदौ विपश्चितम्।। 24 / / अपि क्रूराणि कर्माणि, क्षणाद् योगः क्षिणोति हि। ज्वलनो ज्वालयत्येव, कुटिलानपि पादपान् / / 25 // दृढप्रहारिशरणं, चिलातीपुत्ररक्षकः। अपि पापकृतां योगः, पक्षपातान्न शङ्कते / / 26 / / अहर्निशमपि ध्यातं, योग इत्यक्षरद्वयम्। अप्रवेशाय पापानां, धूवं वज्रार्गलायते / / 27 // आजीविकाऽऽदिनाऽर्थेन, योगस्य च विडम्बना। पवनाभिमुखस्थस्य, ज्वलनज्वालनोपमा // 28 // योगस्पृहाऽपि संसार-तापव्ययतपात्ययः। महोदयसरस्तीर-समीरलहरीलवः ||29|| योगानुग्राहको योऽन्यैः, परमेश्वर इष्यते। अचिन्त्यपुण्यप्राग्भार-योगानुग्राह्य एव सः॥ 30 // भरतो भरतक्षोणी, भुञ्जानोऽपि महामतिः ! तत्कालं योगमाहात्म्याद् , बुभुजे केवलश्रियम् // 31 // पूर्वमप्राप्तधर्माऽपि परमाऽऽनन्दनन्दिता। योगप्रभावतः प्राप, मरुदेवा परं पदम् // 32 / / अष्टश्लोकी सुगमा / द्वा०२६ द्वा०॥ योगमाहात्म्यमेवाऽऽहयोगः कल्पतरुः श्रेष्ठो,योगश्चिन्तामणिः परः। योगः प्रधानं धर्माणां, योगः सिद्धेः स्वयं ग्रहः / / 37 / / योग उक्तो निरुक्तः, कल्पतरुः कल्पद्रुमः, श्रेष्ठोऽन्यकल्पद्रुभेभ्योऽतिशायी। तथा योगश्चिन्तामणिश्चिन्तारत्नं, परः प्रकृष्टः, योगः प्रधान वस्तु, धर्माणां शेषधर्मस्थानानाम्। तथा योगः सिद्धेर्निवृत्तिलक्षणायाः, स्वयंग्रहहेतुत्वात्स्वयंग्रहः / यदत्र पुनः पुनर्योगशब्दोपादानं तदस्यात्यन्तमादरणीयताख्यापनार्थमिति / / 37 / / तथा च जन्मबीजाग्नि-र्जरसोऽपि जरा परः। दुःखानां राजयक्ष्माऽयं, मृत्योर्मृत्युरुदाहृतः / / 38|| तथा चेति समुचये, जन्मबीजाग्निः पुनःपुनर्जन्मकारणकर्म शक्तिदाहकारी, तथा जरसोऽपि जराया अपि, जरा, वयोहानिकारणत्वात् , परा प्रकृष्टा / तथा दुःखानां शारीरमानसाऽऽबाधारूपाणां, राजयक्ष्मा राजमान्द्यमिव, अयं योगः,तथा मृत्योरन्तकस्य मृत्युरुदाहृतः शास्त्रकारैर्निरूपितः // 35 // किञ्चकुण्ठीभवन्ति तीक्ष्णानि, मन्मथास्त्राणि सर्वथा। योगवर्माऽऽवृते चित्ते, तपश्छिद्रकराण्यपि।। 36 // कुण्ठीभवन्ति मन्दानि जायन्ते, तीक्ष्णानि निशितानि, मन्मथा-स्त्राणि कामशस्त्राणिशब्दाऽऽदिविषयरूपाणि, सर्वथा सर्वप्रकारैः / क्व? इत्याहयोगवर्माऽऽवृते योगसंन्नाहवति, चित्ते मनसि / कीदृशानि? इत्याहतपश्छिद्रकराण्यपि मासक्षपणाऽऽदितपोभंशकारीण्यपि, तथाविधयोगविकलानां तपस्विनामिति / / 36 / / अक्षरद्वयमप्येतत् , श्रूयमाणं विधानतः। गीतं पापक्षयायोचैोगसिद्धैर्महात्मभिः // 40 // अक्षरद्वयमपि, किं पुनः पञ्चनमस्काराऽऽदीन्यनेकान्यक्षराणीत्यपिशब्दार्थः ? एतद् योग इति शब्दलक्षण, भूयमाणमाकर्ण्यमानं, तथाविधार्थानवबोधेऽपि विधानतो विधानेन, श्रद्धासंवेगाऽऽदिशुद्धभावोल्लासकरकुमलयोजनाऽऽदिलक्षणेन, गीतमुक्तं, पापक्षयाथ मिथ्यात्वमोहाऽऽद्यकुशलकर्मनिर्मूलनाय उच्चैरत्यर्थम् / कैर्गीतम् ? इत्याह-योगसिद्धोगः सिद्धो निष्पन्नो येषां ते तथा, तैर्जिनगणधराऽऽदिभिः, महात्मभिः प्रशस्तस्वभावैरिति॥ 40 // तथामलिनस्य यथा हेम्नो, वह्नः शुद्धिर्नियोगतः। योगाग्नेश्चेतसस्तद्र-दविद्यामलिनाऽऽत्मनः।। 41 / / मलिनस्य ताम्राऽऽदिमलबहुलस्य, यथेति दृष्टान्तार्थः / हेम्नः सुवर्णस्य, वहृवैश्वानरात , शुद्धिर्निर्मलता, नियोगतो नियमेन, शुद्धकारणानां स्वकार्याव्यभिचारात् / योगाग्नेर्योगवढेः, चेतसो मनसः, शुद्धितः, तद्वद्धेमवत् / कीदृशो मनसः ? इत्याह-अविद्यामलिनाऽऽत्मनः सद्भूतवस्तुविषयभ्रान्तिवशाशुद्धभूितस्वरूपस्ये-ति।। 41 / / तथाअमुत्र संशयाऽऽपन्न-चेतसोऽपि ह्यतो ध्रुवम्। सत्स्वप्नप्रत्ययाऽऽदिभ्यः, संशयो विनिवर्तते।। 42 / / अमुत्र परलोकविषये, संशयाऽऽपन्नचेतसो भवान्तरं समस्ति, न वेति भ्रान्तमनसः, किं पुनरन्यस्येत्यपि हीतिशब्दार्थः / अतो योगा-द् . धुवमसंशय, सत्स्वप्नप्रत्ययाऽऽदिभ्यः, सत्स्वप्नानिद्रायमाणावस्थायां स्वर्गाऽऽदिभवान्तरदर्शनलक्षणाऽऽख्यः प्रत्ययः प्रतीतिर्भवान्तरस्य, आदिशब्दान्निजोहापोहतथाविधाऽऽगमाभ्यासजन्यप्रत्ययग्रहः, तेभ्यः सकाशात् , संशयः संदेहो, विनिवर्त्तते उपरमिति / / 42 // शुद्धसमाचारा हि साधवः सत्स्वप्नलाभेन निजोहापोहयोगेन, सदागमाभ्यासेन च, प्राक् संशयितमनसोऽपि व्यावर्तितविपर्यासहेतुमिथ्यात्वाऽऽदिमोहोदया अभ्रकगृहान्तज्वलितप्रदीपप्रभोदाहरणेन भवान्तरं निर्णयन्त्येवेति। न च वक्तव्यं स्वप्नोऽपि कथं लभ्यते इति? यत:श्रद्धालेशान्नियोगेन, बाह्ययोगवतोऽपि हि। शुक्लस्वप्ना भवन्तीष्ट-देवतादर्शनाऽऽदयः।। 43 / / श्रद्धालेशाद् बहुमानाङ्गाद् , नियोगेन नियमेन, बाह्ययोगवतोऽपि तथाविधोपयोगशून्यतया भावयोगानुरूपक्रियामात्रयुक्तस्य, किं पुनरबाह्ययोगयत इत्यपि हीतिशब्दार्थः / किम् ? इत्याह-शुक्लस्वप्ना अमलीमसाः स्वप्नाः, भवन्ति जायन्ते, इष्टदेवतादर्शनाऽऽदयःदिवसाऽऽरब्धाऽऽराधनजिनगुरुधार्मिकदर्शनाऽऽदिल-क्षणा // 43 //