________________ जोग 1633 - अभिधानराजेन्द्रः भाग - 4 जोग प्रवृत्तौ पुरस्करणीयं, न तु क्वचिदप्यंशेऽनादरणीयम् / यद् यस्माद् , विचिकित्सायाः-युक्त्या समुपपन्नेऽपि मतिव्यामोहोत्पन्नचितविप्लुतिरूपायाः, समाधेः चित्तस्वास्थ्यरूपस्य, ज्ञानदर्शनचारित्राऽऽत्मकस्य वा, प्रतिकूलता विरोधिताऽस्ति। अर्थो हि त्रिविधःसुखाधिगमो, दुरधिगमोऽनधिगमश्चेति श्रोतारं प्रति भिद्यते। आद्यो यथाचक्षुष्मतश्चित्रकर्मनिपुणस्य रूपसिद्धिः, द्वितीयः सैवानिपुणस्य, तृतीयस्त्वबन्धस्येति / तत्र प्रथमचरमयोनास्त्येव विचिकित्सा, निश्चयादसिद्धेश्च / द्वितीये तु देशकालस्वभावविप्रकृष्ट धर्माधर्माऽऽदौ भवन्ती सा महानर्थकारिणी / यदागमः- " वितिगिं; समावन्नेण अप्पाणेणं णो लहति समाहिं / " अतश्चित्तशुद्ध्यर्थं शास्त्रमेवाऽऽदरणीयमिति भावः / यत उक्तम्- " मलिनस्य यथाऽत्यन्तं, जलं वस्त्रस्य शोधनम् / अन्तःकरणरत्नस्य, तथा शास्त्र विदुर्बुधाः " / / 228 // (यो०बि०) // 20 / / द्वा०१४ द्वा०। (24) आत्माऽऽदिप्रत्ययं विना न सिद्धिरित्युपक्रम्यसद्योगाऽऽरम्भकस्त्वेनं, शास्त्रसिद्धमपेक्षते। सदा भेदः परेभ्यो हि, तस्य जात्यमयूरवत् // 26 // सद्योगाऽऽरम्भकस्तु सानुबन्धयोगाऽऽरम्भक एव, एनमात्माऽऽदिप्रत्ययं, शास्त्रसिद्धमतीन्द्रियार्थसार्थसमर्थनसमर्थाऽऽगमप्रतिष्ठितम्, अपेक्षतेऽवलम्बते / परेभ्यो हि असद्योगाऽऽरम्भकेभ्यो हि, तस्य सद्योगाऽऽरम्भकस्य, सदा भेदो वैलक्षण्यं, जात्यमयूरवत् सर्वोपाधिविशुद्धमयूरवत्। यथाहि-जात्यमयूरोऽजात्यमयूरात् सदैव भिन्नः, तथा सद्योगाऽऽरम्भकोऽप्यन्यस्मादिति भावना। तदुक्तम्-" न च सद्योगभव्यस्य, वृत्तिरेवंविधाऽपि हि। न जात्यजात्यधर्मान् यजात्यः सन् भजते शिखी " / 241: (यो० बिं०) // 26 / / यथा शक्तिस्तदण्डाऽऽदौ, विचित्रा तद्वदस्य हि। गर्भयोगेऽपि मातृणां, श्रूयतेऽत्युचिता क्रिया / / 30 // यथा तदण्डाऽऽदौ जात्यमयूराण्डयक्षुचरणाऽऽद्यवयवेषु, शक्तिः विचित्राऽजात्यमयूरावयवशक्तिविलक्षणा, तद्बदस्य हि सद्योगाऽऽरम्भकल्पाऽऽदित एवाऽऽरभ्येतरेभ्यो विलक्षणा शक्तिरित्यर्थः / यत उक्तम्-" यश्चात्र शिखिदृष्टान्तः, शास्त्रे प्रोक्तो महात्मभिः / स तदण्डरसाऽऽदीना, सच्छक्त्यादिप्रसाधनः " / / 245 / / इति (यो०बि०) | अत एव सद्योगाऽऽरम्भकस्येति गम्यम् / मातृणां जननीनां, गर्भयोगोऽपि किं पुनरुत्तरकालः ? इत्यपिशब्दार्थः / श्रूयते निशम्यते, शास्त्रेषु अत्युचिता लोकानामतिश्लाघनीया, किया प्रशस्तमाहात्म्यलाभलक्षणा। यत एवं पठ्यते-"जणणी सव्वत्थ वि णिच्छएसुसुमइति / तेण सुमइ जिणो। " (43 गाथा) तथा- ' गब्भगए जं जणणी, जायसुधम्म त्ति तेण धम्मजिणो।"(४७ गाथा) तथा-"जाया जणणी जं सुव्वय ति मुणिसुव्वओ तम्हा।" (50 गाथा) (आव० 2 अ०) इत्यादि / इदं गर्भावस्थायामुक्तम्। उत्तरकालेऽप्यत्युचितैव तेषां क्रिया। यत उक्तम्-" औचित्याऽऽरम्भिणोऽक्षुद्राः, प्रेक्षावन्तः शुभाऽऽशयाः / अबन्ध्यचेष्टाः कालज्ञाः, योगधर्माधिकारिणः / / 244 / / (यो० बिं०) इति। तदेवं सिद्धः सद्योगाऽऽरम्भक इतरेभ्यो विलक्षणः, स चाऽऽत्माऽऽदिप्रत्ययमपेक्षत एवेति / / 30 // द्वा०१४ द्वा०। (25) योगस्य फलं कर्मक्षयः, तथा च कर्माण्यधिकृत्य क्लेशाः पापानि कर्माणि, बहुभेदानि नो मते। योगादेव क्षयस्तेषां,न भोगादनवस्थितेः॥३१॥ ततो निरुपम स्थान-मनन्तमुपतिष्ठते। भवप्रपञ्चरहितं, परमाऽऽनन्दमेदुरम्।। 32 // नोऽस्माकं, मते, पापान्यशुभविपाकानि, बहुभेदानि विचित्राणि, कर्माणि ज्ञानाऽऽवरणीयानि, क्लेशा उच्यन्ते / अतः कर्मक्षय एव क्लेशहानिरिति भावः / ननु- " नामुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि / अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् // 1 // " इति वचनाद्भोगादेव कर्मणां क्षये तस्याप्यपुरुषार्थत्वमनिवारितमेवेत्यत आह-योगादेव ज्ञानक्रियासमुच्चयलक्षणात् क्षयः, तेषां नानाभवाजितानां प्रचितानां, न भोगादनवस्थितेर्भोगजनितकर्मान्तरस्यापि भोगनाश्यत्वादनवस्थानात् / ननु निरभिष्वङ्गभोगस्य न कर्मान्तरजनकत्वं, प्रचितानामपि च तेषां क्षयो योगजादृष्टाधीनकायव्यूहबलादुत्पत्स्यत इति चेत् / न / प्रायश्चित्ताऽऽदिनाऽपि कर्मनाशोपपत्तेः कर्मणां भोगेतरनाश्यत्वस्यापि व्यवस्थितौ योगेनापि तन्नाशसंभवे कायव्यूहाऽऽदिकल्पने प्रमाणाभावात् / कर्मणां ज्ञानयोगनाश्यतायाः- " ज्ञानाग्निः सर्वकर्माणि, भस्मसात् कुरुतेऽर्जुन !" इति भवदागमेनापि सिद्धत्वात् / नराऽऽदिशरीरसत्त्वे शूकराऽऽदिशरीरानुपपत्तेः कायव्यूहानुपपत्तेर्मनोऽन्तरप्रवेशाऽऽदिकल्पने गौरवाचा ये त्वाहुः पातञ्जला:-अग्नेः स्फुलिङ्गानामिव कायय्यूह-दशायामेकस्मादेव चित्तात्प्रयोजकान्नानाचित्तानां परिणामोऽस्मितामात्रादिति / तदुक्तम्" निर्माणचित्तान्यस्मितामात्रात् / " (4-4)" प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषामिति। "(4-5) तेषामप्यनन्तकालप्रचितानां कर्मणां नानाशरीरोपभोगनाश्यत्व कल्पनं मोह एव। तवदृष्टानां युगपवृत्तिलाभस्याप्यनुपपत्तेरिति निरुपक्रमकर्मणामेव भोगैकनाश्यत्वमाश्रयणीयमिति सर्वमवदातम् / / 31 // तत इति व्यक्तम्॥३२॥ द्वा० 25 द्वा० / (26) योगस्य प्रेक्षावत्प्रवृत्त्यौपयिकं माहात्म्यमुपदर्शयन्नाहशास्त्रस्योपनिपद्योगो, योगो मोक्षस्य वर्तिनी। अपायशमनो योगो, योगः कल्याणकारणम् / / 1 / / संसारवृद्धिधनिना, पुत्रदाराऽऽदिना यथा। शास्त्रेणापि तथा योग, विना हन्त ! विपश्चिताम् / / 2 / / इहापिलब्धयश्चित्राः, परत्र च महोदयः। पराऽऽत्माऽऽयत्तता चैव, योगकल्पतरोः फलम् / / 3 / / योगसिद्धः श्रुतेष्वस्य, बहुधा दर्शितं फलम् / दय॑ते लेशतश्चैतद् , यदन्यैरपि दर्शितम्॥४॥ इयं चतुश्लोकी सुगमा। द्वा०२६ द्वा०। प्रायश्चित्तं पुनर्योगः, प्राग्जन्मकृतपाप्मनाम्। अब्धीनां निश्चयादन्तः-कोटाकोटिस्थितेः किल / / 23 / / प्राग्जन्मकृतपाप्मनां पुनः प्रायश्चित्तं योगः, तन्नाशकत्वात्तस्य / तथा किले ति सत्ये, अब्धीनां सागरोपमाणाम् , अन्तःकोटाकोटिस्थितेर्निश्चयादपूर्वकरणाऽऽरम्भेऽपि तावत्स्थितिककर्मसद्भावाऽऽवश्यकत्वस्य महाभाष्याऽऽदिप्रसिद्धत्वात् , तस्य च धर्मसंन्यासैकनाश्यत्वादिति।। 23 / /