SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ जोग 1632- अभिधानराजेन्द्रः भाग-४ जोग दोषगुणाभ्यां ग्राहकयोरपि, तथा प्रकृतेऽपि योगदृष्टिभेद इति भावनीयम्। एतन्निबन्धनोऽयं दर्शनभेद इति योगाऽऽचार्याः / न खल्वयं स्थिराऽऽदिदृष्टिमतां भिन्नग्रन्थीनां योगिनां यथाविषयं नयभेदावबोधात्प्रवृत्तिरप्यमीषां परार्थं शुद्धबोधभावेन विनिवृत्ताऽऽग्रहतया मैत्र्यादिपारतन्त्र्येण गम्भीरोदाराऽऽशयत्वाद्यारिचरकसञ्जीविन्यचरकचारणनीत्येत्याहुः / / 24 / / द्वा०२० द्वा०। योगस्य कारणानि विवक्षुर्योगस्य प्रथमोपायभूतां पूर्वसेवामाहपूर्वसेवा तु योगस्य, गुरुदेवाऽऽदिपूजनम् / सदाचारस्तपो मुक्त्य-द्वेषश्चेति प्रकीर्तिताः // 1 // द्वा०१ . द्वा०॥ (यमाऽऽदीनां योगाङ्गत्वं योगबीजानि यमाऽऽदियोगाङ्गयुक्तानां मित्राद्या दृष्टयश्च' जोगदिट्टि' शब्दे वक्ष्यन्ते) (23) योगामार्गाधिकारिणस्तुयोजनाद् योग इत्युक्तो, मोक्षेण मुनिसत्तमैः। स निवृत्ताधिकारायां, प्रकृतौ लेशतो धुवः।। 14 / / योजनाद् घटनाद् , मोक्षेण, इत्यस्माद्धेतो, मुनिसत्तमैः ऋषिपुङ्गवैः | योग उक्तः, स निवृत्ताधिकारायां व्यावृत्तपुरुषाभिभवायां, प्रकृती सत्या, लेशतः किञ्चिद्वृत्या, ध्रुवो निश्चितः॥१४॥ गोपेन्द्रवचनादस्मा-देवलक्षणशालिनः। परैरस्येष्यते योगः, प्रतिश्रोतोऽनुगत्वतः / / 15 / / अस्माद् गोपेन्द्रवचनात् , एवंलक्षणशालिनः शान्तोदात्तत्वाऽऽदिगुणयुक्तस्यापुनर्बन्धकस्य, परैस्तीर्थान्तरायैः, योग इष्यते-उच्यते, प्रतिश्रोतोऽनुगच्छति यः स प्रतिश्रोतोऽनुगः, तद्भावस्तत्त्वं, तत इन्द्रियकषायानुकूला हि वृत्तिनुश्रोतः, तत्प्रतिकूला तु प्रतिश्रोत इति। इत्थं हि प्रत्यहंशुभपरिणामवृद्धिः,साच योगफलमित्यस्य योगौचित्यम्। तदाह- " वेलावलनवन्नद्यास्तदापूरोपसंहृतेः / प्रतिश्रोतोऽनुगत्वेन, प्रत्यहं वृद्धिसंयुतः" / / 202 / / (यो०बि०) इति / / 15 / / तत्क्रियायोगहेतुत्वाद्, योग इत्युचितं वचः। मोक्षेऽतिदृढचित्तस्य, मिन्नग्रन्थेस्तु भावतः / / 16 / / तद्वचः, क्रियायोगस्य सदाचारलक्षणस्य, हेतुत्वाद्योग इत्येवमुचितम्, अस्य द्रव्ययोगवत्त्वाद् , मोक्षे निर्वाणेऽतिदृढ, चित्तस्यैकधारालग्नहृदयस्य, भिन्नग्रन्थैर्विदारितातितीव्ररागद्वेषपरिणामस्य तु, भावतो योगः संभवति / सम्यग्दृष्टर्हि मोक्षाऽऽकालाक्षणिकचित्तस्य, या या चेष्टा, सा सा मोक्षप्राप्तिपर्यवसानफलिकेति तस्यैव भावतोऽयम् , अपुनर्बन्धकस्य तुन सार्वदिकस्तथा परिणाम इति द्रव्यत एवेति। तदुक्तम्-" भिन्नग्रन्थेस्तु यत् प्रायो, मोक्षे चित्तं भवे तनु / तस्य तत्सर्व एवेह, योगो योगो हि भावतः / 203 / (यो० बिं०) इति॥१६॥ अन्यसक्तस्त्रियो भार्तृ-योगोऽप्यश्रेयसे यथा। तथाऽमुष्य कुटुम्बाऽऽदि-व्यापारोऽपि न बन्धकृत् // 17 // / अन्यस्मिन् स्वभर्तृव्यतिरिक्त पुंसि, सक्ताया अनुपरतरिरंसायाः, स्त्रियो योषितः, भर्तृयोगोऽपि पतिशुश्रूषणाऽऽदिव्यापारोपि, यथाऽश्रेयसे पापकर्मबन्धाय, तथाऽमुप्य भिन्नग्रन्थेः, कुटुम्बाऽऽदिव्यापारोऽपि, न बन्धकृत् , पुण्ययोगेऽपि पापपरिणामेन पापस्येव बन्धक्दशुभकुटुम्बचिन्तनाऽऽदियोगेऽपि शुद्धपरिणामेन सदनुबन्धस्यैवोपपत्तेः। तदुक्तम्"नार्या यथाऽन्यसक्ताया-स्तत्र भावे सदा स्थितेः। तद्योगः पापबन्धश्च, तथा मोक्षेऽस्य दृश्यताम्॥५०४ / / न चेह ग्रन्थिभेदेन, पश्यतो भावमुत्तमम्। इतरणाऽऽकुलस्यापि, तत्र चित्तं न जायते // 205 / / (यो० बिं०)॥१७॥ निजाऽऽशयविशुद्धौ हि, बाह्यो हेतुरकारणम्। शुश्रूषाऽऽदिक्रियाऽप्यस्य, शुद्धश्रद्धाऽनुसारिणी।।१८।। निजाऽऽशयविशुद्धौ हि सायां, बाह्यो हेतुः कुटुम्बचिन्तनाऽऽदिव्यापारोऽकारणं, कर्मबन्धं प्रति भवहेतूनामेव परिणामविशेषेण मोक्षहेतुत्वेन परिणमनात्-"जे जत्तिया य हेऊ, भवस्स ते तत्तिआ य मुक्खस्स।" इति वचनप्रामाण्यात्। ननु किमेकेन शुभपरिणामेन ? क्रियाया अपि मोक्षकारणत्वात् , तदभावे तस्याकिञ्चित्करत्वात् : इत्यत आह-शुश्रूषाऽदिक्रियाऽप्यस्य सम्यग्दृशः, शुद्धश्रद्धाऽनुसारिणी जिनवचनप्रामाण्यप्रतिपत्त्यनुगामिनी, परिशुद्धोहापोहयोगस्य हि प्रकृतेरप्रवृत्तिविरोधिप्रकृतियोगाभ्यां सम्यगनुष्ठानाबन्ध्यकारणत्वात्तेनैव तदाक्षिप्यत इति भावः। तदुक्तम्"चारु चैतद्द्यतो ह्यस्य,तथोहः संप्रवर्तते। एतद्वियोगविषयः, श्रद्धाऽनुष्ठानभाक् स यत्॥ 206 // प्रकृतेरा यतश्चैव, नाप्रवृत्त्यादिधर्मताम्। तथा विहाय घटते, ऊहोऽस्य विमलं मनः / / 207 / / सति चास्मिन् स्फुरद्रत्न-कल्पे सत्त्वोल्यणत्वतः। भावस्तैमित्यतः शुद्ध-मनुष्ठानं सदैव हि // 20 ॥(यो० बिं०) ननु सम्यग्दृष्टिपर्यन्तमन्यत्र द्रव्ययोग एवोच्यते इति कथमत्र भावतोऽयमुक्त इति चेत् ? चारित्रप्रतिपन्थिनामनन्तानुबन्धिनामपगमे तद्गुणप्रादुर्भावनियम इति निश्चयाऽऽश्रयणादल्पन्नेदविवक्षा-परेण व्यवहारेण त्वत्रायं नेष्यत एव / ' एतच्च योगहेतुत्वाद . योग इत्युचितं वचः / मुख्यायां पूर्वसेवायामवतारोऽस्य केवलम् " / 206 / / (यो० बिं०) इत्यनेनापुनर्बन्धकातिशयाभिधानं तुसम्यगदृशो नैगमनयशुद्धिप्रकर्षकाष्ठापेक्षमिति न कश्चिद्विरोध इति विभावनीयं सुधीभिः।। 18 / / एतन्निश्चयवृत्त्यैव, यद्योगः शास्त्रसंज्ञितः। त्रिधा शुद्धादनुष्ठानात् , सम्यक्प्रत्ययवृत्तितः / / 16 / / एतद् यदुक्तम्-भिन्नग्रन्थेरेव भावतो योग इति, निश्चयवृत्त्यैव परमार्थवृत्त्यैव, न तु कल्पनया, यद् यस्माद् , शास्त्रेणैव संज्ञी, तद्विना त्वसंज्ञिवत् क्वाप्यर्थे प्रवर्त्तमानो यः, तस्य, त्रिधा वक्ष्यमाणैस्त्रिभिः प्रकारैः, शुद्धान्निरवद्यात् , अनुष्ठानादाचारात , सम्यक्प्रत्ययेनाऽऽत्मगुरुलिङ्गशुद्ध्या स्वकृतिसाध्यताऽऽद्यभ्रान्तविश्वासेन, वृत्तिः प्रवृत्तिः, ततो भवतीति / / 16 / / शास्त्रमासन्नभव्यस्य, मानमामुष्मिके विधौ। सेव्यं यद्विचिकित्सायाः, समाधेः प्रतिकूलता।। 20 // आसन्नभयस्यादूरवर्तिमोक्षलाभस्य प्राणिनः, आमुष्मिके विधौ पारलौकिके कर्मणि, शास्त्रं मानं, धर्माधर्मयोरतीन्द्रियत्वेन तदुपायत्वबोधने प्रमाणान्तरासामर्थ्यात् / अतः सेव्यं सर्वत्र
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy