________________ जोग 1631 - अभिधानराजेन्द्रः भाग-४ जोग (20) जीवाऽऽत्मनि परमाऽऽत्मनः सत्त्वोपपत्त्यर्थमात्मत्रयं सन्निहितमुपदर्शयतिबाह्याऽऽत्मा चाऽऽन्तराऽऽत्मा च, परमाऽऽत्मेति च त्रयः। कायाधिष्ठायकध्येयाः, प्रसिद्धा योगवाङ्मये / / 17 / / कायः स्वाऽऽत्मधिया प्रतीयमानः,- 'अहं स्थूलोऽहं कृशः,' इत्याधुल्लेखेनाधिष्ठायकः कायचेष्टाजनकप्रयत्नवान् , ध्येयश्च ध्यानभाव्यः, एते त्रयोबाह्याऽऽत्मा च अन्तराऽऽत्मा च, परमाऽऽत्मा चेतियोगवाङ्मये योगशास्त्रे प्रसिद्धाः। एतेषां च स्वेतरभेदप्रतियोगित्वध्यातृत्वध्येयत्वैानोपयोगस्तात्त्विकातात्त्विकैकत्वपरिणामतश्च सन्निधानमतातत्विकपरिणामनिवृत्तौ तात्त्विकपरिणामोपलम्भः नापत्तिरिति ध्येयम्।।१७।। अन्ये मिथ्यात्वसम्यक्त्व-केवलज्ञानभागिनः। मिश्रे च क्षीणमोहे च, विश्रान्तास्ते त्वयोगिनि / / 18 / / अन्ये पुनराहु:गि यात्वसम्यक्त्वके वलज्ञानभागिनो बाह्याऽऽ-- स्मान्तराऽऽत्मपरमाऽऽत्मानः / ते तुमिश्रे च क्षीणमोहे चायोगिनि च गुणस्थाने क्रमेण विश्रान्ताः तत्र च बाह्याऽऽत्मतादशायामन्तराऽऽत्मपरमाऽऽत्मनोः शक्तिः, तदेकद्रव्यत्वात् , अन्तराऽऽत्मदशायां च परमाऽऽत्मनः शक्तिः, बाह्याऽऽत्मनस्तु पूर्वनयेन योगः / परमाऽऽत्मतादशायां च बाह्याऽऽत्मान्तराऽऽत्मनो योरपि भूतपूर्वनयेनैव योग इति वदन्ति / तत्त्वमत्रत्यमध्यात्ममतपरीक्षायां व्यवस्थापितमस्माभिः॥१८॥ विषयस्य समापत्ति-रुत्पत्तिर्भावसंज्ञिनः। आत्मनस्तु समापत्ति-र्भावो द्रव्यस्य तात्त्विकः / / 16 // विषयस्याऽऽत्मातिरिक्तस्य भाव्यस्य, समापत्तिर्भावसंज्ञिनो भावाभिधानस्योत्पत्तिरुच्यते / वदन्ति हि नयदक्षाः- ' अग्न्युपयुक्तो माणतकोऽप्यग्निरेवेति / शब्दार्थप्रत्ययाना तुल्याभिधानत्वात् न वर्थज्ञानयोः कश्चनैकवृत्त्यारूढतया एकत्वपरिणामः संभवति, चेतनत्वाचेतनत्वयोविरोधादिति भावः / आत्मनस्तु समापत्तिर्द्रव्यस्य परमाऽऽत्मदलस्य, तात्त्विकः सहजशुद्धो भावः परिणामः॥ 16 / / अत एव च योऽर्हन्तं, स्वद्रव्यगुणपर्ययैः। वेदाऽऽत्मानं स एव स्वं, वेदेत्युक्तं महर्षिभिः // 20 // यत एव दलतया परमाऽऽत्मैव जीवाऽऽत्मा, अत एव च, योऽर्हन्तं तीर्थकर, स्वद्रव्यगुणपर्ययैर्निजशुद्धाऽऽत्मकेवलज्ञानस्वभावपरिणमनलक्षणैः, वेद जानाति, स एव स्वमात्मानं वेद तत्त्वतो जाना-ति, तथाज्ञानस्य तथाध्यानद्वारा तथासमापत्तिजनकत्वादिति महर्षिभिरुक्तम् / यतः पठ्यते-"जो जाणइ अरहते, दव्वत्तगुणस-पज्जयत्तेहिं / सो जाणइ अप्पाणं मोहो खलु जाइ तस्स लयं / / 1 / / " न चैतद्गाथाकर्तुर्दिगम्बरत्वेन महर्षित्वाभिधानंन निरखद्यमितिमूढधिया शङ्कनीयम्, सत्यार्थकथनगुणेन व्यासाऽऽदीनामपि हरिभद्राऽऽचायैस्तथाऽभिधानादिति द्रष्टव्यम्॥ 20 // (21) असंप्रज्ञातनामातु, संमतो वृत्तिसंक्षयः। सर्वतोऽस्मादकरण-नियमः पापगोचरः / / 21 / / असंप्रज्ञातनामा तु समाधिर्वृत्तिसंक्षयः संमतः, सयोग्ययोगिके - वलित्वकाले मनोविकल्पपरिस्पन्दरूपवृत्तिक्षयेण तदुपगमात् / त- / दुक्तम्-" असंप्रज्ञात एषोऽपि, समाधिर्गीयते परैः / निरुद्धाशेष-वृत्त्यादि, तत्रस्वरूपानुवेधतः।। 420 // " (यो० बिं०) इति। धर्ममेघ इत्यप्यस्यैव नाम। याक्तत्वभावनेन फलमलिप्सोः सर्वथा विवेकख्यातौ धर्ममशुक्लकृष्णं मेहति सिञ्चतीति व्युत्पत्तोः / तदुक्तम्-" प्रसंख्याने कुशीदस्य सर्वथा विवेकख्यातौ धर्ममेघः समाधिरिति।"(४-२६) एवमन्येषामपि तत्ततन्त्रसिद्धानां शब्दानामर्थोऽत्र यथायोग भावनीयः / तदाह- " धर्ममेघोऽमृताऽऽत्मा च, भवशक्रशिवोदयः / सत्त्वाऽऽनन्दपरश्चेति, ऽयोज्योऽत्रैवार्थयोगतः " / / 421 / / (यो० वि०) अस्माद् वृत्तिसंक्षयात् फलीभूतात , सर्वतः सर्वैः प्रकारैः, पापगोचरः पापविषयः, अकरणनियमः, अनुमीयत इति शेषः / नरकगगनाऽऽदिवृत्तिनिवृत्तेमहारम्भपरिग्रहाऽऽदिहेत्वकरणनियमेनैवोपपत्तेः / / 21 / / ग्रन्थिभेदे यथाऽयं स्याद् , बन्धहेतुं परं मति / नरकाऽऽदिगतिष्वेवं, ज्ञेयस्तद्धेतुगोचरः / / 22 / / यथाऽयमकरणनियमो, बन्धहेतुं मिथ्यात्वं परमुत्कृष्ट सप्ततिकोटिकोट्यादिस्थितिनिमित्तं, प्रत्याश्चित्य ग्रन्थिभेदे निरूप्यते / एवं नरकाऽऽदिगतिषु निवर्तनीयासु, तद्धेतुगोचरो नरकाऽऽदिहेतुविषयोऽक रणनियमो ज्ञेयः / / 22 // दुःखात्यन्तविमुक्त्यादि, नान्यथा स्यात् श्रुतोदितम्। हेतुः सिद्धश्च भावोऽस्मि-निति वृत्तिक्षयौचिती // 23 / / अन्यथा दुःखात्यन्तविमुक्त्यादि, श्रुतोदित सिद्धान्तप्रतिपादितं, न स्यात्। तदाह-" अन्यथाऽऽत्यन्तिको मृत्युभूयस्तत्राऽऽगतिस्तथा।न युज्यते हि सन्नायादित्यादि समयोदितम्। " // 416 / / (यो० बिं०) न च तत्त्वज्ञानेनैव दुःखात्यन्तविमुक्त्युपपत्तौ किमकरणनियमेनेति वाच्यम् ? तस्याऽऽत्यन्तिकमिथ्याज्ञाननाशद्वारा हेतुत्वोपगमे त त्वकरणनियमस्यावश्याऽऽश्रयणीयत्वादिति भावः / अस्मिँस्तत्तत्पापस्थानाकरणनियमे च, सिद्धः परापराधनिवृत्तिहेतुतत्त्वज्ञानानुगततया प्रतिष्ठितो भावोऽन्तःकरणपरिणामो हेतुः / तदुक्तम्-'" हेतुमस्य परं भावं, सत्त्वाद्यागो निवर्तनम्। प्रधानं करुणारूपं, बुवते सूक्ष्मदर्शिनः" / / 417 // (यो० वि०) इति एवमकरणनियमोपपत्ती, वृत्तिक्षयौचिती वृत्ति-क्षयस्य न्याय्यता, हेत्वकरणनियमेन फलानुत्पत्तिपर्यायोपपत्तेस्तत्प्राग्भावापगमस्यापि योग्यताविगमाऽऽख्यस्य हेत्वकरणनियमेनैव फलवत्त्वात्तद्विरहितस्य तस्य फलनियतत्वात्। तदुक्तम्- " मण्डूकभस्मन्यायेन, वृत्तिबीजं महामुनिः / योग्यताऽपगमाइग्ध्वा, ततः कल्याणमश्नुते // 422 / / (यो० बिं०) इति // 23 // (22) ननु यद्येक एव योगस्तदा कथं भेदः ? भेदे च प्रकृते किं तदन्तर्भावप्रयासेन? इत्यत आहयोगे जिनोक्तेऽप्येकस्मिन् , दृष्टिभेदः प्रवर्तते। क्षयोपशमवैचित्र्यात् , समेयाऽऽद्योयदृष्टिवत्॥२४॥ जिनोक्ते सर्वज्ञपोते, तत्त्वत एकस्मिन्नापि योगे, क्षयोपशमवैचित्र्याद् दृष्टिभेदो दर्शनविशेषः प्रवर्तते, समेघाऽऽदौ मेघसहितरात्र्यादौ, ओघदृष्टिवत्सामान्यदर्शनमिव। यथा हि एकस्मिन्नपि दृश्ये समेधायां रात्री दृष्टिः किञ्चिन्मात्रग्राहिणी, अमेघायां तुमनागधिकतरग्राहिणी। एवं समेघाऽमेघयोर्दिवसयोरप्यस्ति विशेषः।तथा सग्रहाग्रहयोश्चित्तविभ्रमतदभावाभ्यामर्भकानर्भकयोरपि मुग्धत्वविवेकाभ्याम् उपहतानुपहतलोचनयोश्च