________________ जोग 1630- अभिधानराजेन्द्रः भाग - 4 जोग अत्र सास्मितसाऽनन्द-निर्विचारान्तविश्रमम् / / 6 / / सास्मितसमाधिपर्यन्ते परं पुरुषं ज्ञात्वा भावनायां विवेकख्याती ग्रहीतृसमापत्तिः, साऽऽनन्दसमाधिपर्यन्ते ग्रहणसमापत्तिः, निर्विचारसमाधिपर्यन्ते च ग्राह्यसमापत्तिर्विश्रान्तेत्येतदर्थः / / 6 / / मणेरिवामिजातस्य, क्षीणवृत्तेरसंशयम्। तात्स्थ्यात्तदञ्जनत्वाच्च, समापत्तिः प्रकीर्तिता।।१०।। मणेरिव स्फटिकाऽऽदिरत्नस्येव, अभिजातस्य जात्यस्य, क्षीणवृत्तेः क्षीणमलस्य, असंशयं निश्चितं, तात्स्थ्यात्तत्रैकाग्रत्वात् , तदञ्जनत्वाच तन्मयत्वात् , न्यग्भूते चित्ते विषयस्य भाव्यमानस्यैकत्वोत्कर्षात् समापत्तिः प्रकीर्तिता / तदुक्तम्-" क्षीणवृत्तेरभिजात-स्येवमणेहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः।" (1-41) यथा हि निर्मलस्फटिकमणेस्तद्रूपाऽऽश्रयवशात्तद्रूपताऽऽपत्तिः, एवं निर्मलचित्तसत्त्वस्य तत्तद्भावनीयवस्तूपरागात्तद्रूताऽऽपत्तिः / यद्यपि ग्रहीतृग्रहणग्राह्येत्युक्तं, तथाऽपि भूमिकाक्रमवशेन व्यत्ययो बोध्यः / वतःप्रथम ग्राह्यनिष्ठः समाधिः, ततो ग्रहणनिष्ठः, ततोऽस्मितोपरागेण ग्रहीतृनिष्ठाः, केवलस्य पुरुषस्य ग्रहीतुर्भाव्यत्वासंभवादिति बोध्यम्॥ 10 // संकीर्णा सा च शब्दार्थ-ज्ञानैरपि विकल्पतः। सवितर्का परैर्भेदै-र्भवतीत्थं चतुर्विधा / / 11 // सा च समापत्तिः, शब्दार्थज्ञानैर्विकल्पतोऽपि संकीर्णा सवितर्का / यदाह-" तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का / " (1-42) अत्र श्रोत्रेन्द्रियग्राह्यः, स्फोटरूपो वा शब्दः, अर्थो जात्यादिः, ज्ञानं सत्त्वप्रधाना बुद्धिवृत्तिः, विकल्पःशब्दज्ञानानुपाती वस्तुशून्योऽर्थः, एतैः संकीर्णाः-यत्रैते शब्दाऽऽदयः परस्पराध्यासेन प्रतिभासन्तेगौरितिशब्दो, गोरित्यर्थो, गौरिति ज्ञानमित्याकारण, इत्थं परैर्भेदैश्चतुर्विधेयं भवति / तथाहि- " महास्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का / "(1-43) यदा-ह-'उक्तलक्षणविपरीता निर्वितर्केति'। यथा च स्थलभूताऽऽदिविषया सवितर्का, तथा सूक्ष्मतन्मात्रेन्द्रियाऽऽदिकमर्थ शब्दार्थविकल्पसहितत्वेन, देशकालधर्मावच्छेदेन च गृण्हन्ती सविचाराभण्यते, धर्मिमात्रतया च तं गृह्णन्ती निर्विचारेति। एत उक्तम्-" एतयैव सविचारा, निर्विचारा च सूक्ष्मविषया व्याख्याता।" (1-44)" सूक्ष्मविषयत्वंचालिङ्गपर्यवसानम्।" (1-45) नक्वचिद्विद्यते, न वा किञ्चिल्लिङ्गति गमयतीत्यलिङ्ग प्रधान, तत्पर्यन्तमित्यर्थः / गुणानां हि परिणामे चत्वारि पर्वाणिविशिष्टलिङ्गम् , अविशिष्टलिङ्गं, लिङ्गमात्रम् , अलिङ्ग चेति / विशिष्टलिङ्ग भूतानि, अविशिष्टिलिङ्गं तन्मात्रेन्द्रियाणि, लिङ्गमात्रं बुद्धिः, अलिङ्गं च प्रधानमिति / एताश्च समापत्तयः संप्रज्ञातरूपा एव। यदाह-"ताएव सबीजः समाधिरिति।" (1-46) सह बीजे नाऽऽलम्बनेन वर्त्तत इति सबीजः, संप्रज्ञात इत्यर्थः // 11 // इतरासां समापत्तीनां निर्विचारफलत्वान्निर्विचारायाः फलमाहअध्यात्म निर्विचारत्व-वैशारद्ये प्रसीदति। ऋतम्भरा ततः प्रज्ञा, श्रुतानुमितितोऽधिका // 12 // निर्विचारत्वस्य चरमसमापत्तिलक्षणस्य, वैशारद्ये प्रकृष्टाभ्यासयसेन नैर्मल्ये, अध्यात्म शुद्धसत्त्वं, प्रसीदति क्लेशवासनारहितस्थितिप्रवाहयोग्यं भवति। यदुक्तम्-" निर्विचारत्ववैशारोऽध्यात्मप्रसादः।" (1-47) ततोऽध्यात्मप्रसादात् , ऋतम्भरा प्रज्ञा भवति। ऋतं सत्यमेव विभर्ति, न कदाचिदपि विपर्ययेणाऽऽच्छाद्यते यासा ऋतम्भरा। तदुक्तम्" ऋतम्भरा तत्र प्रज्ञा।'' (1-48) सा च श्रुतानुमितित आगमानुमानाभ्यां सामान्यविषयाभ्यां विशेष-विषयत्वेनाधिका / यदाह- " श्रुतानुमानप्रज्ञाभ्यामन्यविषयावि-शेषार्थत्वादिति। "(1-46) // 12 // तज्जन्मा तत्त्वसंस्कारः, संस्कारान्तरबाधकः। असंप्रज्ञातनामा स्यात् , समाधिस्तन्निरोधतः / / 13 / / तत ऋतम्भरप्रज्ञायाः, जन्मोत्पत्तिर्यस्य स तथा, तत्त्वसंस्कारः परमार्थविषयः संस्कारः, संस्कारान्तरस्य स्वेतरस्य-व्युत्थानजस्य, समाधिजस्य वा संस्कारस्य बाधकस्तन्निष्टकार्यकरणशक्तिभङ्गकृदिति यावत्। तदुक्तम्-"तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी।" (1-50) तस्य निरोधतः सर्वासां चित्तवृत्तीना स्वकारणे प्रविलयात् , संस्कारमात्रोदितवृत्तिलक्षणोऽसंप्रज्ञातनामा समाधिः स्यात्। तदुक्तम्-"तस्यापि निरोधे सर्वनिरोधी निर्बीजः समाधिरिति।" (1-51) // 13 // विरामप्रत्ययाभ्यासाद् , नेति नेति निरन्तरात्। ततः संस्कारशेषाच, कैवल्यमुपतिष्ठते // 14 // विरामो वितर्काऽऽदिचिन्तात्यागः, स एव प्रत्ययो विरामप्रत्ययः, तस्याभ्यासः पौनःपुन्येन चेतसि निवेशनं, ततः नेति नेति निरन्तरादन्तररहितात , संस्कारशेषादुत्पन्नः, ततोऽसंप्रज्ञातसमाधेः / यत उक्तम्-'" विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषादन्य इति।" (1-18) कैवल्यमात्मनः स्वप्रतिष्ठत्वलक्षणम् , उपतिष्ठत आविर्भवति।।१४।। (16) तदेवमुक्तौ पराभिमती सभेदी सोत्पत्तिक्रमौ च संप्रज्ञातासंप्रज्ञाताऽऽरख्यौ योगभेदी ; अथानयोर्यथासंभवमवतारमाहसंप्रज्ञातोऽवतरति, ध्यानभेदेऽत्र तत्त्वतः। तात्त्विकी च समापत्ति-र्नाऽऽत्मनो भाव्य तां विना / / 15 / / अत्र संप्रज्ञातासंप्रज्ञातयोर्योगभेदयोर्मध्ये, संप्रज्ञातस्तत्त्वतो ध्यानभेदेऽवतरति, स्थिराध्यवसानरूपत्वात्: अध्यात्माऽऽदिकमारभ्य ध्यानपर्यन्तं यथाप्रकर्ष संप्रज्ञातो विश्राम्यतीत्यर्थः / यदाह योगबिन्दुकृत्" समाधिरेष एवान्यैः, संप्रज्ञातोऽभिधीयते / सम्यक् प्रकर्षरूपेण, वृत्त्यर्थज्ञानतस्तथा " || 418 // इति / एष एवाध्यात्माऽऽदियोगः तात्त्विकी निरुपचरिता च समापत्तिरात्मनो भाव्यतां भावनाविषयता विना न घटते, शुद्धस्याभाव्यत्वे विशिष्टस्यापि तत्त्वायोगाद् विशेषणसंबन्धं विना वैशिष्ट्य स्यापि दुर्वचत्वाचेति / तथा च ग्रहीतृसमापत्तिड्मिात्रमे वेति भावः।। 15 / / परमाऽऽत्मसमापत्ति-जीवाऽऽत्मनि हि युज्यते। अभेदेन तथा ध्याना-दन्तरङ्गस्वशक्तितः॥ 16 // जीवाऽऽत्मनि हि परमाऽऽत्मसमापत्तिः, तथापरिणामलक्षणा युज्यते, अभेदेन तथा परमात्मत्वेन ध्यानाद्जीवाऽऽत्मनोरन्तरङ्गाया उपादानभूतायाः स्वशक्तितस्तयापरिणमनादात्मशक्तेः शक्तय सत एव व्यक्तया परिणमनस्य तथा सामग्रीतः संभवादिति भावः / / 16 / /