________________ जोग 1626 - अभिधानराजेन्द्रः भाग - 4 जोग दिश्यत इत्युद्देशः, सदसत्कर्तव्याकर्तव्याऽऽदेशो नास्ति। यतोऽभिहितमाचारे-" उद्देसो पासगस्स नऽस्थि त्ति " / / 16 / / कुलप्रवृत्तचक्राणां, शास्त्रात् तत्तदुपक्रिया। योगाऽऽचार्यविनिर्दिष्टं, तल्लक्षणमिदं पुनः // 20 // कुलयोगिनां, प्रवृत्तचक्रयोगिना च, शास्त्राद् योगतन्त्रात् ,सा विचित्रत्वेन प्रसिद्धा, उपक्रिया योगसिद्धिरूपा भवति / तदुक्तं योगदृष्टिसमुचये-"कुलप्रवृत्तचक्रा ये, त एवास्याधिकारिणः / योगिनो न तु सर्वेऽपि, तथा सिद्ध्यादिभावतः " // 1 // तेषां कुलप्रवृत्तचक्रयोगिनां, लक्षणं पुनरिदं वक्ष्यमाणं,योगाऽऽचार्योगप्रतिपादकैः सूरिभिर्विनिर्दिष्टम् // 20 // द्वार० 16 द्वा०। [कुलयोगिलक्षणं' कुलजोगि (ण) शब्दे तृतीयेभागे 568 पृष्ठे द्रष्टव्यम् / प्रवृत्तचक्रयोगिलक्षणं च ' पवत्तचक्क' शब्दे वक्ष्यामः] आद्यावश्चकयोगाऽऽप्त्या, तदन्यद्वयलाभिनः। एतेऽधिकारिणो योग-प्रयोगस्येति तद्विदः॥२४॥ आद्यावञ्चकयोगस्य योगावञ्चकयोगस्य, आप्त्या प्राप्त्या हेतुभूतया, तदन्यद्वयलाभिनः क्रियावञ्चकफलावञ्चकयोगलाभवन्तः, तदबन्ध्यभव्यतया तत्त्वतस्तेषां तल्लाभवत्त्वात्। एतेऽधिकारिणो, योगप्रयोगस्याधिकृतयोगव्यापारस्य, इत्येयं, तद्विदो योगविदोऽभिदधति।। 24 / / द्वार०१६ द्वा०। सद्भिः कल्याणसंपन्न-दर्शनादपि पावनैः। तथा दर्शनतो योग, आद्यावञ्चक उच्यते // 26 / / सभिरुत्तमैः, कल्याणसंपन्नैर्विशिष्टपुण्यवद्भिः, दर्शनादप्यबलोकनादपि, पावनैः पवित्रैः, तथा तेन प्रकारेण, गुणवत्तयेत्यर्थः / दर्शनतो | योगःसंबन्धः, आद्यावञ्चकः सद्योगावञ्चकः, उच्यते दृश्यते॥२६॥ / तेषामेव प्रणामाऽऽदि-क्रियानियम इत्यलम्। क्रियाऽवश्चकयोगः स्याद् , महापापक्षयोदयः // 30 // तेषामेव सतामेव, प्रणामाऽऽदिक्रियानियमः, इत्यलं, क्रियाऽवश्वकयोगः स्यात् , महापापक्षयस्य नीचैर्गोत्रकर्मक्षयस्य, उदय उत्पत्तिर्यस्मात् स तथा॥ 30 // फलावञ्चकयोगस्तु, सद्भय एव नियोगतः। सानुबन्धफलावाऽऽप्ति-धर्मसिद्धौ सतां मता॥३१॥ फलावञ्चकयोगस्तु, सद्भ्य एवानन्तरोदितेभ्यः, नियोगतोऽवश्यंभावेन सानुबन्धस्योत्तरोत्तरवृद्धिमतः, फलस्यावाऽऽप्तिः, तथा सदुपदेशाऽऽदिना धर्मसिद्धौ विषये सता मता // 31 // इत्थं योगविवेकस्य, विज्ञानाद्धीनकल्मषः। यतमाना यथाशक्ति, परमाऽऽनन्दमश्नुते // 32 // इत्थमिति स्पष्टम्॥३२॥ द्वा०१६ द्वा०। अनन्तरोक्तो योगविवेकः स्वाभिमतयोगभेदे परोक्तयोगानामवतारे सति व्यवतिष्ठते, इत्यतोऽयं निरूप्यतेसंप्रज्ञातोऽपरश्रेति, द्विधाऽन्यैरयमिष्यते। सम्यक् प्रज्ञायते येन, संप्रज्ञातः स उच्यते // 1 // संप्रज्ञातः, अपरोऽसंप्रज्ञातश्चेति, अन्यैः पातञ्जलैः, अयं योगो / द्विधेष्यते, सम्यक्संशयविपर्ययानध्यवसायरहितत्वेन, प्रज्ञायते प्रकर्षण ज्ञायते, भाव्यस्य स्वरूपं येन स संप्रज्ञात उच्यते॥१॥ वितर्केण विचारेणा-5ऽनन्देनास्मितयाऽन्वितः। भाव्यस्य भावनाभेदात् , संप्रज्ञातश्चतुर्विधः॥२॥ वितर्केण विचारेण, आनन्देनास्मितयाऽन्वितः क्रमेण युक्तः, भाव्यस्य, भावनायाः विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनलक्षणायाः, भेदात् , संप्रज्ञातश्चतुर्विधो भवति। तदुक्तम्-"वितर्कविचाराऽऽनन्दास्मितारूपानुगमात् संप्रज्ञात इति।" (1-17) / // 2 // पूर्वापरानुसन्धानात् , शब्दोल्लेखाच भावना। महाभूतेन्द्रियार्थेषु, सविकल्पोऽन्यथाऽपरः।।३।। पूर्वापरयोरर्थयोः, अनुसन्धानात् , शब्दोल्लेखाच्छब्दार्थोपरागाञ्चः, यदा भावना प्रवर्त्तते महाभूतेन्द्रियलक्षणेष्वर्थेषु स्थूलविषयेषु, तदा सविकल्पःसवितर्क : समाधिः / अन्यथाऽस्मिन्नेवाऽऽलम्बने, पूर्वापरानुसन्धानशब्दार्थोल्लेखशून्यत्वेन भावनायामपरो निर्विकल्पःनिर्वितर्कः॥३॥ तन्मात्रान्तःकरणयोः, सूक्ष्मयोर्भावना पुनः। दिक्कालधविच्छेदात् , सविचारोऽन्यथाऽपरः।।४। तन्मात्रान्तःकरणयोः सूक्ष्मयोर्भाव्ययोः, दिक्कालधर्मावच्छेदाददेशकालधविच्छेदेन, भावना पुनः सविचारः समाधिः / अन्यथा तस्मिन्नेवाऽऽलम्बने, देशकालधर्मावच्छेदं विना धर्मिमात्रावभासित्वेन भावनायाम् , अपरो निर्विचारः समाधिः // 4 // यदा रजस्तमोलेशा-नुबिद्धं भाव्यते मनः। तदा भाव्यसुखोद्रेकात् , चिच्छक्तेर्गुणभावतः / / 5 / / यदा रजस्तमसोर्लेशेनानुबिद्ध मनोऽन्तःकरणतत्त्वं भाव्यते, तदा भाव्यस्य भावनाविषयस्य, सुखस्य सुखप्रकाशमयस्य सत्वस्य, उद्रेकादाधिक्यात् , चिच्छक्तेर्गुणभावतोऽनुद्रेकात्॥५॥ साऽऽनन्दोऽत्रैव भण्यन्ते, विदेहा बद्धवृत्तयः। देहाहकारविगमात् , प्रधानपुमदर्शिनः।।६।। साऽऽनन्दः समाधिर्भवत्युक्तहेतुतः, अत्रैव समाधौ, बद्धवृत्तयो विदेहा भण्यन्ते, देहाहङ्कारविगमाद्बहिर्विषयाऽऽवेशनिवृत्तेः, प्रधानपुमदर्शिनः प्रधानपुरुषतत्त्वाऽऽविर्भावकाः // 6 // सत्त्वं रजस्तमोलेशा-नाक्रान्तं यत्र भाव्यते। स सास्मितोऽत्र चिच्छक्ति-सत्त्वयोमुख्यगौणता।।७।। यत्र रजस्तमोलेशेनानाक्रान्तं सत्त्वं भाव्यते, स सास्मितः समा-धिः। अत्र चिच्छक्तिसत्त्वयोमुख्यगौणता, भाव्यस्य शुद्धसत्त्वस्य, न्यगभावाचिच्छक्तेश्वोद्रेकात् सत्तामात्रावशेषत्वाचात्र सास्मितत्वोपयन्तिः / न चाहङ्कारास्मितयोरभेदः शङ्कनीयः, यतो यत्रान्तःकरणमहमित्युल्लेखेन विषयं वेदयते सोऽहङ्कारः, यत्रान्तर्मुखतया प्रतिलोमपरिणामेन प्रकृतिलीने चेतसि सत्तामात्रमेव भाति, साsस्मितेति // 7 // अत्रैव कृततोषा ये, परमाऽऽत्मानवेक्षिणः। चित्ते गते ते प्रकृति-लया हि प्रकृतौ लयम्॥८॥ अत्रैव सारिमतसमाधावेव, ये कृततोषाः परमाऽऽल्मानवेक्षिणः परमपुरुषादर्शिनः, ते हि चित्ते प्रकृतौ लयं गते सति प्रकृतिलया उच्यन्ते // 8 // ग्रहीतृग्रहणग्राह्य-समापत्तित्रयं किल।