________________ जोग 1628- अभिधानराजेन्द्रः भाग-४ जोग क्षायोपशमिका धर्माः, योगाः कायाऽऽदिकर्म तु / / 11 // / द्विधा द्विप्रकारोऽयं सामर्थ्ययोगः धर्मसंन्यास-योगसंन्याससंज्ञे जाते यस्य स तथा। संज्ञा चेह तथा संज्ञायत इति कृत्वा, तत्स्वरूपमेव गृह्यते। क्षायोपशमिका:-क्षयोपशमनिर्वृत्ताः ज्ञान्त्यादयो धर्माः, योगास्तुकायाऽऽदिकर्म कायोत्सर्गकरणाऽऽदयः कायाऽऽदिव्यापाराः // 11 // द्वितीयापूर्वकरणे, प्रथमस्तात्त्विको भवेत्। आयोज्यकरणादूज़, द्वितीय इति तद्विदः // 12 // द्वितीयापूर्वकरण इति। ग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थ द्वितीयग्रहणं, प्रथमेऽधिकृतसामर्थ्ययोगासिद्धेः / अपूर्वकरणस्य तु तत्रासंजातपूर्वग्रन्थिभेदाऽऽदिफलेनाभिधानाद् यथाप्राधान्यमयमुपन्यासः। चारुश्च पश्चानुपूर्येति समयविदः / ततो द्वितीयेऽस्मिँस्तथाविधकर्मस्थितेस्तथाविधसंख्येयसागरोपमातिक्रमभाविनि प्रथमो धर्मसंन्याससंज्ञितः सामर्थ्ययोगः तात्त्विकः पारमार्थिको भवेत् , क्षपक श्रेणियोगिनः क्षायोपशमिकक्षान्त्यादिधर्मनिवृत्तेः। अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति, प्रवृत्तिलक्षणधर्मसंन्यासायाः प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वात् / अत एवास्या भवविरक्त एवाधिकार्युक्तः। यथोक्तम्-" अथ प्रव्रज्याहः, आर्यदेशोत्पन्नः, विशिष्टजातिकुलान्वितः, क्षीणप्रायकर्ममलबुद्धिः, दुर्लभं मानुष्यं, जन्म मरणनिमित्तं, संपदश्वलाः, विषया दुःखहेतवः, संयोगो वियोगान्तः, प्रतिक्षणं मरणं, दारुणो विपाकः, इत्यवगतसंसारनैर्गुण्यः, तत एव तद्विरक्तः, प्रतनुकषायोऽल्पहास्याऽऽदिः, कृतज्ञो, विनीतः, प्रागपि राजामात्यपौरजनबहुमतोऽद्रोहकारी, कल्याणाङ्गः, श्राद्धः, सुमपसंपन्नश्चेति / न ह्यनीदृशो ज्ञानयोगमाराधयति, न चेदृशो नाराधयतीति भावनीयम् / सर्वज्ञवचनमागमः, तत्रायमनिरूतार्थ इति, आयोज्यकरणं केवलाऽऽभोगेनाचिन्त्यवीर्यतया भवोपग्राहिकर्माणि तथा व्यवस्थाप्य तत्क्षपणव्यापारणं शैलेश्यवस्थाफलं, तत ऊर्ध्वं द्वितीयो योगसंन्याससंज्ञित इति, तद्विदोऽभिदधति, शैलेश्यावस्थायां कायाऽऽदियोगानां संन्यासेनायोगाऽऽख्यस्य सर्वसंन्यासलक्षणस्य सर्वोत्तमस्य योगस्य प्राप्तेरिति // 12 // तात्त्विकोऽतात्त्विकश्चेति, सामान्येन द्विधाऽप्ययम्। तात्त्विको वास्तवोऽन्यस्तु, तदाभासः प्रकीर्तितः।। 13 // सामान्येन विशेषभेदानुपग्रहेण, तात्त्विकोऽतात्त्विक श्चेति द्विधाऽप्यय योग इष्यते। तात्त्विको वास्तवः, केनापि नयेन मोक्षयोजनफल इत्यर्थः / अन्योऽतात्त्विकस्तु तदाभास उक्तलक्षणविरहितोऽपि, योगोचितवेषाऽऽदिना योगवदाभासमानः प्रकीर्तितः॥ 13 // अपुनर्बन्धकस्यायं, व्यवहारेण तात्त्विकः। अध्यात्मभावनारूपो, निश्चयेनोत्तरस्य तु / / 14 / / अपुनर्बन्धकस्योपलक्षणत्वात् सम्यगदृष्टेश्व, अयं योगो, व्यवहारेण कारणस्यापि कार्योपचाररूपेण, तात्त्विकोऽध्यात्मरूपो भावनारूपश्च, निश्चयेन निश्चयनयेनोपचारपरिहाररूपेणोत्तरस्य तु चारित्रिण एव / / 14 / / सकृदावर्तनाऽऽदीना-मतात्त्विक उदाहृतः। प्रत्यपायफलप्रायः, तथावेपाऽऽदिमात्रतः।।१५।। सकृदेकवारम् , आवर्तन्ते उत्कृष्टस्थितिं बध्नन्तीति सकृदावर्तनाः | आदिशब्दाद् द्विरावर्तनाऽऽदिग्रहः / तेषामतात्त्विको व्यवहारतो, निश्चयतश्वातत्त्वरूपोऽशुद्धपरिणामत्वादुदाहृतोऽध्यात्मभावनारूपो योगः / प्रत्यपायोऽनर्थः फलं, प्रायो बाहुल्येन, यस्य स तथा / तथा तत्प्रकारभावमाराध्याऽऽत्मभावनायुक्तयोगियोग्यं यद्वेषाऽऽदिमात्रं नेपथ्यचेष्टाभाषालक्षणं श्रद्धानशून्यं वस्तु तस्मात् , तत्र हि वेपाऽऽदिमात्रमेव स्याद् , न पुनस्तेषां काचिच्छ्रद्धालुतेति / / 15 / / शुद्ध्यपेक्षो यथायोगं, चारित्रवत एव च। हन्त ! ध्यानाऽऽदिको योग-स्तात्त्विकः प्रविजृम्भते / / 16 / यथायोगं यथास्थानं, शुद्ध्यपेक्ष उत्तरोत्तरां शुद्धिमपेक्ष्य प्रवर्तमानचारित्रवत एव च, हन्त ! तात्त्विकः पारमार्थिकैकस्वरूपो, ध्यानाऽऽदिको योगः, प्रविजृम्भते प्रोल्लसति // 16 // अपायभावाभावाभ्यां, सानुबन्धोऽपरश्च सः। निरुपक्रमकर्मवा-पायो योगस्य बाधकम् // 17 // अपायस्य भावाभावाभ्यां सद्भावासद्भावाभ्यां, सानुबन्धः, अपरो निरनुबन्धश्च, स योगः अपायरहितः सानुबन्धः, तत्सहितश्च निरनुबन्ध इति।योगस्य बाधकं निरुपक्रम विशिष्टानुष्टानचेष्टयाऽप्यनुच्छेद्यमनाश्यं, स्वविपाकसामर्थ्य वा, कर्मव चारित्रमोहनीयाऽऽख्यमपायः // 17 // बहुजन्मान्तरकरः, सापायस्यैव साऽऽश्रवः। अनाश्रवस्त्वेकजन्मा, तत्त्वाङ्गव्यवहारतः॥१८॥ बहुजन्मान्तरकरो देवमनुष्याऽऽद्यनेकजन्मविशेषहेतुः, निरुपक्रमकर्मणोऽवश्यवेदनीयत्वात् , सापायस्यैवापायवत एव, साऽऽश्रवो योगः, एकमेव वर्तमानं जन्म यत्र स त्वनाश्रवः / ननु कथमेतत् ? अयोगिकेवलिगुणस्थानादक सर्वसंवराभावेनानाश्रवत्वासंभवादित्यत आह-तत्त्वाइनिश्चयप्रापको यो व्यवहारः, ततस्तेन साम्परायिककर्मबन्धनलक्षणस्यवाऽऽश्रवस्याभ्युपगमात्तदभावे इत्यराऽऽश्रवभावेऽपि नानाश्रवयोगक्षतिरिति भावः। तदुक्तम्" आश्रवो बन्धहेतुत्वाद्, बन्ध एवेह यन्मतः। स साम्परायिको मुख्यः, तदेवोऽर्थोऽस्य सङ्गतः / / 375 // एवं चरमदेहस्य, संपरायवियोगतः। इत्वराऽऽत्रभावेऽपि, स तथाऽनाश्रवो मतः / / 376 / / निश्चयेनात्र शब्दार्थः, सर्वत्र व्यवहारतः। निश्चयव्यवहारौ वद्, द्वावप्यभिमतार्थदौ / / 377 // " (यो० वि०) निश्चयेनेत्युपलक्षणे तृतीया, ततो निश्चयेनोपलक्षितात् तत्प्रापकव्यवहारत इत्यन्वयः॥१८॥ इत्थं साऽऽश्रवानाश्रवत्याभ्यां योगद्वैविध्यमुक्वा, शास्त्रसापेक्षस्वाधिकारिकत्वतद्विपर्ययाभ्यां तवैविध्याभिधानाभिप्रायवानाहशास्त्रेणाधीयते चायं, नासिद्धेर्गोत्रयोगिनाम्। सिद्धेर्निष्पन्नयोगस्य, नोद्देशः पश्यकस्य यत् / / 16 / / अयं च योगो गोत्रयोगिनां गोत्रमात्रेण योगिनाम् असिद्धेमलिनान्तराऽऽत्मतया योगसाध्यफलाभावात् शारत्रेण योगतन्त्रेण नाधीयते, तथा सिद्धेः सामर्थ्य यो गत एवं कार्यनिष्पत्ते :, निष्पन्नयोगस्यासङ्गानुष्ठानप्रवाहप्रदर्शनेन सिद्धयोगस्यायं शास्त्रेण नाधीयते, यद् यस्मात् , पश्यकस्य स्वत एव थिदितयेद्यस्य, उ