SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ जोग 1627 - अभिधानराजेन्द्रः भाग-१ जोग भगवद्वचनस्थित्या, योगः पञ्चविधोऽप्ययम्। सर्वोत्तमं फलं दत्ते, परमाऽऽनन्दमजसा / / 32 / / निगदसिद्धोऽयम् // 32 // द्वा० 18 द्वा०। (18) अध्यात्माऽऽदीन्योगभेदानुपदर्य तदवान्तरनानाभेदप्रदर्शनेन तद्विवेकमेवाऽऽहइच्छां शास्त्रं च सामर्थ्य-माश्रित्य त्रिविधोऽप्ययम्। गीयते योगशास्त्रह-निजि यो विधीयते॥१॥ इच्छां, शास्त्र, सामर्थ्य चाऽऽश्रित्य त्रिविधोऽप्ययं योगो योगशास्वर्गीयते, इच्छायोगः, शास्त्रयोगः, सामर्थ्ययोगश्चेति यो नियाज निष्कपट विधीयते / सव्याजस्तु योगाऽऽभासो गणनायामेव नावतरतीति॥१॥ इच्छायोगमाहचिकीर्षास्तु श्रुतार्थस्य, ज्ञानिनोऽपि प्रमादिनः। कालाऽऽदिविकलो योगः, इच्छायोग उदाहृतः॥२॥ चिकीर्षोंः-तथाविधक्षयोपशमाभावेऽपि नियाजमेव कर्तुमिच्छोः, श्रुतार्थस्य श्रुताऽऽगमस्य, अर्यतेऽनेन तत्त्वमिति, तत्त्वार्थशब्दस्याऽगमवचनत्वात् / ज्ञानिनोऽपि अवगतानुष्ठेयतत्त्वार्थस्यापि, प्रमादिनो विकथाऽऽदिप्रमादवतः, कालाऽऽदिना विकलोऽसंपूर्णो, योगश्चैत्यवन्दनाऽऽदिव्यापारः, इच्छायोग उदाहृतः प्रतिपादितः॥२॥ प्रधानस्येच्छायोगत्वे तदङ्गस्यापि तथात्यमिति दर्शयन्नाहसाङ्गमप्येककं कर्म, प्रतिपन्ने प्रमादिनः। नत्वेच्छायोगत इति, श्रवणादत्र मजति / / 3 / / साङ्गमपि अङ्गसाकल्येनाविकलमपि, एककं स्वल्प किश्चित्कर्म, प्रतिपन्ने बहुकालव्यापिनि प्रधाने कर्मण्यादृते. प्रमादिनः प्रमादवतः, न त्वेच्छायोगत इति श्रवणात्, अत्र इच्छायोगे, मजति मग्नं भवति। अन्यथा हि इच्छायोगाधिकारी भगवान् हरिभद्रसूरियोगदृष्टिसमुचयप्रकरणप्रारम्भे मृषावादपरिहारेण सर्वत्रौचित्याऽऽरम्भप्रदर्शनार्थ न त्वेच्छायोगतोऽयोगमित्यादि नावक्ष्यत् ; वाड्नमस्कारमात्रस्याल्पस्य विधिशुद्धस्यापि संभवात्। प्रतिपन्नस्वपर्यायान्तर्भूतत्वेन च प्रकृतनमस्कारस्यापि इच्छायोगप्रभवत्वमदुष्टमिति विभावनीयम् // 3 // यथाशक्त्यप्रमत्तस्य, तीव्रश्रद्धाऽवबोधतः। शास्त्रयोगस्त्वखण्डार्था-ऽऽराधनादुपदिश्यते // 4 // यथाशक्ति स्वशक्त्यनतिक्रमेण, अप्रमत्तस्य विकथाऽऽदिप्रमादरहितस्य, तीव्रौ तथाविधमोहापगमात्पटुतरौ, यौ श्रद्धाऽवबोधौ जिनप्रवचनाऽऽस्तिक्यतत्त्वपरिच्छेदी, तत अखण्डार्थाऽऽराधनात् कालाऽऽद्यविकलवचनानुष्ठानात् तु शास्त्रयोग उपदिश्यते॥ 4 // शास्त्रेण दर्शितोपायः, फलपर्यवसायिना। तदतिक्रान्तविषयः, सामर्थ्याऽऽख्योऽतिशक्तितः।।५।। फलपर्यवसायिना मोक्षपर्यन्तोपदेशेन शास्त्रेणदर्शितः सामान्यतो ज्ञापित उपायो यस्य, सामान्यतः फलपर्यवसानत्वाच्छास्त्रस्य द्वारमात्रबोधनेन विशेषहेतुदिकप्रदर्शकत्वात् अतिशक्तितः शक्तिप्राबल्यात्, तदतिक्रान्तविषयः शास्त्रातिक्रान्तगोचरः सामर्थ्याऽऽख्यो योग उच्यते।।५।। शास्त्रातिक्रान्तविषयत्वमस्य समर्थयन्नाहशास्त्रादेव नबुध्यन्ते, सर्वथा सिद्धिहेतवः। अन्यथा श्रवणादेव, सर्वज्ञत्वं प्रसज्ज्य ते॥ 6 // सिद्धिहेतवः सर्वे, सर्वथा सर्वैः प्रकारैः, शास्त्रादेवन बुध्यन्ते, अन्यथा शास्त्रादेव सर्वसिद्धिहेतूनां बोधे, सर्वज्ञत्वं प्रसज्ज्यते श्रवणादेव, सर्वसिद्धिहेतुज्ञाने सार्वज्ञसिद्ध्युपधायकोत्कृष्टहेतुज्ञानस्याप्यावश्यकत्वात्तदुपलम्भाऽऽख्यस्वरूपाऽऽचरणरूपचारित्रस्यापि विलम्बाभावात् सर्वसिद्ध्युपायज्ञानस्य सार्वज्ञव्याप्यत्वाच। तदिदमुक्तम्" सिद्ध्याख्यपदसंप्राप्ते-हेतुभेदान तत्वतः। शास्त्रादेवावगम्यन्ते, सर्वथैवेह योगिभिः॥१॥ सर्वथा तत्परिच्छेदात् , साक्षात्कारित्वयोगतः। तत्सर्वज्ञत्वसंसिद्धेः, तदा सिद्धिपदाऽऽप्तितः // 2 // " // 6 // प्रातिभज्ञानगम्यस्तत्, सामर्थ्याऽऽख्योऽयमिष्यते। अरुणोदयकल्पं हि, प्राच्यं तत्केवलार्कतः॥ 7 // तत्तस्मात् , प्रातिभज्ञानगम्योऽयं सामर्थ्याऽऽख्यो योग उच्यते, सार्वज्ञहेतुः खल्वयं मार्गानुसारिप्रकृष्टोहस्यैव विषयो, न तु वाचाम् , क्षपक श्रेणिगतस्य धर्मव्यापारस्य स्वानुभवमात्रवेद्यत्वादिति भावः / ननु प्रातिभमपि श्रुतज्ञानमेव, अन्यथा षष्टज्ञानप्रसङ्गात् , तथा च कथं शास्त्रातिक्रान्तविषयत्वमस्येत्यत आह-तत् प्रातिभं हि, केवलार्कतः केवलज्ञानभानुमालिनः, प्राच्यं पूर्वकालीनम् , अणोदयकल्पम् / / 7 / / एतदेव भावयतिरात्रेर्दिनादपि पृथग् , यथा नो वाऽरुणोदयः। श्रुताच केवलज्ञानात् , तथेदमपि भाव्यताम् / / 8 / / यथाऽरुणोदयो रात्रेर्दिनादपि पृथग् नो वा, अपृथगित्यर्थः। न पुनरत्रैकरूप्यं विवेचयितुं शक्यते, पूर्वापरत्वाविशेषेणोभयभागसंभवात्। श्रुतात् केवलज्ञानाच, तथेदमपि प्रातिभं ज्ञानं भाव्यता, तत्काल एव तथाविधक्षयोपशमभाविनस्तस्य श्रुतत्वेन तत्त्वतोऽसंव्यवहार्यतया श्रुतादशेषद्रव्यपर्यायाविषयत्वेन, क्षायोपशमिकत्वेन च केवलज्ञानाद्विभिन्नत्वात् केवलश्रुतपूर्वापरकोटिव्यवस्थितत्वेन, तद्धेतुकार्यतया च ताभ्यामभिन्नत्वात् // 8 // ऋतम्भराऽऽदिभिः शब्दैः, वाच्यमेतत्परैरपि। इष्यते गमकत्वं चा-मुष्य व्यासोऽपि यज्जगौ // 6 // एतत् प्रकृतं प्रातिभज्ञानं, परैरपि पातञ्जलाऽऽदिभिः, ऋतम्भराऽऽदिभिः शब्दै र्वाच्यमिष्यते, आदिना तारकाऽऽदिशब्दग्रहः / गमकत्वं सामर्थ्ययोगज्ञापकत्वं च, अमुष्य प्रातिभस्य परैरिष्यते, यद्यस्माद्यासोऽपि जगौ // 6 // आगमेनानुमानेन, ध्यानाभ्यासरसेन च। त्रिधा प्रकल्पयन प्रज्ञां, लभते योगमुत्तमम् / / 10 / / आगमेन शास्त्रेण, अनुमानेन लिङ्गाल्लिङ्गिज्ञानरूपेण, ध्यानाभ्यासस्य रसःश्रुतानुमानप्रज्ञाविलक्षण ऋतम्भराऽऽख्यो विशेषविषयः, तेन च; त्रिधा प्रज्ञा प्रकल्पयन् , उत्तमं सर्वोत्कृष्ट, योगं लभते।१०।। द्विधाऽयं धर्मसंन्यास-योगसंन्याससंज्ञितः।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy