SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ जोग 1626 - अभिधानराजेन्द्रः भाग - 4 जोग मूहैरवलम्बते यावद् मुद्राऽऽद्यालम्बनी, तावत् रूप्यावलम्बनी, स एव अर्हतसिद्धस्वरूपं ज्ञानदर्शनचारित्राऽऽद्यनन्तपर्यायविशुद्ध शुद्धाध्यात्मधर्ममवलम्बते इति / अरूप्यालम्बनी तत्र भाव्यतेअनादितो जीवो मूर्तपुदगलस्कन्धावलम्बनपरिणतः कथं प्रथमत एवामूर्ताऽऽनन्दरूपं स्वरूपमवलम्बते? यत अतिशयोपेतवीतरागमुद्राऽऽदकं परं मूर्त चालम्ब्य विषयकषायवद्धिकर स्त्रीधनाऽऽद्यवलम्बनं त्यज्यति इत्येका परावृत्तिः / पुनः स एव अतिशयाऽऽदिरूप मूर्त नालम्बनीयम् , अहं तु अमूर्तः, मूर्तभावरसिकत्वं नोपयुज्यते। यद्यपि अर्हतः संबद्धं तथापि औदयिकं नालम्बनम् , अनन्तगुणाऽऽलम्बनमुत्तममिति गुणावलम्बनी मूर्तान् भावान् नरसिकत्वेन गृह्णाति, सापेक्षपरत्वेन पश्यतीति द्वितीया परावृत्तिः / एवममूर्ताऽऽत्मगुणरसिको भवति, तेन परमेष्ठिस्वरूपं कारणेनावधार्य स्वीयासंख्येयप्रदेशव्याप्यव्यापकभावावच्छिन्नद्रव्यास्तिकपर्यायास्तिकानन्तस्वभावममलामूर्ताऽऽनन्दभयं ध्येयत्वेनावलम्बते इति तृतीया परावृत्तिरिति / साधनपद्धतिः सर्वेषां तत्स्वरूपसाधनम् , अरूपिगुणाः सिद्धगुणा, तेषां भावनं सायुज्यं तदात्मता, तया योग आत्मोपयोगयोजनं यद्यपि ईषदवलम्बन श्रताऽऽदीनां, तथापि अनालम्बनमेव पर उत्कृष्टो योगः। उक्तं च पाठकः" तत्राप्रतिष्ठितं खलु, यतः प्रवृत्तश्चलत्यतस्तत्र / सर्वोत्तमो हि मनुजः, तेनानालम्बनो गीतः // १॥"निरालम्बनयोगेन धारावाहिप्रशान्तवाहिता नाम चिन्तितस्य स्वरसतएव मनः सहजधारायां वर्तते, न प्रयासो भवति। उक्तं च विंशतिकायाम्-" आलंबणं पिएयं रूविमरुवीय इत्थ परमो त्ति / तगुणपरणइमित्तो, सुहमो आलंबणो नाम " // 1 // एकाग्रयोगस्यैवापरनाम अनालम्बनयोग इति / एवं स्थानाऽऽद्याः पञ्च इच्छाऽऽदिगुणिता विंशतिर्भवन्ति। ते च प्रत्येकमनुष्ठानचतुष्कयोजिता अशीतिप्रकारा भवन्ति // 6 // तत्स्वरूपनिरूपणायोपदिशतिप्रीतिभक्तिवचोऽसङ्गः, स्थानाऽऽद्यपि चतुर्विधम्। तस्मादयोगियोगाऽऽप्ते-र्मोक्षयोगः क्रमाद् भवेत् / / 7 / / एते स्थानाऽऽदयः, प्रीतिर्भक्तिर्वचनमसङ्ग इति भेदचतुष्टयरशीतिभेदाः भवन्ति / तस्माद् योगात्क्रमेण अयोगिनामा योगः, तस्याऽऽप्ति: प्राप्तिर्भवति, अयोगी योगशैलेशीकरणं सकलयोगचापल्यरहितो योगस्तं प्राप्नोति, तेनपुनः क्रमाद् मोक्षः।" सर्वकर्माभावलक्षण आत्मनस्तादात्म्यावस्थानं मोक्षः।" एवं योगः संयोगः, क्रमात् अनुक्रमेण भवति। (अथ प्रीत्याधनुष्ठानस्वरूपंतुषोडशकपाठेन' अणुट्टाण'शब्दे प्रथमभागे 377 पृष्ठेगतार्थम् ) एवं क्रमेण योगसाधनारतः सर्वयोगरोधं कृत्वा अयोगी भवति / / 7 / / स्थानाऽऽधयोगिनस्तीर्थो-च्छेदाऽऽद्यालम्बनादपि। सूत्रदाने महादोषः, इत्याचार्याः प्रचक्षते // 8 // इति स्थानाऽऽदिप्रवृत्तियोगरहितस्य सूत्रदानं महादोष इति आचार्या | हरिभद्राऽऽदयः, प्रचक्षते कथयन्ति, कस्मात् ? तीर्थोच्छेदाऽऽद्यालम्बनात् , निरास्तिकस्य सूत्रदाने कदाचित् कुप्ररूणाकरणेन तीर्थोच्छेदो भवति। उक्तं च विंशतिकायाम्"तित्थरसुच्छेया इति, णालंबणजंस एय एमेव। सुत्तकिरियाइनासो, एसो असमंजसविहाणो // 1 / / सो एस बंकओ चिअ, नअससमयमादियाणमविसेसा। एयं पि भावियव्यं, इह तित्थुच्छेदभीरूहि // 2 // मुत्तूण लोगसन्न, नाऊण य साहुसमयसमभावं। सम्म परियट्टित्वं, वुहेण मइनिउणबुद्धीए"।॥३॥ एवं प्रथम स्थानाऽऽदिविशुद्धिं कृत्वा इच्छाऽऽदिपरिणतः क्रमेण स्वस्वरूपाऽऽलम्बनाऽऽदि गृहीत्वा प्रीत्याद्यनुष्ठानेन असङ्गानुष्ठानयोगतः सर्वज्ञो भूत्वा अयोगीभूय सिद्धो भवति, अतः क्रमसाधना श्रेयस्करी। इति व्याख्यातं योगाष्टकम् // अष्ट० 27 अष्ट०। अध्यात्म भावना ध्यानं, समता वृत्तिसंक्षयः। योगः पञ्चविधः प्रोक्तो,योगमार्गविशारदैः॥१॥ द्वा०१८ द्वा० / अष्ट०। (सर्वे भेदाः ' भावणा शब्दे विवेचनासहिता वक्ष्यन्ते) (17) वृत्तिरोधोऽपि योगश्चेद् , भिद्यते पञ्चधाऽप्ययम्। मनोवाकायवृत्तीना, रोधे व्यापारभेदतः // 27 // मोक्षहेतुलक्षणो योगः पञ्चधा भिन्न इति प्रदर्शितं, वृत्तिरोधोऽपि चेद्योग उच्यते, अयमपि पञ्चधा भिद्यते, मनोवाकाय वृत्तीनां रोधे व्यापारभेदतोऽनुभवसिद्धानां भेदाना दुरपह्नवत्वात् : अन्यथा द्रव्यमात्रपरिशेषप्रसङ्गादिति भावः // 27 // प्रवृत्तिस्थिरताभ्यां हि, मनोगुप्तिद्वये किला भेदाश्चत्वार इष्यन्ते, तत्रान्त्यायां तथाऽन्तिमः॥ 28 // प्रवृत्तिः प्रथमाभ्यासः, स्थिरता उत्कर्षकाष्ठाप्राप्तिः, ताभ्यां मनोगुप्तिद्वये किल आद्याश्चत्वारो भेदा:-अध्यात्मभावनाध्यानसम-- तालक्षणा इष्यन्ते, व्यापारभेदादेकत्र क्रमेणोभयोः समावेशाद् यथोत्तरं विशुद्धत्वात्। तथाऽन्त्यायांचरमायां,तत्र मनोगुप्तौ, अन्तिमो वृत्तिसंक्षय इष्यते / इत्यं हि पञ्चापि प्रकारा निरपाया एवं / / 28 // विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम्। आत्माऽऽरामं मनश्चेति, मनोगुप्तिस्त्रिधोदिता // 26 // विमुक्तं परित्यक्तं, कल्पनाजालं संकल्पविकल्पचक्रं, येन तत् ; तथा समत्थे सुप्रतिष्ठितं सम्यग व्यवस्थितम् , आत्माऽऽरामं स्वभावप्रतिबर्द्ध, मनः, तदहस्तद्वेदिभिः, मनोगुप्तिस्त्रिधा त्रिभिः प्रकारैः, उदिता कथिता // 26 // अन्यासामवतारोऽपि, यथायोग विभाव्यताम्। यतः समितिगुप्तीनां, प्रपञ्चो योग उत्तमः।॥३०॥ अन्यासां वाकायगुप्तीर्यासमित्यादीनाम् , अवतारोऽप्यन्तर्भावो-ऽपि, यथायोगं यथास्थानं, विभाव्यतां विचार्यतां, यतो यस्मात् / समितिगुप्तीनां प्रपञ्चो यथापर्याय विस्तारो, योग उच्यते उत्तम उत्कृष्टः, न तु समितिगुप्तिविभिन्न स्वभावो योगपदार्थोऽतिरिक्तः कोऽपि विद्यत इति // 30 // उपायत्वेऽत्र पूर्वेषा-मन्त्य एवावशिष्यते। तत्पञ्चमगुणस्थाना-दुपायोऽर्वागिति स्थितिः॥३१॥ अत्राध्यात्माऽऽदिभेदेषु योगेषु पूर्वेषामध्यात्माऽऽदीनाम्, उपायत्वे योगोपायत्वमात्रे वक्तव्ये, अन्त्य एव वृत्तिक्षय एव योगोऽवशिष्यते। तत्तस्मात्, पञ्चमगुणस्थानादर्वाक् पूर्वसेवारूप उपायः, तत आरभ्यतु सानुबन्धयोगप्रवृत्तिरेवेति स्थितिः सत्तन्त्रमर्यादा // 31 //
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy