SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ जोग 1625 - अभिधानराजेन्द्रः भाग-४ जोग गस्योपपादनात् व्यवस्थापनात् , क्रियमाणं कृतमिति तदभ्युपगमाद् आद्यसमये तदनुत्पत्लावग्रिमसमयेष्वपि तदनुत्पत्त्यापत्तेः / वस्तुतो योगविशेषप्रारम्भकालेऽपि कर्मक्षतरूपफलान्यथाऽनुपपत्त्या व्यवहारेणापि योगसामान्यसद्भावोऽवश्याभ्युपेय इति प्रागुक्तातिव्याप्तिर्वज्रलेपायितैव। तस्मान्मदुक्तं लक्षणं मोक्षमुख्यहेतुव्यापारः, इत्येवरूप, सतां व्युत्पन्नानाम् , अदुष्टत्वप्रतिपत्तिद्वारा परमाऽऽनन्दकृत् / / 32 // द्वा०११ द्वा०। (15) योगभेदाः-अत्र मिथ्यात्वाऽऽदिहेतुगतं मनोवाक्काययोग-त्रयम् तय कर्मवृद्धिहेतुत्वाद्न ग्राह्यम् , किंतु मोक्षसाधनहेतुभूतं शुद्धाध्यात्मभावनाभावितचेतनावीर्यपरिणामसाधनकारकप्रवर्तनरूपं ग्राह्य द्रव्यभावभेदं बाह्याऽऽचारविशोधिपूर्वकाभ्यन्तराऽऽचारशुद्धिरूपम्मोक्षेण योजनाद् योगः, सर्वोऽप्याचार इष्यते। विशिष्य स्थानवार्था-ऽऽलम्बनैकाग्रयगोचरः॥१॥ सकलकर्मक्षयो मोक्षः, तेन योजनादयोग उच्यते / स च सर्वोऽप्याचारी जिनशासनोक्तः चरणसप्ततिकरणसप्ततिरूपो मोक्षोपायत्वाद् योग इष्येते / तत्र विशेषेण स्थानम् १,वर्णः 2, अर्थः 3, आलम्बनम् 4, एकाग्रता 5, इति पञ्चप्रकारयोगो मोक्षोपायहेतुर्गतः, इत्यनेनानादिपरभावाऽऽसक्तभवभ्रमणग्रहात् पुद्गलभोगभग्नानां न भवत्ययमभिप्रायः-- यतोऽस्माकं मोक्षः साध्योऽस्ति। संच गुरुवचनस्मरणतत्त्वजिज्ञासाऽऽदियोगेन स्वरूपं निर्मलं निःसङ्गं परमाऽऽनन्दमयं स्मृत्यं तत्कथाश्रवणप्रीत्यादिकं करोति, स परम्परया सिद्धियोगी भवति। न हि मरुदवोवत सर्वेषामल्पप्रयासा सिद्धिः, तस्या हि अनल्पाऽऽशातनादोषकारकत्वेन निष्प्रयासा सिद्धिः / अन्यजीवानां चिराऽऽशातनाबद्धगाढकर्मणां तु स्थानाऽऽदिक्रमेणैव भवति॥१॥ अथ योगपञ्चके बाह्यान्तरङ्गसाधकत्वमुपदिशतिकर्मयोगद्वयं तत्र, ज्ञानयोगत्रयं विदुः। विरतेष्वेष नियमाद् , बीजमात्रं परेष्वपि / / 2 // तत्र मोक्षसाधने, कर्मयोगद्वयं, क्रियाऽऽचरणायोगरूपम् , त्रयम् अर्थप्रमुखं, ज्ञानयोग विदुः प्राहुर्बुधाः / तत्र विंशतिकाऽनुसारेण लक्षणाऽऽदिकं निरूप्यतेतत्र स्थानरूपं कायोत्सर्गाऽऽदिजेनाऽ5गमोक्तक्रियाकरणे करचरणाऽऽसनमुद्रारूपम्। उक्तं च विंशतिका-याम्" ठाणवणत्थालवणरहिओ तंतम्मि पंचहा एसो। दुगमित्थकम्मजोगो, तहा तियं नाणजोगो उ"||१॥ एष पञ्चप्रकारो योगः, विरतेषु देशविरतसर्वविरतेषु, नियमाद्भवति। योगपञ्चकं हि चापल्यवारणम् , तेन योगवता भवितव्यम् / परेषु मार्गानुसारिप्रमुखेषु बीजमात्रं भवति किञ्चिन्मात्रं भवति / उक्तं च विंशतिकायाम्-"देसे सव्वे य तहा, नियमेण सो | चरित्तिणो होइ / इयरस्स वीयमित्तं, इति चेअ केइ इच्छति।। 1 / / " (16) अत्र योगोत्पत्तिहेतवः प्रोच्यन्तेकृपानिर्वेदसंवेग-प्रशमोत्पत्तिकारिणः। भेदाः प्रत्येकमत्रेच्छा-प्रवृत्ति स्थिरसिद्धयः॥३।। कृपा अनुकम्पादुःखितेषु दुःखमोचनलक्षण आर्द्रतापरिणामः। निर्वेदः भवोद्वेगःचतुर्गतिषु चारकवद्भासनम् / संवेगः मोक्षाभिलाषः, प्रशमः कषायाभावः / एते परिणामाःयो योगो मोक्षोपायः, तस्योत्पत्तिकारिणः करणशीलाः, एतादृक्परिणामपरिणतस्य संसारोद्विग्नस्य शुद्धाऽऽत्मस्वादेच्छकस्य योगसाधना भवन्ति। अत्र योगपञ्चके, प्रत्येक एकैकस्य चत्वारो भेदाः / ते च इमे-इच्छा 1, प्रवृत्तिः 2, स्थिरता 3, सिद्धिः 4 इत्येवं भेदा ज्ञेयाः। उक्तं च विंशतिकायाम्- " इक्विको यचउद्धा, इत्थं पुण तत्तओ मुणेयव्वो। इच्छापवित्तिथिरसिद्धिभेयओ समयनीईए' / / 1 // इत्यादि।। 3 / / इच्छा तदत्कथाप्रीतिः, प्रवृत्तिः पालनं परम्। स्थैर्य बाधकभीहानिः, सिद्धिरन्यार्थसाधनम् / / 4 / / इच्छा साधकभावाभिलाषः, तद् योगपञ्चकं येषु विद्यन्ते तद्वन्तः श्रमणाः, तेषां कथासु गुणकथनाऽऽदिषु, प्रीतिःइष्टता / उक्तं च हरिभद्रपूज्यैः-" तज्जुत्तकहापीई, समयादविपरीणामणी इच्छा।" इति। तस्य सम्यग्दर्शनाऽऽदिगुणवृद्धिहेतुभूतं क्रियाश्रुताभ्यासपालनं परंपरा उत्कृष्टा सा प्रवृत्तिः / उक्तं च- " सव्वत्थुवसम---२, तप्पालणगा पवित्तीओ।" इति / इत्येवं योगद्वयं बाह्यरूपत्वात् क्रियामुख्यत्वात् साध्यावलम्बिना कारणरूपम् / शेषाणां तु शुभबन्धनिबन्धनं स्थैर्यबाधका अशुद्धाध्यवसाया अतीचाराः, तेषा भीर्भयं, तस्य हानिरभावः, निरतिचारगुणपालनारूपं यत्र तत् स्थैर्यम् / क्षयोपशमोऽपि अतिगुणसाधनापरिणमनेन सहजभावत्वात् निर्दोषगुणसाधनो भवति। उक्तंच-" तह चेव एयबाधगचिंतारहियं थिरत्तणं नेयं।"शुद्धानामर्थानां परमात्मरूपाणां साधनं स्वरूपालम्बनं शुद्धतत्त्वसाधनं सिद्धिः / उक्त च- " सव्वं परमत्थसाहगरूवं पुण होइ सिद्धि त्ति / " एवं सप्रभेदं ज्ञेयम // 4 // यावद् ध्यानैकत्वं न भवति तावद् न्यासमुद्रावर्णशुद्धिपूर्वकमावश्यकचैत्यवन्दनप्रत्युपेक्षणाऽऽदिकमुपयोगयोगचापल्यवारणार्थमवश्यं करणीयं, महद् हितकरं सर्वजीवानां, तेन स्थानवर्णक्रमेण तत्त्वप्राप्तिरितिअर्थाऽऽलम्बनयोश्चैत्य-वन्दनाऽऽदौ विभावनम्। श्रेयसे योगिनः स्थान-वर्णयोर्यत्र एव च / / 5 / / अर्थो वाक्यस्य भावार्थः, आलम्बनं वाच्ये पदार्थे अर्हत्स्वरूपे उपयोगस्यैकत्वम् , अर्थश्च आलम्बनं च अर्थालम्बने, तयोश्चैत्यवन्दनाऽऽदौ अर्हद्वन्दनाधिकारे, विभावनं स्मरणं करणीय, श्रेयसे कल्याणार्थ, च पुनः, स्थानं वन्दनकं कायोत्सर्गशरीरावस्थानम् . आसनमुद्राऽऽदिके, वर्णा अक्षराणि, तयोर्यत्र एव शुद्धिः श्रेयसे कल्याणाय भवति / उक्तं चाऽऽवश्यके. "जं वाइद्धं, वच्चामेलियं, हीणक्खरं, अमक्खरं, पयहीणं, विणयहीणं, घोसहीणं, जोगहीणं, सुलु दिन्नं, दुठ्ठ पडिच्छियं, अकाले कओ सज्झाओ, कालेनकओ सज्झाओ, असज्झाए सज्झाइयं, सज्झाए न सज्झाइयं, तस्स मिच्छा मि दुक्कडं।" इत्यनेन द्रव्यक्षेत्रकालविशुद्धौ भावसाधनसिद्धिः, तेन द्रव्यक्रिया हिता॥ 5 // आलम्बन मिह ज्ञेयं, द्विविधं रूप्यरूपि च / अरूपि गुणसायुज्यं, योगानालम्बनं परम् // 6 // इह जैनमार्गे, आलम्बनं द्विविधं ज्ञेयम्। एकं रूपि, अपरम् -अरपि। तत्र रुप्यालम्बनं जिनमुद्राऽऽदिकपिण्डस्थपदस्थरूपस्थपर्यन्तं यावत् अर्हदवस्थाऽऽलम्बनं, तावत् कारणावलम्बन शरीरातिशयो येन रूप्यवलम्बनं, तत्र अनादिपरभावशरीरधनस्वजनावलम्बो परत्र परिणतचेतनः विषयाऽऽस्वादाऽऽद्यर्थ तीर्थङ्कराऽऽद्यवलम्बनमपि भवहेतुः / तथैव यः स्वरूपाऽऽनन्दपिपासितः स्वरूपसाधनार्थ प्रथमं कारणरूपं जिनेश्वरं वीतरागाऽऽदिगुणस
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy