SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ जोग 1624 - अभिधानराजेन्द्रः भाग - 4 जोग र्थकत्वव्याप्या, संहत्वकारिता संभूयमिलितार्थक्रियाकारिता, मानमतिरिक्ताऽऽत्मनि प्रमाणं, यत्संहत्यार्थक्रियाकारि तत्परार्थं दृष्टम्, यथा शय्याशयनाऽऽसनाऽऽद्यर्थाः / सत्त्वरजस्तमांसि च चित्तलक्षणपरिणामभाञ्जि संहत्यकारीणि, अतः परार्थानि, यच परः स पुरुष इति / तदुक्तम्-" तदसंख्येयवासनाभिश्चित्तमपि परार्थ, संहत्यकारित्वादिति / " (4-24) / / 23 // कुतः ? इत्याहसत्त्वाऽऽदीनामपि स्वाङ्गि-न्युपकारोपपत्तितः। बुद्धिर्नामैव पुंसस्तत् , स्याच तत्त्वान्तरव्ययः।। 24 / / सत्त्वाऽऽदीनां धर्माणां, स्वाङ्गिन्यपि स्वाऽऽश्रयेऽपि, उपकारोपपत्तितः फलाऽऽधानसंभवादुक्तनियमे मानाभावात् सत्त्वाऽऽदौ सं-हत्यकारित्वस्य विलक्षणत्वात्। अन्यथा-असंहतरूपपरासिद्धेधर्माणां साश्रयत्वव्याप्तेश्च बुद्ध्यैव सफलत्वाद् नैवमात्मा कश्चिदतिरिक्तः सिद्धयेदिति भावः। तत्तस्माद् बुद्धिः पुंसः पुरुषस्यैव नाम स्यात् / च पुनः, तत्त्वान्तव्ययोऽहङ्काराऽऽदितत्त्वोच्छेदः स्यात् // 24 // तथाहिव्यापारभेदादेकस्य, चायोः पञ्चविधत्ववत्। अहङ्काराऽऽदिसंज्ञानो-पपत्तिसुकरत्वतः।। 25 / / एकस्य वायोः, व्यापारभेदादूर्द्धगमनाऽऽदिव्यापारभेदात, पञ्चविधत्ववत्-पञ्च वायवः प्राणापानाऽऽदिभेदादिति व्यपदेशषत् / अहङ्काराऽऽदिसंज्ञानानामुपपत्तेः सुकरत्वतः सौकर्यात् / तथाहिबुद्धिरेवाहङ्कारथ्यापार जनयन्ती अहङ्कार इत्युच्यताम् , सैव च प्रसुवस्वभावा साधिकारा प्रकृतिरिति व्यपदिश्यताम् , किमन्तर्गडु तत्त्वान्तरपरिकल्पनयेति / / 25 / / पुंसश्च व्यञ्जकत्वेऽपि, कूटस्थत्वमयुक्तिमत्। अधिष्ठानत्वमेतच्चेत् , तदेत्यादिनिरर्थकम् // 26 // पुंसः पुरुषस्य च, व्यञ्जकत्वेऽभ्युपगम्यमाने, कूटस्थत्वमयुक्ति- | मदसङ्गतम् / अभिव्यञ्जकत्वं ह्यभिव्यक्तिजनकत्वम् / तथा च-" अकारणमकार्य च पुरुषः" इति वचनं व्याहन्येतेति भावः / अधिष्ठानत्वमभिव्यक्तिदेशाऽऽश्रयत्वम्, एतद्व्यञ्जकत्वं, पुरुषस्तुसदैकरूप इति चेत् , तर्हि तदेत्यादि" तदा द्रष्टुः स्वरूपावस्थानम्।" (-3) इति सूत्रं निरर्थकम् , तदेत्यस्य व्यवच्छेद्याभावात्। काल्पनिकत्वे चैतद्विषयस्य घटाऽऽदिव्यवहारविषयस्यापित-थात्वाऽऽपत्तौ शून्यवादिमतप्रवेश इति भावः // 26 // निमित्तत्वेऽपि कौटरथ्य-मथास्यापरिणामतः। स्याइँदो धर्मभेदेन, तथापि भवमोक्षयोः / / 27 / / अथास्याऽऽत्मनो, निमित्तत्वेऽपि, सत्त्वनिष्ठामभिव्यङ्गयां चिच्छक्तिं प्रति, अपरिणामतः परिणामाभावात् / कौटस्थ्यमकारणमित्यस्यानुपादानकारणमित्यर्थात् उपादानकारणस्यैव परिणामित्वात् परिणामस्य चावस्थान्तरगमनलक्षणत्वादिति भावः / तथाऽपि भवमोक्षयोः संसारापवर्गयोः, धर्मभेदेन भोगनिमित्तानिमित्तत्वधर्मभेदेन, स्यात्कथञ्चित्, भेद आवश्यकः / मोक्षेऽपिपूर्वस्वभावसत्त्वे कारणान्तराभावान्न भोग इति को भेद इति चेत् ? सौम्य ! कथं तर्हि न भवमोक्षोभयस्वभावे विरोधः ? उभयैकस्वभावन्वाद् नायमिति चेद् भयन्तरेणायमेव स्याङ्गाद इति किं वृथा खिद्यसे ? // 27 // प्रसङ्गतादवस्थ्यं च, बुद्धर्भदेऽपि तत्त्वतः। प्रकृत्यन्ते लये मुक्ते-न चेदव्याप्यवृत्तिता / / 28 // बुद्धे देऽपि प्रत्यात्मनियतत्वेऽप्यभ्युपगम्यमाने, तत्त्वतः परमा-र्थतः, प्रकृत्यन्ते प्रकृतिविश्रान्ते, लये दुःखध्वंसे सति, प्रसङ्गतादवस्थ्यम् , एकस्य मुक्तावन्यस्यापि तदापत्तिरित्यस्यापरिहार एव, प्रकृतेरेव मुक्तेरभ्युपगम्यमानत्वात् , तस्याश्च मुक्तत्वामुक्तत्वोभयविरोधात्। एकत्र वृक्षे संयोगतदभावयोरिव प्रकृतौ विभिन्नबुद्ध्यवच्छेदेन न मुक्तत्वामुक्तत्वयोर्विरोध इत्यत आह-चेयदि, मुक्तेरव्याप्यवृत्तिता, न अभ्युपगम्यत इति शेषः / तदभ्युपगमे च मुक्तेऽप्यमुक्तत्वव्यवहाराऽऽपत्तिरेव दूषणम्। किं चैव मुक्तस्याप्यात्मनो भवस्थशरीरावच्छेदेन भोगाऽऽपत्तिरिति तत्प्रकृतिनिवृत्तिरवश्यमभ्युपेयेति द्रष्टव्यम् // 28 // प्रधानभेदे चैतत् स्यात् , कर्मबुद्धिगुणः पुमान् / स्याद् ध्रुवश्चाधुवश्चेति, जयताद् जैनदर्शनम् // 26 // उक्तदोषभिया प्रधानभेदे चाभ्युपगम्यमाने, आत्मभोगापवर्गनिर्वाहकमेतत् कर्म स्यात् . पुमान् पुरुषः बुद्धिगुणः स्यात् / बुद्धिलब्धिज्ञानानामनर्थान्तरत्वात्। स्यात्कथञ्चिद्, ध्रुवश्च द्रव्यतोऽध्रु-वश्च पर्यायतइत्येवं जैनदर्शनं जयताद् , दोषलवस्याप्यस्पर्शात्। ननु चपुंसो विषयग्रहणसमर्थत्वेनैव चिद्रूपत्यं व्यवतिष्ठत इति विकल्पाऽsत्मकबुद्धिगुणत्वं न युक्तम् , अन्तर्बहिर्मुखव्यापारद्वयविरोधादिति चेत्। न। अनुभूयमानक्रमिकैकोपयोगस्वभावत्वेन तदविरोधादिति / / 26 // तथा च कायरोधाऽऽदा-वव्याप्तं प्रोक्तलक्षणम्। एकाग्रताऽवधौ रोधे, वाच्ये च प्राचि चेतसि / / 30 // तथा च जैनदर्शनजयसिद्धौ च, प्रोक्तलक्षणं पतञ्जल्युक्तयोगलक्षणम्, कायरोधाऽऽदावव्याप्तम् , आदिना वानिरोधाऽऽदिग्रहः / एकाग्रताऽवधावेकाग्रतानिरोधमात्रसाधारणे च रोधे वाच्ये, प्राचि एकाग्रतायाः पृष्ठभाविनि, चेतस्यध्यात्माऽऽदिशुद्धे, व्याप्तम्॥३०॥ योगाऽऽरम्भोऽथ विक्षिप्ते, व्युत्थानं क्षिप्तमूढयोः। एकाग्रे च निरुद्ध च, समाधिरिति चेन्न तत् / / 31 / / अथ विक्षिप्ते चित्ते योगाऽऽरम्भः क्षिप्तमूढयोश्चित्तयोर्युत्थानम् , एकाग्रे च निरुद्ध च चित्ते समाधिरिति एकाग्रतापृष्ठभाविनश्चित्तस्यालक्ष्यत्वादेव न तत्राव्याप्तिः / क्षिप्तं हि रजस उद्रे कादस्थिरं बहिर्मुखतया सुखदुःखाऽऽदिविषयेषुकल्पितेषु सन्निहितेषु वा रजसा प्रेरितम् , तच सदैव दैत्यदानवाऽऽदीनाम् , मूढ तमस उद्रेकात्कृत्याकृत्यावभागासंगतं क्रोधाऽऽदिभिर्विरुद्धकृत्येष्वेव नियमितम् , तब सदैव रक्षःपिशाचाऽऽदीनाम् , विक्षिप्तं तु सत्त्वोद्रेकात्परिहृतदुःखसाधनेष्वेव शब्दाऽऽदिषु प्रवृत्तम , तथ सदैव देवानाम् / एतास्तिरश्चित्तावस्था न समाधावुपयोगिन्यः / एकाग्रतानिरुद्धरूपे द्वे एव सत्त्वोत्कर्षायथोत्तरमवस्थितत्वाच समाधावुपयोगं भजेते इति चेद् , न तत् / / 31 / / योगाऽऽरम्भेऽपि योगस्य, निश्चयेनोपपादनात्। मदुक्तं लक्षणं तस्मात् , परमाऽऽनन्दकृत् सताम् // 32 // योगाऽऽरम्भेऽपि योगप्रारम्भकालेऽपि, निश्चयेन निश्चयनयेन, यो
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy