SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ जोग 1623- अभिधानराजेन्द्रः भाग - 4 जोग द्धिसंवेदनम्।"(४-२२)" द्रष्टदृश्योपरक्तं चित्तं सर्वार्थम्। (4-23) यथा हि निर्मलं स्फटिकदर्पणाऽऽद्येव प्रतिबिम्बग्रहणसमर्थम् , एवं रजस्तमोभ्यामनभिभूतं सत्त्वं शुद्धत्वाचिच्छायाग्रहणसमर्थं, न पुनरशुद्धत्वाद्रजस्तमसी / ततो न्यग्भूतरजस्तमोरूपमङ्गितया सत्त्वं निश्चलप्रदीपशिखाऽऽकारं सदैवैकरूपतया परिणममानं चिच्छायाग्रहणसामर्थ्यादामोक्षप्राप्तेरवतिष्ठते, यथाऽयस्कान्तसन्निधाने लोहस्य चलनमाविर्भवति, एवं चिद्रूपपुरुषसन्निधाने सत्त्वस्याभिव्यङ्ग्यमभिव्यज्यते चैतन्यमिति॥ 15 // इत्थं च द्विविधा चिच्छक्तिरित्याहनित्योदिता त्वभिव्यङ्ग्या, चिच्छक्तिििवधा हि नः। आद्या पुमान् द्वितीया तु, सत्त्वे तत्सन्निधानतः॥१६॥ नित्योदिता, तु पुनः, अभिव्यङ्ग्या, द्विविधा हि नः-अस्माकं चिच्छक्तिः-आद्या नित्योदिता पुमान् पुरुष एव, द्वितीयाऽभिव्यङ्ग्या तु, तत्सन्निधानतः पुंसः सामीप्यात् , सत्त्वे सत्त्वनिष्ठा / यद्भोज:-" अत एवारिमनदर्शने द्वे चिच्छक्तीनित्योदिता, अभिव्यङ्ग्या च / नित्योदिता चिच्छक्तिः पुरुषः तत्सन्निधानाभिव्यक्तयाऽभिष्वङ्गं चैतन्यं सत्त्वमभिव्यझ्या चिच्छक्तिरिति / / 16 / / इत्थं च भोगोपपत्तिमप्याहसत्त्वे पुंस्थितचिच्छाया-समाऽन्या तदुपस्थितिः। प्रतिबिम्बाऽऽत्मको भोगः, पुंसि भेदाऽऽग्रहादयम् // 17 / / सत्त्वे बुद्धेः सात्त्विकपरिणामे, पुंस्थिता या चिच्छाया, तत्समा याऽन्या, सा स्वकीयचिच्छाया, तस्या उपस्थितिरभिव्यक्तिः, प्रतिबिम्बाऽऽत्मको भोगः / अन्यत्रापि हि प्रतिबिम्बे प्रतिबिम्ब्यमानच्छायासदृशच्छायान्तरोद्भव एव प्रतिबिम्बशब्देनोच्यते। पुंसि पुनरथंभोगोभेदाऽऽग्रहादत्यन्तसान्निध्येन विवेकाग्रहणाद् व्यपदिश्यते। यत्तु व्यापकस्यातिनिर्मलस्य चाऽऽत्मनः कथं सत्त्वे प्रतिबिम्बनमिति? तन्न। व्यापकस्याप्याकाशस्य दर्पणाऽऽदावप्रकृष्टनर्मल्यवति च जलाऽऽदावादित्याऽऽदीनां प्रतिबिम्बदर्शनात् स्वस्थितचिच्छायासदृशचिच्छायाऽभिव्यक्तिरूपस्य प्रतिबिम्बस्य प्रतिबिम्बान्तरवैलक्षण्याचेति भोजः / / 17 / / इत्थं प्रत्यात्मनियतं, बुद्धितत्त्वं हि शक्तिमत्। निर्वाहे लोकयात्रायाः, ततः क्वातिप्रसञ्जनम् ? ||18|| इत्थमुक्तप्रकारेण, प्रत्यात्मनियतम् आत्मानमात्मानं प्रति नियतफलसंपादकम् / बुद्धितत्त्वं हि लोकयात्राया लोकव्यवहारस्य निर्वाह व्यवस्थापने, शक्तिमत्समर्थम् , ततः क्वातिप्रसञ्जनं, योगादेकस्य मुक्तावन्यस्यापि मुक्त्यापत्तिरूप, प्रकृतेः सर्वत्रैकत्वेऽपि बुद्धिव्यापारभेदेन भेदोपपत्तेः। तथा च सूत्रम्-" कृतार्थं प्रति नष्टमप्यनष्ट तदन्यसाधारणत्वादिति।" (2-22) / / 18|| यत्रोक्तम्-" जडायाश्च पुमर्थस्य " इत्यादि, तत्राऽऽहकर्तव्यत्वं पुमर्थस्या-नुलोम्यप्रातिलोम्यतः। प्रकृतौ परिणामानां, शक्ती स्वाभाविके उभे // 16 // पुमर्थस्य कर्तव्यत्वं प्रकृतौ परिणामानां महदादीनाम, आनुलोम्यप्रतिलोम्यतः, उभे शक्ती स्वाभाविके स्वभावसिद्धे, पुमर्थ सतीति शेषः / न त्वन्यद् , महदादिमहाभूतपर्यन्तः खल्वस्या बहिर्मुखतयाऽनुलोमः परिणामः, पुनः स्वकारणानुप्रवेशद्वारेणारिमतान्तः प्रतिलोमः परिणामः / इत्थं च पुरुषस्य भोगपरिसमाप्तेः सहजशक्ति द्वयक्षयात् कृतार्था प्रकृतिः, न पुनः परिणाममारभते / एवंविधायां च पुरुषार्थकर्तव्यतायां प्रकृतेर्जडत्वेन कर्तव्याध्यवसायाभावेऽपि न काचिदनुपपत्तिरिति / / 16 / / ननु यदि प्रतिलोमशक्तिरपि सहजैव प्रधानस्यास्ति, तत् किमर्थ योगिभिर्मोक्षार्थ यत्रः क्रियते? मोक्षस्य चानर्थ नीयत्वे तदुपदेशकशास्त्रस्याप्यानर्थक्यमित्यत आहन चैवं मोक्षशास्त्रस्य, वैयर्थ्य प्रकृतेर्यतः। ततो दुःखनिवृत्यर्थं, कर्तृत्वस्मयवर्जनम् // 20 / / न चैवं मुक्तौ प्रकृतेरेव सामर्थ्य, मोक्षशास्त्रस्य वैयर्थ्यमानर्थक्य, यतो यस्मात् , ततो मोक्षशास्त्राद् , दुःखनिवृत्त्यर्थ दुःखनाशाय, प्रकृतेः प्रधानस्य, कर्तृत्वस्मयस्य कर्तृत्वाभिमानस्य, वर्जनं निवृत्तिर्भवति / अनादिरेव हि प्रकृतिपुरुषयोभॊक्तृभाग्यभावलक्षण: संबन्धः, तस्मिन् सति, व्यक्तमचेतनायाः प्रकृतेः कर्तृत्वाभिमानाद् दुःखानुभावे सति ' कथमियं दुःखनिवृत्तिरात्यन्तिकी मम स्यात् ' इति भवत्येवाध्यवसायः, अतो दुःखनिवृत्त्युपायोपदेशकशास्त्रोपदेशापेक्षाऽप्यस्य युक्तिमतीति / / 20 // ध्यक्त कैवल्यपादेऽदः, सर्व साध्विति चेन्न तत्। एवं हि प्रकृतेर्मोक्षो, न पुंसस्तददो वृथा / / 21 / / कैवल्यपादे योगानुशासनचतुर्थपादे, अद एतत् , व्यक्तं प्रकटं, सर्वमखिलं, साधु निर्दोषमिति / समाधत्ते-इति चेन्न तत् , यत्प्राक प्रपञ्चितं, हि यतः, एवमुक्तरीत्या, प्रकृतेर्मोक्षः स्यात् , तस्या एव कर्तृत्वाभिमाननिवृत्त्या दुःखनिवृत्त्युपपत्तेः, न पुंसः, तस्याबद्धत्वेन मुक्त्ययोगाद् , मुचेर्बन्धनविश्लेषार्थत्वात् / तत्तस्माददो वक्ष्यमाणं भवद्ग्रन्थोक्तं, वृथा कण्ठशोषमात्रफलम्।। 21 / / पञ्चविंशतितत्त्वज्ञो, यत्र तत्राऽऽश्रमे रतः। जटी मुण्डी शिखी वाऽपि, मुच्यते नात्र संशयः / / 22 / / अत्र हि पञ्चविंशतितत्वज्ञानात् पुरुषस्यैव मुक्तिरुक्ता, सा च न संभवतीति / न च भोगव्यपदेशवन्मुक्तिव्यवदेशोऽप्युपचारादेव पुंसि संभवतीति वाच्यम् : एवं हि तत्र चैतन्यस्याप्युपचारेण सुवचत्वाऽऽपत्तेः। बाधकाभावान्न तत्र तस्योपचार इति चेत् तत्र कृत्याऽऽदि-सामानाधिकरण्यस्याप्यनुभूयमानस्य किं बाधकम् ? येन तेषां भिन्नाऽऽश्रयत्वं कल्प्यते / आत्मनः परिणामित्वाऽऽपत्तिर्वाधिकेति चेद, न। तत्परिणामित्वेऽप्यन्वयानपायात् , अन्यथा चित्तस्यापि तदनापत्तेः, प्रतिक्षणं चित्तस्य नश्वरत्वोपलब्धेः।" अतीतानागतं स्वरूपतोऽस्त्यध्वभेदो धर्माणाम्।" (4-12)" ते व्यक्तसूक्ष्मगुणाऽऽत्मानः।" (413)" परिणामैकत्वाद्वस्तुतत्त्वमिति।" (4-14) सू. पर्यालोचनाधर्मभेदेऽपि तेषामङ्गाङ्गिभावपरिणामैकत्याद् न चित्तानन य इति चेत् , तदेतदात्मन्येव पर्यालोच्यमानं शोभते, कूटस्थत्वश्रुतेः राऽऽदिभेदपरत्वेनाप्युपपत्तेरिति सम्यग् विभावनोयम् / / 22 // किञ्चबुद्ध्या सर्वोपपत्तौ च, मानमात्मनि मुग्यते। संहत्यकारिता मानं, पारार्थ्यनियता च न / / 23 // बुद्ध्या महत्तत्त्वेन, सर्वोपपत्तौ सकललो क यात्रानिर्वाहे च सति, आत्मनि मानं प्रमाणं मृग्यते / कृत्याऽऽद्याश्रयव्यतिरिक्त आत्मनि प्रमाणमन्वेषणीयमित्यर्थः / न च परार्यनियता परा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy