________________ जोग 1622 - अभिधानराजेन्द्रः भाग-४ जोग दिः / अनुश्रूयते गुरुमुखादित्यनुश्रवो वेदः, ततः प्रतीयमान आनुश्रविक इति व्युत्पत्तेः / तयोः परिणामविरसत्वदर्शनाद् , वितृष्णस्य विगतगर्धस्य, या वशीकारसंज्ञा' ममैवैते वश्या नाहमेतेषांवश्यः इत्येवं विमर्शाऽऽत्मिका / तदपरं वक्ष्यमाणपरवैराग्यात्पाश्चात्यं वैराग्यं स्यात् अनधीनता फलतः पराधीनताऽभावरूपम्। तदाह-" दृष्टाऽऽनुश्रविकनिषयावितृष्णस्य वशीकारसंज्ञा वैराग्यमिति।" (1-15) / / 8 / / तत्परं जातपुंख्याते-गुणवैतृष्ण्यसंज्ञकम् / बहिर्वमुख्यमुत्पाद्य, वैराग्यमुपयुज्यते / / 6 / / जातपुंख्यातेरुत्पन्नगुणपुरुषविवेकख्यातेः, गुणवैतृष्ण्यसंज्ञक गुणेष्वपि तृष्णाऽभावलक्षणम् , यथार्थाभिधानं, परं प्रकृष्ट, तद्वैराग्यम्। तदाह-" तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यमिति। "(1-16) प्रथमं हि विषयविषयं, द्वितीयं च गुणविषयमिति भेदः / बहिर्बाह्यविषये वैमुख्य दोषदर्शनजत्वात्प्रवृत्त्यभावलक्षणमुत्पाद्य वैराग्यमुपयुज्यते उपकाराऽऽधायकं भवति / / 6 / / निरोधे पुनरभ्यासो, जनयन् स्थिरतां दृढाम्। परमाऽऽनन्दनिष्यन्द-शान्तस्रोतःप्रदर्शनात्।।१०] निरोधे चित्तवृत्तिनिरोधे, अभ्यासः पुनर्दृढामतिशयितां स्थिरतामवस्थितिलक्षणां जनयन् , परमाऽऽनन्दनिष्यन्दस्यातिशयितसुखार्णवनिर्झरभूतस्य शान्तस्रोतसः शान्तरसप्रवाहस्य प्रदर्शनात् , उपयुज्यते इत्यन्वयः / तत्रैव सुखमग्नस्य मनसोऽन्यत्र गमनायोगात्। इत्थं च ' चित्तवृत्तिनिरोधः इति योगलक्षणं सोपपत्तिकं व्याख्यातम्॥ 10 // ननु चित्तस्य वृत्तीनां, सदा ज्ञाननिबन्धनात्। चिच्छायासंक्रमाद्धेतो-रात्मनोऽपरिणामिता॥ 13 // ननु चित्तस्य वृत्तीना प्रमाणाऽऽदिरूपाणाम् , सदासर्वकालमेव, ज्ञाननिबन्धनात्परिच्छे दहेतोः / चिच्छायासंक्रमाद्धेतोर्लिङ्गादामनोऽपरिणामिताऽनुमीयते / इदमुक्तं भवतिपुरुषस्य चिद्रूपस्य सदैवाधिष्ठातृत्वेन सिद्धस्य यदन्तरङ्ग निर्मलं ज्ञेयं सत्त्वं, तस्यापि सदैव व्यवस्थितत्वात्तद्ये नार्थ नोपरक्तं भवति तथाविधस्य दृश्यस्य चिच्छायासंक्रान्तिसद्भावात् सदा ज्ञातृत्वं सिद्धं भवति / परिणामित्वे त्वात्मनश्चिच्छायासंक्रमस्यासादिकत्वात् सदा ज्ञातृत्वं न स्यादिति। तदिदमुक्तम्-" सदा ज्ञाताश्चित्तवृत्तयः तत्प्रभोः पुरुषस्यापरिणामित्वादिति " / (4-18) | // 13 // ननु चित्तमेव सत्वोत्कर्षाद्यदि प्रकाशकं तदा तस्य स्वप्रकाशरूपत्वादर्थस्येवाऽऽत्मनोऽपि प्रकाशकत्वेन व्यवहारोपपत्तो किं ग्रहीवन्तरणे ? इत्यत आहस्वाऽऽभासं खलु नो चित्तं, दृश्यत्वेन घटाऽऽदिवत्। तदन्यदृश्यतायां वा-नवस्थास्मृतिसङ्करौ।। 14 / / चित्तं खलु, नो नैव, स्वाऽऽभासं स्वप्रकाश्यं, किं तु द्रष्टवेद्य, दृश्यत्वेन दृग्विषयत्वेन, घटाऽऽदिवत् / यद्यदृश्यं तत्तद् द्रष्ट वेद्यमिति व्याप्तेः। तदिदमुक्तम्-" न तत् स्वाभासं दृश्यत्वात्।"(४-१६) अन्तर्बहिर्मुखव्यापारद्वयविरोधात् , तन्निष्पाद्यफलद्वयस्यासंवेदनाच बहिर्मुखतयैवार्थनिष्ठत्वेन चित्तस्य संवेदनार्थनिष्ठ-मेव तत्फलं, न स्वनिष्ठमिति राजमार्तण्डः / तथापि चित्तान्तरदृश्यं चित्तमस्त्वित्यत आहतदन्यदृश्यतायां च चित्तान्तरदृश्यतायां च, चित्तस्याभ्युपगम्यमानायामनवस्थास्मृतिसङ्करौ स्याताम्। तथा-हि-यदि बुद्धिर्बुद्ध्यन्तरेण वेद्येत तदा साऽपि बुद्धिः स्वयं बुद्ध्या बुद्धयन्तरं प्रकाशयितुमसमर्थति, तस्या ग्राहकं बुद्ध्यन्तर कल्पनीयम् , तस्याप्यन्यदित्यनवस्थानात्पुरुषायुषः सहस्रेणाप्यर्थप्रतीतिर्न स्यात् / न हि प्रतीतावप्रतीतायामर्थः प्रतीतो भवति। तथा स्मृतिसङ्करोऽपि स्यात्। एकस्मिन् रूपे, रसेवा समुत्पन्नायां बुद्धौ तद्ग्राहिकाणामनन्तानां बुद्धीनामुत्पत्तेस्तञ्जनितसंस्कारैर्युगपद् बहीषु स्मृतिपूत्पन्नासु कस्मिन्नर्थ स्मृतिरियमुत्पन्ने ति ज्ञातुमशक्यत्वात् / तदाह-" एकसमये चोभयानवधारणम्।"(४-२०)" चित्तान्तरादृश्ये बुद्धिबुद्धरतिप्रसङ्गःस्मृतिसङ्करश्चेति" (4-21) / / 14 // नन्वेवं कथं विषयव्यवहार इत्यत्राऽऽहअङ्गाङ्गिभावचाराभ्यां, चितिरप्रतिसंक्रमा। द्रष्टदृश्योपरक्तं तत् , चित्तं सर्वार्थगोचरम् / / 15 / / चितिः पुरुषरूपा चिच्छक्तिः, अङ्गाङ्गिभावचाराभ्या परिणामपरिणामिभावगमनाभ्याम् , अप्रतिसंक्रमाऽन्येनासंकीर्णा / यथा हि गुणाः स्वबुद्धिगमनलक्षणे परिणामेऽङ्गिनमुपसंक्रामन्ति तद्रूपतामिवाऽऽपद्यन्ते, यथा चाऽऽलोकपरमाणवः प्रसरन्तो विषयं व्याप्नुवन्ति, नैवं चितिशक्तिः, तस्याः सर्वदैकरूपतया स्वप्रतिष्ठितत्वेन व्यवस्थितत्वादित्यर्थः / तत्तस्माचित् सन्निधाने बुद्धेस्तदाकारताऽऽपत्तौ चेतनायामिवोपजायमानायां, बुद्धिवृत्तिप्रतिसंक्रान्तायाश्च चिच्छक्तेर्बुद्धिविशिष्टतया संपत्तौ स्वसंबुध्युपपत्तेरित्यर्थः / द्रष्टदृश्याभ्यामुपरक्तं द्रष्टरूपतामिवाऽऽपन्नं, गृहीतविषयाऽऽकारपरिणामं च चित्तं, सर्वार्थगोचरं सर्वविषयग्रहणसमर्थ भवति। तदुक्तम्-"चितेरप्रतिसंक्रमायास्तदाऽऽकाराऽऽपत्तौ स्व (14) अथतदूषयन्नाहन चैतधुज्यते किञ्चि-दात्मन्यपरिणामिनि / कूटस्थे स्यादसंसारो-ऽमोक्षो वा तत्र हि ध्रुवम् / / 11 / / न चैतत् पूर्वोक्तं किञ्चिदपरिणामिनि आत्मनि युज्यते, तत्राऽऽत्मनि हि कूटस्थे एकान्तिकस्वभावे सति असंसारः संसाराभाव एव स्यात् . पुष्करपत्रवन्निर्लेपस्य तस्याविचलितस्वभावत्वात्। प्रकृतितद्विकारोपहितस्वभावे च तस्मिन् संसारदशायामभ्युपगम्यमाने, ध्रुवं निश्चितममोक्षो मोक्षाभावो वा स्यात् , मुक्तिदशायां पूर्वस्वभावस्य त्यागे कौटस्यहानिप्रसङ्गात्॥११॥ प्रकृतरेपि चैकत्वे, मुक्तिः सर्वस्य नैव वा। जडायाश्च पुमर्थस्य, कर्तव्यत्वययुक्तिमत् // 12 // प्रकृतेरपि चैकत्वेऽभ्युपगम्यमाने सर्वस्य मुक्तिः स्यात् , नैव वा कस्यचित्स्यात् / एकं प्रति विलीनोपधानायास्तस्याः सर्वान् प्रति तथात्वात् , एक प्रत्यतादृश्याश्च सर्वान् प्रत्यतथात्वात् / अन्यथा स्वभावभेदे प्रकृतिभेदप्रसङ्गात् / किं च-आत्मनोऽव्याप्रियमाणस्व भोगसंपादनार्थमेव प्रकृतिः प्रवर्त्तः इति भवतामभ्युवगमः / तदु-क्तम्" द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः।" (2-20)" तदर्थ एव दृश्यस्याऽऽत्मेति।" (2-21) जडायाश्च तर याः पुमर्थस्य कर्त्तव्यत्वमयुक्तिमत् / पुरुषार्थो मया कर्त्तव्य इत्येवं विधाध्यवसायो हि पुरुषार्थकर्तव्यता, तत्स्वभावे च प्रकृतेर्जडत्वव्याघात इति // 12 // अत्रस्वसिद्धान्ताऽऽशयं प्रकटयन पूर्वपक्षी शङ्कते