________________ जोग 1621 - अभिधानराजेन्द्रः भाग - 4 जोग सर्वाणि चतुर्दशापि जीवस्थानानि गुणस्थानानि तावन्त्येव, मार्गणा गतीन्द्रियाऽऽद्याः परिणामा विवर्तन्तेदशाविशेष भजन्ते, जीवस्तु कदाचन न विवर्तते, तस्य शुद्धज्ञायकभावस्यैकस्वभावत्वात् / / 26 / / उपाधिः कर्मणैव स्या-दाचाराऽऽदौ श्रुतं ह्यदः। विभावानित्यभावेऽपि, ततो नित्यः स्वभाववान् // 30 // आचाराऽऽदौ ह्यदः श्रुतम्-यदुत उपाधिः कर्मणैव स्यात् , " कम्मुणा उवाही जायति त्ति " वचनात् / ततो विभावानां मिथ्यात्वगुणस्थानादारभ्यायो गिगुणस्थानं यावत् प्रवर्तमानानामोपाधिकभावानाम् , अनित्यभावेऽपि स्वभाववानात्मा नित्यः, तस्योपाध्यजनितत्वात् , उपाधिनिमित्तका अप्यात्मनो भावः स्तद्रूपा एव युज्यन्ते इति चेत् / सत्यम् / शुद्धनयदृष्ट्याऽऽत्मपुद्गलयोः स्वस्वशुद्धभावजननचरितार्थत्वे संयोगजभावस्य भित्तौ खटिकाश्वेतिम्न इव विविच्यमानस्यैकत्राप्यनन्तभावेन मिथ्यात्वात् / / 30 / / द्रव्याऽऽदेः स्यादभेदेऽपि, शुद्धभेदनयाऽऽदिना। इत्थं व्युत्पादनं युक्तं, नयसारा हि देशना // 31 // द्रव्याऽऽदेः परिणामेभ्यः स्यात् कथञ्चिदभेदेऽपि शुद्धः केवलो यो भेदनयस्तदादिना, इत्थमुक्तरीत्या, व्युत्पादन युक्तम् / नवसारानयप्रधाना हि देशा शास्त्र प्रवर्तते, अन्यथाऽनुयोगपरिणत आत्माऽपि योग इतीष्यत एव, चरणाऽऽत्मनोऽपि भगवत्यां प्रतिपादनादिति भावः / / 31 // योगलक्षणमित्येवं,जानानो जिनशासने। परोक्तानि परीक्षेत, परमाऽऽनन्दबद्धधीः / / 32 // योगलक्षणमिति स्पष्टम्॥ 32 // द्वा० 10 द्वा०। (13) स्वकीयं योगलक्षणमन्यदीययोगलक्षणे विचारिते सति स्थिरीभवतीति तदर्थमयमारम्भःचित्तवृत्तिनिरोधं तु, योगमाह पतञ्जलिः। द्रष्टुः स्वरूपावस्थानं, यत्र स्यादविकारिणि / / 1 / / पतञ्जलिस्तुचित्तवृत्तिनिरोधं योगमाहा तथा च सूत्रम्- "योगश्चित्त - वृत्तिनिरोधः। " (1-2) इति / तत्र चित्तपदार्थ व्याचष्टेद्रष्टुः पुरुषस्य, स्वरूपे चिन्मात्ररूपतायाम् , अवस्थानं यत्र यस्मित् स्याद् , अविकारिणि व्युत्पन्नविवेकख्यातेश्चित्संक्रमाभावात् कर्तुत्वाभिमाननिवृत्ती प्रोन्मुक्तपरिणामेन। तथा च सूत्रम्-" तदा द्रष्टुः स्वरूपेऽवस्थानमिति।' (1-3) // 1 // आपन्ने विषयाऽऽकारं, यत्र चेन्द्रियवृत्तितः। पुमान् भाति तथा चन्द्र-श्वलन्नीरे चलन यथा // 2 // यत्र चेन्द्रियवृत्तित इन्द्रियवृत्तिद्वारा, विषयाऽऽकारमापन्ने विषयाऽऽकारपरिणते सति, पुमान् पुरुषम्तथा भाति तथा चलन्नीरे चलन् चन्द्रः, स्वगतधर्माध्यारोपाधिष्टानत्वेन प्रतीयत इत्यर्थः / तथा च सूत्रम्- " वृत्तिसारूप्यमितरवत्रेति।" (1-4) ||2|| तचित्तं वृत्तयस्तस्य, पञ्चतय्यः प्रकीर्तिताः। मानं भ्रमो विकल्पश्च, निद्रा च स्मृतिरेव च / / 3 / / तचित्तं तस्य वृत्तिसमुदायलक्षणस्यावयविनोऽवयवभूताः पञ्चतथ्यो वृत्तयः प्रकीर्तिताः / तदुक्तम्-" वृत्तयः पञ्चतव्यः क्लिष्टाक्लिष्टाः।" (सांख्य०२-३३) (' अक्लिष्टाः ' योग०१-५) क्लिष्टाः क्लेशाऽऽ- | क्रान्ताः, तद्विपरीता अपि तावत्य एव / ता एकोद्विशतिमानं प्रमाणम् , भमो, विकल्पो, निद्रा च, स्मृतिरेव च / तदाह-" प्रमाणविपर्ययविकल्पनिद्राः स्मृतयः।" (1-6) // 3 // आसां क्रमेण लक्षणमाहमानं ज्ञानं यथार्थ स्या-दत्तस्मिस्त मतिर्भमः। पुंसश्चैतन्यमित्यादौ, विकल्पोऽवस्तुशाब्दधीः।। 4 / / निद्रा च वासनाऽभाव-प्रत्ययाऽऽलम्बना स्मता। सुखाऽऽदिविषया वृत्ति-र्जागरे स्मृतिदर्शनात् / / 5 / / तथाऽनुभूतविषया-संप्रमोषः स्मृतिः स्मृता। आसां निरोधः शक्त्याऽन्तः-स्थितिर्हेतौ बहिर्हतिः॥ 6 // मानं यथार्थतद्वति तदवगाहि ज्ञानं स्यात्। तदाह-"अविसंवादिज्ञानं प्रमाणमिति।'' भमोऽतस्मिस्तदभाववति तन्मतिः। यदाह-"विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् / " (1-8) संशयोऽपि स्थाणुर्वा पुरुषो वेत्यतद्रूपप्रतिष्ठत्त्वादत्रैवान्तर्भवति। पुंसश्चैतन्यमित्यादौ अवस्तुविषया शब्दधीविकल्पः। अत्र हि देवदत्तस्य कम्बल इतिवत् शब्दजनिते ज्ञाने षष्ठ्यर्थो भेदोऽध्यवसीयते, तमिहाविद्यमानमपि समारोप्य प्रवर्ततेऽध्यवसायः / वस्तुतस्तु चैतन्यमेव पुरुष इति। तदाह- 'शब्दज्ञानानुपाती वस्तुशून्यो (असदर्थव्यवहारविषयो) विकल्पः / (1-6) इति / भ्रमविशेष एवायमस्त्विति चेत्।न। तथाविधशब्दजन्यजनकभावेनास्य विलक्षणत्वात् , विषयाभावज्ञानेऽपि प्रवृत्तेश्च। यद्भोजः" वस्तुनस्तथात्वमनपेक्षमाणो योऽध्यवसायः स विकल्प इत्युच्यते " इति // 4 // अभाव-प्रत्ययाऽऽलम्बना भावप्रत्ययाऽऽलम्बनविरहिता वासना च निद्रा स्मृता, सन्ततमुद्रिक्तत्वात्तमसः। समस्तविषयपरित्यागेन या प्रव-र्तत इत्यर्थः / तदाह-" अभावप्रत्ययाऽऽलम्बना वृत्तिर्निद्रा।" (1-10) इयं च जागरे जाग्रदवस्थायां स्मृतिदर्शनात् सुखमहमस्वाप्समिति स्मृत्यालोचनात्सुखाऽऽदिविषया वृत्तिः, स्वापकाले सुखाननुभवे तदा तत्स्मृत्यनुपपत्तेः / / 5 / / तथाऽनुभूतविषयस्य प्रमाणविपर्ययविकल्पनिद्राऽनुभूतार्थस्यासंप्रमोषः संस्कारद्वारेण बुद्धावुपारोहः स्मृतिः स्मृता। तदाह-" अनुभूतविषयासंग्रमोषः स्मृतिरिति।" (1-11) आसामुक्तानां पञ्चानामपि वृत्तीनाम् , हेतौ स्वकारणे, शक्त्या शक्तिरूपतया, अन्तर्बाह्याभिनिवेशनिवृत्त्याऽन्तर्मुखतया स्थितिरवस्थानं, बहिर्हतिः प्रकाशप्रवृत्तिनियमरूपविधातः / एतदुभयं निरोध उच्यते॥ 6 // स चाभ्यासाच वैराग्या-त्तत्राभ्यासः स्थितौ श्रमः। दृढभूमिः स च चिरं, नैरन्तर्याऽऽदराऽऽश्रितः // 7 // स चोक्तलक्षणो निरोधश्च अभ्यासाद्वैराग्याच भवति / तदुक्तम्-" अभ्यासवैराग्याभ्यां तन्निरोध इति / " (1-12) तत्राभ्यासः स्थिती वृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठे परिणामे श्रमोयत्नः पुनःपुनस्तथात्वेन चेतसि निवेशनरूपः / तदाह-" तत्र स्थितौ यत्नोऽभ्यास इति। "(113) स च चिरं चिरकालं नैरन्तर्येणाऽऽदरेण चाऽऽश्रितो दृढभूमिः स्थिरो भवति। तदाह- "सतु दीर्घकालनैरन्तर्यसत्कारसेवितो दृढभूमिरिति।" (1-14) // 7 // या वशीकारसंज्ञा स्याद् , दृष्टाऽऽनुश्रविकार्थयोः। वितृष्णस्यापरं तत स्या-द्वैराग्यमनधीनता / / || दृष्ट इहैवोपलभ्यमानः शब्दाऽऽदिः, आनुश्रविकश्वार्थोदेवलोकाऽऽ