SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ जोग 1620 - अभिधानराजेन्द्रः भाग - 4 जोग णामस्वरूपयोग्यत्वेऽपिघृताऽऽदिपरिणामसहकारियोग्यताऽभावाद्यथा न घृताऽऽदिपरिणामः, तथा प्रकृतेऽपि भावनीयम्। अत एव सहकारियोग्यताऽभाववति तत्र काले कार्यानुपधानम्। तद् योग्यताऽभाववत्त्वेनैव साधयितुमभिप्रेत्याऽऽह (योगविन्दौ) हरिभद्रसूरिः" तस्मादचरमाऽऽवर्ते-वध्यात्मं नैव युज्यते। कायस्थितितरोर्यद्व-तज्जन्मस्वामरं सुखम् // 63 / / तैजसानां च जीवानां, भव्यानामपि नो तदा। यथा चारित्रमित्येवं, नान्यदा योगसंभवः / / 64 // " इति। 17 / नवनीताऽऽदिकल्पस्त-घरमाऽऽवर्त इष्यते। अत्रैव विमलो भायो, गोपेन्द्रोऽपि यदभ्यधात्॥१८॥ नवनीताऽऽदिकल्पो घृतपरिणामनिबन्धननवनीतदधिदुग्धाऽऽदितुल्यः, तत्तस्मात् , चरमाऽऽवत इष्यते योगपरिणामनिबन्धनम् / अत्रैय चरमाऽऽवत एव, विमलो भावो भवाभिष्वङ्गाभाषाभ-वति / यद्गोपेन्द्रोऽपि अभ्यधाद् भङ्ग्यन्तरेण // 18 // अनिवृत्ताधिकारायां, प्रकृतौ सर्वथैव हि। नपुंसस्तत्त्वमार्गेऽस्मिन् , जिज्ञासाऽपि प्रवर्तते / / 16 / / अनिवृत्तः प्रतिलोमशक्त्याऽन्तरलीनोऽधिकारः पुरुषाभिभवनरूपो यस्यास्तस्या प्रकृतौ, सर्वथैव हि सर्वैरेव प्रकारैः, अपुनर्बन्धस्थानस्याप्यप्राप्तावित्यर्थः / न नैव, पुंसस्तत्त्वमार्गेऽस्मिन् वक्तुमुपक्रान्ते, जिज्ञासाऽपि ज्ञातुमिच्छाऽपि, किं पुनस्तदभ्यासः ? इत्यपिशब्दार्थः / प्रवर्तते संजायते॥ 16 // साधिकारप्रकृतिम-त्यावर्ते हि नियोगतः। पथ्येच्छेव न जिज्ञासा, क्षेत्ररोगोदये भवेत् / / 20 / / साधिकारा पुरुषाभिभवप्रवृत्ता या प्रकृतिः, तद्वत्यावर्ते हि, नियोगतो निश्चयतः, जिज्ञासा तत्त्वमार्गपरिज्ञानेच्छा, न भवेत् / क्षेत्ररोगोदये इव पथ्येच्छा। क्षेत्ररोगो नामरोगान्तराऽऽधारभूतः कुष्ठाऽऽदिरोगः, ततो यथा एथ्यापथ्यधीविपर्यासः, तथा प्रकृतेऽपि // 20 // पुरुषाभिभवः कश्चित, तस्यामपि हि हीयते। युक्तं तेनैतदधिक-मुपरिष्टाद् भणिष्यते / / 21 // तस्यामपि हि जिज्ञासायामपि हि सत्या, कश्चित्पुरुषाभिभवः, प्रकृतेहीयते निवर्तते, न होकान्तेनाक्षीणपापस्य विमलो भावः संभवति, तैनेतद्गोपेन्द्रोक्तं युक्तम् / अधिकमपरिणाम्यात्मपक्षे तदभिभवतन्निवृत्त्याद्यनुपपत्तिलक्षणम् , उपरिष्टादग्रिमद्वात्रिंशिकायां, भणिष्यते॥ 21 // भावस्य मोक्षहेतुत्वं, तेन मोक्षे व्यवस्थितम् / तस्यैव चरमाऽऽवर्ते, क्रियाया अपि योगतः / / 22 / / तेन भावस्यान्त परिणामस्य, मोक्षे मुख्यहेतुत्वं व्यवस्थितं, तेन स एव योग इत्युक्तं भवति / तस्यैव योगतश्चरमाऽऽवर्ते क्रियाया अपि मोक्षे मुख्यहेतुत्यम् , अतस्तस्या अपि योगत्वमिति भावः / / 22 / / रसानुवेधातम्रस्य, हेमत्वं जायते यथा। क्रियाया अपि सम्यक्त्वं, तथा भावानुबेधनः / / 23 // ताम्रस्य रसानुवेधात्सिद्धरससंपर्काद् , यथा हेमत्वं जायते, तथा / क्रियाया अपि भावानुवेधतः सम्यक्त्वं मोक्षसंपादनशक्तिरूपम्।।२३।। भावसात्म्ये त एवास्याः, भङ्गेऽपि व्यक्तमन्वयः। सुवर्णघटतुल्यां तां, बुवते सौगता अपि / / 24 / / अत एवास्याः क्रियाया भावसात्म्ये स्वजननशक्त्या भावव्याप्तिलक्षणे सति, भङ्गेऽपि तथाविधकषायोदयान्नाशेऽपि, व्यक्तं प्रकटम् , अन्वयो भावानुवृत्तिलक्षणः, तदुव्यक्त्यभावेऽपि तच्छक्त्यनपगमात् / अत एव तां भावशुद्धां क्रियां, सौगता अपि सुवर्णघटतुल्या ब्रुवते / यथा हि सुवर्णघटो भिद्यमानोऽपि न सुवर्णानुबन्धं मुञ्चति, एवं शुभक्रिया तथाविधकषायोदयाद्भग्नाऽपि शुभफलैवेति / तदिदमुक्तम्- " भाववृद्धिरतोऽवश्यं, सानुबन्धं शुभोदयम् / गीयतेऽन्यैरपि ह्येतत् , सुवर्णघटसन्निभम् / / 351 // " (यो० वि०) इति। 24 / शिरोदकसमो भावः, क्रिया च खननोपमा। भावपूर्वादनुष्ठानाद् , भाववृद्धिरतो धुवा / / 25 / / शिरोदकसमस्तयाविधकूपे सहजप्रवृत्तशिराजलतुल्यो भावः, क्रिया च खननोपमा शिराऽऽश्रयकृपाऽऽदिखननसदृशी, अतो भावपूर्वादनुष्ठानाद्भाववृद्धिधुवा, जलवृद्धौ कूपखननस्येव भाववृद्धौ क्रियाया हेतुत्वाद्भावस्य दलत्वेऽपि बहूदलमेलनरूपाया वृद्धेस्तदन्वयव्यतिरेकानुविधानात्॥ 25 // मण्डूकचूर्णसदृशः, क्लेशध्वंसः क्रियाकृतः। तद्भस्मसदृशस्तु स्याद् , भावपूर्वक्रियाकृतः // 26 // क्रियाकृतः केवलक्रियाजनितः, क्लेशध्वंसो रागाऽऽदिपरिक्षयः, मण्डूकचूर्णसदृशः, पुनरुत्पत्तिशक्त्यन्वितत्वात्। भावपूर्वक्रियाकृतस्तु तद्भस्मसदृशो मण्डूकभम्मसदृशः स्यात् , पुनरुत्पत्तिशक्त्यभायात्। एवं चक्लेशध्वंसविशेषजनकः शक्तिविशेष एव क्रियायां भाववृद्ध्यनुकूल इति फलितम् // 26 // तथा चविचित्रभावद्वारा तत् , क्रिया हेतुः शिवं प्रति। अस्या व्यञ्जकताऽप्येषा, परा ज्ञाननयोचिता।। 27 / / विचित्रो भावोऽध्यात्माऽऽदिरूपः,तद्वारा क्रिया, शिवं प्रति हेतुः, दण्ड इव चक्रभ्रमिद्वारा घटे / करणता च तस्याः शक्तिविशेषेण, न तु भावपूर्वकत्वेनैव, भावस्यान्यथासिद्धिप्रसङ्गात् / अस्याः क्रियायाः, व्यञ्जकताऽप्येषा हेतुता विशेषरूपा परा / अत एव भावस्य झापकत्वरूपाऽभिव्यञ्जकता ज्ञाननयोचिता ज्ञाननयप्राधान्योपयुक्ता, नतु व्यवहारतो वास्तवी, अन्यथा सत्कार्यवादप्रसङ्गादिति भावः / / 27 / / व्यापारश्चिद्विवर्तत्वाद् , वीर्योल्लासाच स स्मृतः। विविच्यमाना भिद्यन्ते, परिणामा हि वस्तुनः॥ 28 // स योगः, चिद्विवर्त्तत्वाद् ज्ञानपरिणामाद् , वीर्योल्लासादात्मशक्तिस्फोरणाच, व्यापारः स्मृतः, क्रमवतःप्रवृत्तिविषयस्य व्यापारत्वात्। एतेन द्रव्याऽऽदेर्व्यवच्छेदः / हियतो, विविच्यमाना भेदनयेन गृह्यमाणा, वस्तुनः परिणामा भिद्यन्ते / तथा च-न व्यापाराऽऽश्रयस्यापि व्यापारत्वमिति भावः // 28 // एतदेवाऽऽहजीवस्थानानि सर्वाणि, गुणस्थानानि मार्गणाः। परिणामा विवर्तन्ते, जीवस्तु न कदाचन // 26 //
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy