________________ जोग 1616 - अभिधानराजेन्द्रः भाग - 4 जोग महत्यल्पत्वबोधेन, विपरीतफलाऽऽवहा! भवाभिनन्दिनो लोक-पङ्क्त्या धर्मक्रिया मता // 7 // महती अधरीकृतकल्पद्धचिन्तामणिकामधेनौ धर्म, अल्पत्वबोधेनातितुच्छकीयादिमात्रहेतुत्वज्ञानेन, विपरीतफलाऽऽवहा दुरन्तसंसारानुबन्धिनो, भवाभिनन्दिनो जीवस्य, लोकपड्क्त्या धर्मक्रिया मता, नात्र केवलमफलत्वमेव, किंतु विपरीतफलत्वमिति भावः // 7 // धर्मार्थ सा शुभायापि, धर्मस्तु न तदर्थिनः। क्लेशोऽपीष्टो धनार्थं हि, क्लेशार्थं जातु नो धनम् // 8 // धर्मार्थ सम्यग्दर्शनाऽऽदिमोक्षबीजाऽऽधाननिमित्तम् ,सा लोकपडिक्तः, दानसंमानोचितसंभाषणाऽऽदिनिश्वित्रैरुपायैः शुभाय कुशलानुबन्धायापि। धर्मस्तु तदर्थनो लोकपडक्तयर्थिनो न शुभाय, हि यतो, धनार्थ क्लेशोऽपीष्टोधनार्थिनां राजसेवाऽऽदौ प्रवृत्तिदर्शनात् / क्लेशार्थं जातु कदाचिद्, धनं नेष्टम् , न हि धनाद्मे क्लेशो भवतु इति कोपीच्छति प्रेक्षावान्। तदिदमुक्तं योगविन्दौ"धर्मार्थ लोकपक्तिः स्यात् , कल्याणाङ्ग महामतेः। तदर्थ तु पुनर्धर्मः, पापायाल्पधियामलम्।।६०॥" तथा"जनप्रियत्वं शुद्ध, सद्धर्मसिद्धिफलदमलम्। धर्मप्रशंसनाऽऽदे-बीजाऽऽधानाऽऽदिभावेन / / 1 / / '' || 8 || इति / अनाभोगवतः साऽपि, धर्माहानिकृतो वरम्। शुभा तत्त्वेन नैकाऽपि, प्रणिधानाऽऽद्यभावतः / / 6 / / अनाभोगयतः संमूर्छनजप्रायस्य स्वभावत एव वैनयिकप्रकृतेः, साऽपि लोकपड्क्त्या धर्मक्रियाऽपि, धर्माहानिकृतो धर्मे महत्वस्यैव यथास्थितस्याज्ञानाद्भवोत्कटेच्छाया अभावेन महत्यल्पत्वाप्रतिपत्तेधर्महान्यकारिणो, वरमन्यापेक्षया मनाक् सुन्दरा, तत्त्वेन तत्त्वतः, पुनर्नकाऽपि प्रणिधानाऽऽद्यभावतो नैकाऽपि वरं, प्रणिधानाऽऽदीनां क्रियाशुद्धिहेतुत्वात्॥६॥ तानेवाऽऽहप्रणिधानं प्रवृत्तिश्च, तथा विघ्नजयस्त्रिधा। सिद्धिश्च विनियोगश्च, एते कर्मशुभाऽऽशयाः॥१०॥ कर्मणि क्रियायां, शुभाऽऽशयाः स्वपुष्टिशुद्ध्यनुबन्धहेतवः-शुभपरिणामाः ; पुष्टिरुपचयः, शुद्धिश्च ज्ञानाऽऽदिगुणविघातिघातिकमहासोत्थनिर्मलता, इत्यवधेयम् // 10 // प्रणिधानं क्रियानिष्ठ-मधोवृत्तिकृपाऽनुगम् / परोपकारासारं च, चित्तं पापविवर्जितम्॥११॥ प्रणिधानं क्रियानिष्टमधिकृतधर्मस्थानादविचलितस्वभावम् , अधोवृत्तिषु स्वप्रतिपन्नधर्मस्थानादधस्ताद्वर्तमानेषु, प्राणिषु कृपाऽनुगं | करुणाऽन्वितं, न तु हीनगुणत्वेन तेषु द्वेषसमन्वितं, परोपकारसारं च | परार्यनिष्पत्तिप्रधानं च, चित्तं पापविवर्जितं सावद्यपरिहारेण / निरवद्यवस्तुविषयम्॥११॥ प्रवृत्तिः प्रकृतस्थाने, यत्नातिशयसंभवा। अन्याभिलाषरहिता, चेतःपरिणतिः स्थिरा।। 12 // प्रवृत्तिः प्रकृतस्थानेऽधिकृतधर्मविषये, यत्नातिशयसंभवा पूर्व प्रयत्नाधिकोत्तरप्रयत्नजनिता, अन्याभिलाषेणाधिकृतेतरकार्याभिलाषेण रहिता, चेतसोऽन्तरात्मनः, परिणतिः स्थिरा एकाग्रा, स्वविषय एवं यत्नातिशयाजाता तत्रैव च तज्जननीत्यर्थः / 12 / बाह्यान्ताधिमित्यात्व-जयव्यङ्ग्याऽऽशयाऽऽत्मकः। कण्टकज्वरमोहानां, जयैर्विघ्नजयः समः / / 13 / / बाह्यव्याधयः शीतोष्णाऽऽदयः, अन्तधियश्च ज्वराऽऽदयः, मिथ्यात्वं भगवद्वचनाश्रद्धानं, तेषां जयस्तत्कृतवैक्लव्यनिराकरणं तद्व्यङ्ग्याssशयाऽऽत्मकः कण्टकज्वरमोहाना जयैः समो विघ्नजयः / इत्थं च हीनमध्यमोत्कृष्टत्वेनास्य त्रिविधत्वं प्रागुक्तं व्यक्तीकृतम् / तथाहिकस्यचित् पुंसः कण्टकाऽऽकीर्णमार्गावतीर्णस्य कण्टकविघ्नो विशिष्टगमनविघः तहेतुः, तद्रहिते तु पथि प्रवृत्तस्य निराकुलंगमनं संजायते, एवं कण्ट कविघ्नजयसमः प्रथमो विघ्नजयः / तथा-तस्यैव ज्वरवेदनाऽभिभूतशरीरस्य विहृलपादन्यासस्य निराकुलं गमनं चिकीर्षोरपि तत्कर्तुमशक्नुवतः कण्टकविघ्नादप्यधिको ज्वरविघ्नः, तजयस्तु निराकुलप्रवृत्तिहेतुः / एवं ज्वरविघ्नसमो द्वितीयो विघ्नजयः। तस्यव चाध्वनि जिगमिषोर्दिड्मोहकल्पो मोहविघ्नः, तेनाभिभूतस्य प्रेर्यमाणस्याप्यध्वनीनैर्न गमनोत्साहः कथञ्चित्प्रादुर्भवति, तज्जयस्तु स्वरसतो मार्गगमनप्रवृत्तिहेतुः / एवमिह मोहविघ्नजयसमस्तृतीयो विघ्नजयः। इति फलैकोन्नेयाः खल्वेते॥१३॥ सिद्धिस्ताविकधर्माऽऽप्तिः, साक्षादनुभवाऽऽत्मिका। कृपोपकारविनया-न्विता हीनाऽऽदिषु क्रमात्॥ 14 / / सिद्धिः तात्त्विकस्याभ्यासशुद्धस्य, न त्वाभ्यासिकमात्रस्य, धर्मस्य अहिंसाऽऽदेः, आप्तिरुपलब्धिः, साक्षादनुपचारेण, अनुभवाऽऽत्मिका आत्मन आत्मना आत्मनि संवित्तिरूपा ज्ञानदर्शनचारित्रैकमूर्तिका,हीनाऽऽदिषु क्रमात् कृपोपकारविनयान्विता, हीने कृपाऽन्विता, मध्यमे उपकारान्विता, अधिके च विनययुता / / 14 / / अन्यस्य योजनं धर्म, विनियोगस्तदुत्तरम् / कार्यमन्वयसंपत्त्या, तदबन्ध्यफलं गतम्॥१५ / / अन्यस्य स्वत्यतिरिक्तस्य, योजनं धर्मेऽहिंसाऽऽदौ विनियोगः, तदुत्तरं सिद्ध्युत्तरं कार्यम् / तदन्वयसंपत्त्याऽविच्छेदसिद्ध्या, अबन्ध्यफलमव्यभिचारिफलं मतम्। स्वपरोपकारबुद्धिलक्षणस्यानेकजन्मान्तरसन्ततोद्बोधेन प्रकृष्टधर्मस्थानावाप्तिहेतुत्वात् / / 15 / / एतैराशययोगैस्तु, विना धर्माय न क्रिया। प्रत्युत प्रत्यपायाय, लोभक्रोधक्रिया यथा // 16 // एतैः प्रणिधानाऽऽदिभिः, आशययोगैस्तु विना धर्माय न क्रिया बाह्यकायव्यापाररूपा, प्रत्युतान्तर्मालिन्यसद्भावात् प्रत्यपायायेष्यमाणप्रतिपक्षविघ्नाय, यथा लोभक्रोधक्रिया कूटतुलाऽऽदिसङ्ग्रामाऽऽदिलक्षणा / तदुक्तम्-" तत्त्वेन तु पुनर्नकाऽप्यत्र धर्म-क्रिया मता। तत्प्रवृत्त्यादिवैगुण्या-ल्लोभक्रोधक्रिया यथा / / " ||62 // (यो० वि०) // 16 // तस्मादचरमाऽऽवर्ते-ध्वयोगो योगवर्त्मनः।। योग्यत्वेऽपि तृणाऽऽदीनां, घृतत्वाऽऽदेस्तदा यथा // 17 / / तस्मात्पणिधानाऽऽद्यभावात् , अचरमाऽऽवर्तेषु योगवर्मनो योगमार्गस्य, अयोगोऽसंभवः / योग्यत्वेऽपि योगस्वरुपयोग्यत्वेऽपि, तृणाऽऽदीना, तदातृणाsऽदिकाले, यथावृतत्वाऽऽदेरयोगःतृणाऽऽदिपरिणामकालेतृणाऽऽदेताऽऽदिपरि