________________ जोग 1618- अभिधानराजेन्द्रः भाग-४ जोग ___ कथं पुनस्तद्ध्यानं देशाऽऽद्यपेक्षया भवतीत्याहशुद्धे विविक्तदेशे, सम्यक्संयमितकाययोगस्य / कायोत्सर्गेण दृढं, यदा पर्यबन्धेन / / 15 / / शुद्ध शुचौ, विविक्तदेशे जनाऽऽकीर्णाऽऽदिरहिते, सम्यगवैपरीत्येन, संयमितकाययोगस्य नियमितसर्वकायचेष्टस्य, कायोत्सर्गेण उद्धव स्थानरूपेण, दृढमत्यर्थम् , यद्वापर्यङ्कबन्धेनाऽऽसनविशेषरूपेण / / 15 / / साध्वागमानुसारात्, चेतो विन्यस्य भगवति विशुद्धम्। स्पर्शाऽऽवेधात्तत्सि-द्धयोगिसंस्मरणयोगेन॥ 16 // साधु यथा भवत्येवमागमानुसारात् सिद्धान्तानुसारेण, चेतश्चित्तम् , विन्यस्य निक्षिप्य, भगवति जिने, विशुद्ध विशुद्धिमत् , स्पर्शस्तत्त्वज्ञानम् , तरयाऽऽवेधात् संस्कारात्, तस्मिन्ध्याने, सिद्धाः प्रतिष्ठिता लब्धाऽ5त्मलाभाये योगिनस्तेषां संस्मरणयोगः स्मरणव्यापारः, तेन। यो हियत्र कर्मणि सिद्धस्तदनुस्मरणं तत्रेष्टफलसिद्धये भवति / / 16 // षो०१४ विव०। -- योगश्चित्तवृत्तिनिरोधः इति पातञ्जलोक्ते सर्वविषयेभ्योऽन्तःकरणवृत्तेनिरोधे, वाच० / योगो मनोवाक्कायनिरोध इति / संथा०। योगश्चेन्द्रियरोधनमिति। उत्त०१२ अ०1" मोक्षण योजनादेव, योगो यत्र निरुच्यते / लक्षणं तेन तन्मुख्यहेतुव्यापारताऽस्य तु // 1 // " इत्युक्तलक्षणे मोक्षमुख्यहेतौ व्यापारे, द्वा०।। (11) योगस्य मोक्षहेतुत्वमेव मावयन्नाहमोक्षहेतुर्यतौ योगो, भिद्यते न ततः क्वचित् / साङ्ख्याभेदात् , तथाभावे, तूक्तिभेदो न कारणम् // 3 // मोक्षहेतुर्निवृत्तिनिमित्तं, यतो यस्मात् कारणात् , योगः, सर्वैर्योगशास्त्रकारैः संगीयते / भिद्यते भेदमनुभवति, न नैव, ततो मोक्षहेतुत्वाद्धेतो, क्वचिद्योगशास्त्रे / एतदपि कुतः? इत्याह-साद्ध्याभेदात्साध्यस्य योगाभ्यासनिष्पाद्यस्य मोक्षस्याभेदादेकरूपत्वात्। सकलकर्मक्लेशक्षयलक्षणो हि मोक्षः, नतत्र कश्चिद्भेद इति / एवंसति यत्सिद्धं तदाह-तथाभावे तु मोक्षाभेदभावे पुनः सति, उक्तिभेदो योगशास्त्रे स्वात्माऽऽदीनां योगाङ्गानां यो भणितः सः,नकारणं हेतुर्योगभेदस्यान हि नाममात्रभेदेन भावा भिद्यन्ते, एकस्यापि शक्राऽऽदेरनेकेन नाम्ना व्यवह्रियमाणत्वात् // 3 // अथाव विशेषमाहमोक्षहेतुत्वमेवास्य, किं तु यत्नेन धीधनैः। सद्गोचराऽऽदिसंशुद्धं, मृग्यं स्वहितकातिभिः / / 4 / / मोक्षहेतुत्वमेव मोक्षनिमित्तभाव एव, नापरं किञ्चित् , अस्य योगस्य, / किंतु केवलं, यत्नेनाऽऽदरेण, धीधनैर्बुद्धिमद्भिः , मृग्यमित्युत्तरेण योगः / कीदृशम् ? इति / आहसताऽनुपचरितेन, गोचराऽऽदिनाऽऽनन्तरमेव दर्शयिष्यमाणेन संशुद्धमनवा, मृग्यम्। कीदृशैरात्माऽऽदौ मोक्षहेतुर्योगो युज्यते इत्येवंरूपेण निपुणोहापोहयोगेन गवेषणीयम् ? स्वहितकालिभिरात्मकल्याणचिन्तकैशयोगवशनायां हि सर्वपुरुषार्थवाना नियमात्संपद्यते। यदवाचि-"एसोय उत्तमोजं, पुरिसत्थो एत्थवंचिओ नियमा। वंचिजइ सव्वेसु, कल्लाणेसुन संदेहो।' 1 // " / / 4 / / अथ कस्मादस्य गोचराऽऽदिशुद्धिम॒ग्यते? इत्याशङ्कयाऽऽह गोचरश्च स्वरूपं च, फलं च यदि युज्यते। अस्य योगस्ततोऽयं यद् मुख्यशब्दार्थयोगतः।। 5 / / गोचरो विषयः परिणामिजीवलक्षणः, स्वरूपं सर्वार्थेषूचितप्रवृत्तिलक्षणम् , फल मोक्षाऽऽत्मकम् , चकारा उक्तसमुखये / यदि इत्यभ्युपगमे / युज्यते घटते, अस्य योगस्य, योगः / ततो गोचराऽऽदियोगाद् , अथं प्रस्तुतो, यद्यस्मात्स्यात्। एतदपि कुतः? इत्याहमुख्यस्यामुपचरितस्य शब्दार्थस्थ मोक्षेण योजनाद्योग इत्येवलक्षणस्य योगतो घटनात् / / 5 / / यो० वि०। (12) योगस्य लक्षणं निरूपयन्नाहमोक्षेण योजनादेव, योगो ह्यत्र निरुच्यते। लक्षणं तेन तन्मुख्य-हेतुव्यापारताऽस्य तु / / 1 / / योगो हि योगशब्दो हि, अत्र लोके, प्रवचने वा; मोक्षेण योजनादेव, निरुच्यते व्युत्पाद्यते, तेनास्ययोगस्य तु, तन्मुख्यहेतुव्यापारता, लक्षणं, निरुक्तार्थस्याप्यनतिप्रसक्तस्य लक्षणत्वानपायात् / / 1 / / मुख्यत्वं चान्तरङ्गत्वात् , फलाऽऽक्षेपाच्च दर्शितम् / चरमे पुद्गलाऽऽवर्ते , यत एतस्य संभवः।।२।। न सन्मार्गाभिमुख्यं स्या-दावर्तेषु परेषु तु / मिथ्यात्वच्छन्नबुद्धीनां, दिङ्मूढानामिवाङ्गिनाम् / / 3 / / मुख्यत्वं चान्तरङ्गत्वान्मोक्षं प्रत्युपादानत्वात् , फलाऽऽक्षेपात्फलजननं प्रत्यविलम्बत्याच ; दर्शितं प्रवचने, यतो यस्माद् , चरमे पुद्गलाऽऽवर्ते, एतस्य योगस्य संभवः / इत्थं ह्यभव्यदुरभव्य-क्रियाव्यवच्छेदः कृतो भवति, एकस्य मोक्षानुपादानत्वादन्यस्य च फलविलम्बादिति ध्येयम् 1 // 2 // नेति स्पष्टः / / 3 / / तदा भवाभिनन्दी स्यात् , संज्ञाविष्कभणं विना। धर्मकृत् कश्चिदेवाङ्गी, लोकपक्तिकृताऽऽदरः // 4 // तदाऽचरमेष्वावर्तेषुः अङ्गी प्राणी, संज्ञाविष्कम्भणम् आहाराऽऽदिसंज्ञोदयवञ्चनलक्षणं विना, कश्चिदेव धर्मकृल्लौकिकलोकोत्तरप्रव्रज्याऽऽदिधर्मकारी, लोकपङ्क्तौ लोकसदृशभावसंपादन-रूपायां, कृताऽऽदरः कृतयत्नः स्यात् // 4 // क्षुद्रो लोभरतिर्दीनो, मत्सरी भयवान् शठः। अज्ञो भवाभिनन्दी स्याद् , निष्फलाऽऽरम्भसङ्गतः / / 5 / / क्षुद्रः कृपणः, लोभरतिर्याच्याशीलः, दीनः सदैवादृष्टकल्याणः, मत्सरी परकल्याणदुःस्थितः, भयवान्नित्यभीतः, शठो मायावी, अज्ञो मूर्खः, भवाभिनन्दी- " असारोऽप्येष संसारः, सारवानिव लक्ष्यते / दधिदुग्धाम्बुताम्बूलपण्यपण्याङ्गनाऽऽदिभिः"। 1 / इत्यादि चनैः संसाराभिनन्दनशीलः, स्याद्भवेद् , निष्फलाऽऽरम्भसङ्गतः सर्वहातत्त्वाभिनिवेशाद् बन्ध्यक्रियासंपन्नः // 5 // लोकाऽऽराधनहेतोर्या, मलिनेनान्तराऽऽत्मना। क्रियते सतक्रिया सा च, लोकपङ्क्तिरुदाहृता / / 6 // लोकाऽऽराधनहेतोलॊकचित्ताऽऽवर्जननिमित्तं, या मलिनेन कीतिस्पृहाऽऽदिमालिन्यवताऽन्तरात्मना चित्तरूपेण, क्रियते सत्क्रिया शिष्टसमाचाररूपा, सा च योगनिरूपणायां लोकपङ्क्तिरुदाहृता लोकशास्त्रज्ञैः॥६॥