SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ जोग 1617 - अभिधानराजेन्द्रः भाग - 4 जोग योगिनां कुले यज्जन्म, तस्य बाधकम् / अनेन योगिकुलजन्मापि | जन्मान्तरे न लभ्यते इति कृत्वा योगिकुलजन्मबाधकम् , अलमत्यर्थम्, एतत्तद्विदामिष्टं योगविदामभिमतम्॥ 5 // क्षेपेऽपि चाप्रबन्धा-दिष्टफलसमृद्धये न जात्वेतत्। नासकृदुत्पाटनतः, शालिरपि फलाऽऽवहः पुंसः॥६॥ क्षेपेऽपि च चित्तदोषे, अप्रबन्धात्प्रबन्धत्वाभावात् , चित्तस्य इष्टफलसमृद्धये विवक्षितफलसमृद्ध्यर्थ योगनिष्पत्तये, न, जातु कदाचित् , एतत्करणं, चित्तं वा भवति। किमित्यन्यत्रान्यत्र चित्तप्रक्षेपे फलसमृद्धिर्न भवतीति ? आहनासकृदनेकशः, उत्पाटनत उत्खननात् , शालिरपि धान्यविशेषः, फलाऽऽवहः फलसंयुक्तः, पुंसः पुरुषस्य यतो भवति॥६॥ उत्थाने निर्वेदात् , करणमकरणोदयं सदैवास्य / अत्यागत्यागोचित-मेतत्तु स्वसमयेऽपि मतम् / / 7 / / उत्थाने चित्तदोषे सत्यप्रशान्तवाहितायां, निर्वेदाद्धेतोः, करणं निष्पादनम् , अकरणोदयं भाविकालमाश्रित्याकरणस्यैवोदयो यस्मिन्निति तत्तथा, सदैवास्य योगस्य, न विद्यते त्यागो यस्य कथञ्चिदुषादेयत्वात्तदत्याग, त्यागायोचित योग्यम् , अप्रशान्तवाहितादोषात्। अत्यागं च तत्त्यागोचितं च अत्यागत्यागोचितम् , एतत्तु एतत्पुनः, करणमभिसंबध्यते। स्वसमयेऽपि स्वसिद्धान्तेऽपि, मतमिष्टम् // 7 // भ्रान्तौ विभ्रमयोगद् , न हि संस्कारः कृतेतराऽऽदिगतः। तदभावे तत्करणं, प्रक्रान्तविरोध्यनिष्टफलम् // 8 // भ्रान्तौ चित्तदोषे सति, विभ्रमयोगान्मनोविभ्रमसंबन्धात्, न हि संस्कारो नैव वासनाविशेषः, कृतेतराऽऽदिगतः-इदं मया कृतमितरदकृतम्।। आदिशब्दादिदं मयोचरितमिदमनुच्चरितम् / एतद्गत एतद्विषयः। न हि मनोविभ्रमे कृतेतराऽऽदिसंस्कारोभवति / तदभावे संस्काराभावे, तत्करणंतस्य प्रस्तुतस्य योगस्य करण, प्रक्रान्तविरोधि प्रस्तुतयोगविरोधि, अनिष्टफलमिष्टफलरहितम्॥८॥ अन्यमुदि तत्र रागात् , तदनादरताऽर्थतो महापाया। सर्वानर्थनिमित्तं, मुद्विषयाङ्गारवृष्ट्याभा।। 6 / / अनुष्ठीयमानादन्यत्र मुत्प्रमोदः, तस्यां सत्यां चित्तदोषरूपायां, तत्रान्यस्मिन् वा, रागादभिलाषाऽतिरेकात् , तदनादरता अनुष्ठीयमानानादरभावो, अर्थतः सामर्थ्यात् . महापाया महानपायो यस्याः सकाशात्सा तथा, सर्वानर्थनिमित्तं सर्वेषामनर्थानां हेतुः, तदनादरताऽभिसंबध्यते / मुद्विषयाङ्गारवृष्ट्याभामुदो हर्षस्य विषयो यस्तस्मिन्नङ्गारवृष्ट्याभाऽङ्गारवृष्टिप्रतिच्छायाऽङ्गारवृष्टिसदृशी, प्रमोदविषयार्थोपघातकारिणीत्यर्थः / इयं चान्यमुत्सुन्दरेष्वपि शास्त्रोक्तेषु चैत्यवन्दनास्वाध्यायकरणाऽऽदिषु श्रुतानुरागाचैत्यवन्दनाऽऽद्यनाद्रियमाणस्य तत्करणवेलायामपि तदुपयोगाभावेनेतरत्राऽऽसक्तचित्तवृत्तेः सदोषा, न हि शास्त्रोक्तयोरनुष्ठानयोरयं विशेषः समस्तियदुतकमादरविषयो, अन्यदनादरविषय इति।। 6 / / रुजि निजजात्युच्छेदात् , करणमपि हि नेष्टसिद्धये नियमात्। अस्येत्यननुष्ठानं, तेनैतद् बन्ध्यफलमेव / / 10 // रुजि रोगे चित्तदोषे सति, निजजात्युच्छेदादिति। कोऽर्थः ? करणमपि हि नेष्टसिद्धये नाभिमतफलनिष्पत्तये, नियमान्नियमेत, अस्य प्रस्तुतस्यार्थस्य, इत्यननुष्ठानम्-इतिहेतोरननुष्ठानमकरणं, तेन कारणेन, एतत्करणं, बन्ध्यफलमेवेष्टफलाभावात् / इयं हि राम्भङ्गरूपा पीडारूपा वाऽनुष्ठानजातेरुच्छे दकरणद्वारेण सर्वानुष्ठानानां बन्ध्यफलत्वाऽऽपादनाय प्रभवति, तेन सदोषा विवेकिना परिहर्तव्यति दर्शिता / / 10 // आसङ्गेऽप्यविधाना-दसङ्गसक्त्युचितमित्यफलमेतत् / भवतीष्टफलदमुच्चै-स्तदप्यसङ्गं यतः परमम्॥१॥ आसङ्गेऽपि चित्तदोषे सति विधीयमानानुष्ठाने इदमेव सुन्दरमित्येवं रूपे, अविधानाच्छास्त्रोक्तविधेरभावात् , सक्तिरनवरतप्रवृत्तिर्न विद्यते सङ्गो यस्यां सेयमसङ्गाऽभिष्वङ्गागाववती, असङ्गा चासौ सक्तिश्च, तस्या उचितं योग्यमिति कृत्वा, अफलमेतदिष्टफलरहितमेतदनुष्ठानम्, भवति जायते, इष्टफलदमिष्टफलसंपादकम् , उचैरत्यर्थं, तदपि शास्त्रोक्तमनुष्ठानम् , असङ्गमभिष्वङ्गरहितम्, यतो यस्मात् , परमं प्रधानम् / असङ्गयुक्तं ह्यनुष्ठानं तन्मात्रगुणस्थानकस्थितिकार्येव, न मोहोन्मूलनद्वारेण केवलज्ञानोत्पत्तये प्रभवति, तस्मात्तदर्थिना आसङ्गस्य दोषरूपता विज्ञेयेति // 11 // एवमष्टपृथग्जनचित्तदोषान् प्रतिपाद्य, तत्त्यागद्वारेण योगिचित्तमुपदर्शयन्नाहएतद्दोषविमुक्तं, शान्तोदात्ताऽऽदिभावसंयुक्तम्। सततं परार्थनियतं, सङ्क्लेशविवर्जितं चैव / / 12 / / एतद्दोषविमुक्तमष्ट चित्तदोषकवयुक्तम् , शान्तोदात्ताऽऽदिभावसंयुक्तम्शान्त उपशमवान्। यथोक्तम्-"न यत्र दुःखं नसुखं न रागो, न द्वेषमोहौ न चकाचिदिच्छा। रसः स शान्तो विहितो मुनीनां, सर्वेषु भावेषु समः प्रदिष्टः / / 1 / / " उदात्त उदारः / यत उक्तम्-" अयं निजः परो वेति, गणना लघुचेतसाम् / उदारचरितानां तु , वसुधैव कुटुम्बकम् / / 1 / / ' आदिशब्दाद्गम्भीरधीराऽऽदिभावपरिग्रहः / तैः संयुक्तं समन्वितम्, सततमनवरतम् , परार्थनियतं परोपकारनियतवृत्ति, सक्लेशविवर्जितं चैवसङ्क्लेशो विशुद्धिप्रतिपक्षः कालुष्यं, तेन विरहितं चैव / / 12 // सुस्वप्नदर्शनपरं, समुल्लसद्गुणगणौघमत्यन्तम् / कल्पतरुबीजकल्पं, शुभोदयं योगिनां चित्तम् / / 13 / / सुस्वप्नदर्शनपरं-शोभनाः स्वप्नाःसुस्वप्नाःश्वेतसुरभिपुष्पवस्वाऽऽतपत्रचामराऽऽदयः, तद्दर्शनप्रवृत्तम् , समुल्लसन् गुणगणोधो गुणनिकरप्रवाहो यस्मिस्तत्समुल्लसद्गुणगणौघम् , अत्यन्तमतिशयेन, कल्पतरुबीजकल्पं, कल्पतरोबीजं स्वजनकं कारणं तेन तुल्यम्, शुभोदयं योगिनां चित्तं, शुभ उदयोऽस्येति शुभोदयम् / / 13 / / कस्य पुनरेवंविधं विशेषेण योगिनश्चित्तं भवतीत्याहएवंविधमिह चित्तं, भवति प्रायः प्रवृत्तिचक्रस्य। ध्यानमपि शस्तमस्य, त्वधिकृतमित्याहुराचार्याः / / 14 / / एवंविधमेवस्वरूपम् इह प्रक्रमे, चित्तं मनः, भवति सम्भवति, प्रायो बाहुल्येन, प्रवृत्तचक्रस्य प्रवृत्तरात्रिन्दिवानुष्ठानसमूहस्य योगिनः, ध्यानमपि पूर्वोक्तस्वरूपम् , शस्तं प्रशस्तम् , अस्य त्वस्यैव, अधिकृतं प्रस्तुतम् इत्याहुराचार्याः सुरयो बुवते।। 14 //
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy