SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ जोग 1616 - अभिधानराजेन्द्रः भाग - 4 जोग योगद्वारे मनोयोगिनो, वाग्योगिनः, काययोगिनोऽयोगिनश्च / तत्रायोगिनः शैलेश्यवस्था प्रतिपन्नाः। जी०१ प्रति०। (पुलाकाऽऽदीनां योगो ' णिग्गंथ ' शब्दे। संयताऽऽदीनां योगः ' संजय ' शब्दे वक्ष्यते) (6) नैरयिकाऽऽदिदण्डकेषु समविषमयोगावधिकृत्य योगाधिकारादेवेदमाह दो भंते ! णेरइया पढमसमयउववण्णगा किं समजोगी, विसमजोगी ? गोयमा ! सिय समजोगी, सिय विसमजोगी। से केणद्वेणं भंते ! एवं वुच्चइ-सिय समजोगी, सिय विसमजोगी? गोयमा ! आहारयाओ वा से अणाहारए, अणाहारयाओ वा से आहारए, सियहीणे, सिय तुल्ले, सिय अब्भहिए, जइ हीणे असंखेज्जइभागहीणे वा, संखेज्जइभागहीणे वा, संखेज्जगुणहीणे वा, असंखेज्जगुणहीणे वा, अइ अब्भहिए असंखेज्जइभागमब्भहिए वा, संखेज्जइभागमभहिए वा, संखेजगुणमब्भहिए वा, असंखेज्जगुणमब्भहिए वा, से तेणढेणं० जाव सिय समजोगी, सि विसमजोगी, एवं० जाव वेमाणिया। " दो भंते ! " इत्यादि / प्रथमः समय उपपन्नयोर्ययोस्तौ प्रथमसमयोपपन्नौ, उत्पत्तिश्चेह नरकक्षेत्रप्राप्तिः, सा च द्वयोरपि विग्रहेण, ऋजुगत्या वा, एकस्य वा विग्रहेण, अन्यस्य च ऋजुगत्येति / (समजोगि त्ति) समो योगो विद्यते ययोस्तौ समयोगिनी, एवं विषमयोगिनौ / "आहारयाओ वा" इत्यादि। आहारकाद्वा, आहारकं नारकमाश्रित्य (से ति) स नारकोऽनाहारकः / अनाहरकाद्वा, अनाहारक नारकमाश्रित्याहारकः / किमित्याह ?-(सिय हीण त्ति) यो नारको विग्रहाभावेनागत्याऽऽहारक एवोत्पन्नोऽसौ निरन्तराऽऽहारकत्वादुपचित एव, तदपेक्षया च यो विग्रहगत्याऽनाहारको भूत्वोत्पन्नोऽसौ हीनः पूर्वमनाहारकत्वेनानुपचितत्वाद्वीनयोगत्वेन च विषमयोगी स्यादिति भावः / (सिय तुल्ले त्ति) यौ समानसमयया विग्रहगत्याऽनाहारको भूत्वोत्पन्नौ, ऋजुगत्या वा गत्योत्पन्नौ, तयोरेक इतरापेक्षया तुल्यः, समयोगी भवतीति भावः / (अन्भहिए त्ति) यो विग्रहाभावेनाहारक एवाऽऽगतोऽसौ विग्रहगत्यनाहारकापेक्षयोपचिततरत्वेनाभ्यधिको विषमयोगीतिभावः / इह च-"आहारयाओ वा से अणाहारए'' इत्यनेन हीनतायाः," अणाहारयाओ वा आहारए" इत्यनेन चाभ्यधिकताया निबन्धनमुक्तम् / तुल्यतानिबन्धनं तु समानधर्मतालक्षणं प्रसिद्धत्वानोक्तमिति। भ०२५ श०१ उ०। (सयोगिमनोयोगिवागयोगिकाययोग्ययोगिकानामल्पबहुत्वं, संसारसमापन्नजीवानां योगाल्पबहुत्वं च ' अप्पाबहुय ' शब्दे प्रथमभागे 656 पृष्ठ द्रष्टव्यम् / एकेन्द्रियाऽऽदीनां योगसंभवो, अनन्तानुबन्ध्युदयरहिते मिथ्यादृष्टौ यावन्तो योगास्तेऽपर्याप्ताना योगवृद्धश्च स्थितिबन्ध प्रस्तावे' बंध ' शब्दे दृश्याः) श्रुतोपदिष्ट संयमहेतौ सम्यङ्मनोवाक्कायव्यापारे च। योगाः श्रुतोपदिष्टाः संयमहेतव व्य०१ उ०। योगाः सम्यङ्मनोवाक्कायव्यापारा इति। अने० 3 अधिक। योगो विशिष्टमनोवाकायव्यापार इति च। सूत्र०१ श्रु०८ अ० ध्यानविशेषे, पो०२ विव० / आत्माभ्यन्तरपरिणामे, द्वा०१६ द्वा०। (10) कतिविधो योग इत्याह सालम्बनो निराल-म्बनश्च योगः पुरो द्विधा ज्ञेयः। जिनरूपध्यानं ख-ल्वाद्यस्तत्तत्त्वगस्त्यपरः // 1 // सह आलम्बनेन चक्षुरादिज्ञानविषयेण प्रतिमाऽऽदिना वर्तते इति सालम्बनः, निरालम्बनश्चाऽऽलम्बनाद्विषयभावापत्तिरूपानिष्क्रान्तो निरालम्बनः, यो हि छद्मस्थेन ध्यायते, नच स्वरूपेण दृश्यते, तद्विषयो निरालम्बन इति यावत् / योगोध्यानविशेषः, परः प्रधानो, द्विधा शेयो द्विविधो वेदितव्यः। जिनरूपस्य समवसरणस्थितस्य, ध्यानं चिन्तनं, खलुशब्दो वाक्यालङ्कारे, आद्यः प्रथमः, सालम्बनो योगः / तस्यैव जिनस्य तत्त्वं केवलजीवप्रदेशसनातरूपं केवलज्ञानाऽऽदिस्वभावं, तस्मिन् गच्छतीति तत्तत्त्वगः / तुरेवका-रार्थः, अपरोऽनलम्बनः, मुक्तपरमात्मस्वरूपध्यानमित्यर्थः // 1 // ___ कथं पुनर्जिनरूपं ध्यातव्यमित्याहअष्टपृथग्जनचित्त-त्यागाद्योगिकुलचित्तयोगेन। जिनरूप ध्यातव्यं, योगविधावन्यथा दोषः।।२।। अष्ट च तानि पृथगजनचित्ताति च, तेषां त्यागात्परिहारात्, योगिकुलस्य चित्तं मनः, तद्योगेन तत्संबन्धि, जिनरूपं परमाऽऽत्मरूपं, ध्यातव्यं ध्येयं, योगविधौ योगविधाने, अन्यथा दोषोऽपराधः / / 2 / / तान्येव चाष्टौ चित्तान्याहखेदोद्वेगक्षेपो-त्थानभ्रान्त्यन्यमुदुगाऽऽसङ्गैः। युक्तानि हि चित्तानि, प्रबन्धतो वर्जयेद् मतिमान् / / 3 / / खेदः श्रान्तता, क्रियास्वप्रवृत्तिहेतुः, पथि परिश्रान्तवत् / खेदाभावेऽप्युद्वेगः, स्थानस्थितस्यैव उद्विग्नता, कुर्वाणोऽप्युद्विग्नः कुरोति नसुखं लभते। क्षेपः क्षिप्तचित्तता, अन्तराऽन्तराऽन्यत्र न्यस्तचित्तवत्। उत्थानं चित्तस्याप्रशान्तवाहिता, मनःप्रभृतीनामुद्रेकाद् मदावष्टब्धपुरुषवत्। भ्रान्तिरतस्मिस्तद्ग्रहरूपा, शुक्तिकायां रजताध्यारोपवत्। अन्यमुद् अन्यहर्षः / रुग् रोगः, पीडाभङ्गो वा / आसङ्गोऽभिष्वङ्गः / खेदोरेगश्च, क्षेपश्चोत्थानं च, भ्रान्तिश्चान्यमुच्च, रुक् चाऽऽसङ्गश्च, तैर्युक्तानि हि संबद्धानि हि, चित्तानि प्रस्तुतान्यष्ट, प्रबन्धतः प्रबन्धेन, वर्जयेत्परिहरेत् , मतिमान् बुद्धिमान् / / 3 / / खेदाऽऽदींश्चित्तदोषान् फलद्वारेणोपदर्शयन्नाहखेदे दायाभावा-न्न प्रणिधानमिह सुन्दरं भवति / एतचेह प्रवरं, कृषिकर्मणि सलिलवद् ज्ञेयम्॥ 4 // खेदे चित्तदोषे सति, दाढ्याभावाद् दृढत्वाभावाद् , न प्रणिधानमैकाग्रयम् , इह प्रस्तुते योगे, सुन्दरं भवति / एतच्च प्रणिधानम् , इह योगे, प्रवरं प्रधानं, कृषिकर्माणि धान्यनिष्पत्तिफले, सलिलवजलवज्ज्ञेयम् // 4 // उद्वेगे विद्वेषा-द्विष्टिसमं करणमस्य पापेन। योगिकुलजन्मबाधक-मलमेतत्तद्विदामिष्टम् / / 5 / / उद्वेगे चित्तदोषे, विद्वेषाद्योगविषयतो, विष्टिसमं राजविष्टिकल्पं, करणमस्य योगस्य, पापेन हेतुभूतेन, एतच्चैवं विधं करणम्,
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy