________________ जोग 1615 - अभिधानराजेन्द्रः भाग - 4 जोग णां जन्तूनां न वर्त्तते, अशरीरिणां सिद्धानामेव तन्निवृत्तरित्यतो वाइनिसर्गाऽऽदिकालेऽपि सोऽस्त्येवेति भावः। तर्हि समुच्छिद्यतां मनोवागयोगकथा। नेत्याहकिं पुण तणुसंरंभे-ण जेण मुंचइ स वाइओ जोगो। मण्णइ य स माणसिओ, तणुजोगो चेव य विभत्तो / / 356 / / " किं पुण त्ति " तथाऽपीत्यस्यार्थे / ततश्चेदमुक्तं भवति-यद्यपि काययोगः सर्वत्रानुगतोऽस्ति, तथाऽपि येन मनोवागद्रव्याणामुपादानं करोति, स कायिको योगः। येन तु संरम्भेण तान्येव मुञ्चति, स वाचिकः / येन तु मनोद्रव्याणि चिन्तायां व्यापारयति, समानसिकः / इत्येवं तनुयोग एवैक उपाधिभेदात्रिधा विभक्त इति। एतावन्मात्रभेदेन त्रयोऽप्यमी योगा व्यवहियन्ते। परमार्थतस्त्वेक एव सर्वत्र कायिको योग इति / 356 / तथा च प्रमाणयन्तितणुजोगो चिअ मणवइ-जोगा कारण दव्वगहणाओ। आणापाण व्व न चे, तओ विजोगंतरं होज्जा / / 360 // तनुयोग एव मनोवागयोगौ, तदन्तर्गतावेवैतावित्यर्थः / इयं प्रति-ज्ञा, कायेनैव तद्रव्यग्रहणादिति हेतुः, प्राणापानवदिति दृष्टान्तः / यथाकायेन द्रव्यग्रहणात् प्राणापानव्यापारः कायिकयोगान्न भिद्यते, एवं मनोवाग्योगावपीति भावः / न चेदेव-न चेत् त्वया प्राणापानव्यापारस्तनुयोगतयाऽभ्युपगम्यते, तर्हि तकोऽपि सोऽपि प्राणापानव्यापारो योगान्तरं स्यात् , ततो योगचतुष्टयप्रसङ्गः, अनिष्टं चैतत् , तस्मात्कायिकयोग एवायमिति / / 360 / / अत्रपरःप्राहतुल्ले तणुजोगत्ते, कीस व जोगंतरं तओ न कओ? मणवइजोगा व कया, भण्णइ ववहारसिद्धत्थं / / 161 // ननुत्वदुक्तयुक्त्यैव सर्वेषां तुल्ये तनुयोगत्वे मनोवागयोगवत्कि-मिति तकोऽसौ प्राणापानव्यापारः कायिकयोगायोगान्तरं न कृतः, किमिति चतुर्थो योगो न कृत इत्यर्थः ? अथ नैवं क्रियते, तर्हि तुल्येऽपि तनुयोगत्वे मनोवाग्योगो काययोगात्किमिति पृथक् कृतौ ? तस्मात्तनुयोगत्वस्य सर्वत्र तुल्यत्वादेक एव काययोगः क्रियताम्। उपाधिभेदेन तु चत्वारो वा योगाः, क्रियन्ताम् / अन्यथा पक्षपातमात्रमेव स्याद् , न तु युक्तिरिति भावः / अत्रोत्तरमाह- ' भण्णइ ' इत्यादि। भण्यतेऽत्रोत्तरं, किं तत् ? इत्याह-व्यवहार-स्य लोकलोकोत्तररूढस्य सिद्ध्यर्थ प्रसिद्धिनिमित्तं, मनोवागयो-गावेव पृथत्कृतौ, न प्राणापानयोग इति / / 361 / / व्यवहारोऽपि किमितीत्थं प्रवृत्त इत्याहकायकिरियाऽऽहरितं, नाऽऽणापाणयफलं जह वईए। दीसइ मणुसो य फुडं, तणुजोगऽभतरो तो सो / / 362 / / कायक्रिया कायव्यापारः, तदतिरिक्तं तदभ्यधिकं प्राणापानफलं न किमपि दृश्यते। यथा वाचो मनसश्च स्फुट तद् दृश्यते। इदमुक्तं भवतियथा वाचः स्वाध्यायविधानपरप्रत्यायनाऽऽदिकं, मनसश्च धर्मध्यानाऽऽदिकं, विशिष्ट स्फुटं कायक्रियाऽतिरिक्तं फलमुपलभ्यते, नैवं प्राणापानयोः, इति तनुयोगाऽभ्यन्तरवत्येवासी प्राणापानव्यापारी व्यवह्रियते, न पृथकान च वक्तव्यंजीवत्यसावितिप्रतीतिजननाऽऽदिक प्राणापानफलमप्युपलभ्यत एवेति ; एवंभूतस्य प्रयोजनमात्रस्य सर्वत्र विद्यमानत्वाद्धावनवल्गनाऽऽदिव्यापारस्यापि पृथक् योगत्वप्रसङ्गात्, तस्माद्विशिष्ट व्यवहाराङ्गभूतपरप्रत्यायनाऽऽदिफलत्वाद्वाड् मनोयोगावेव पृथक् कृतौ, न प्राणापानयोग इति / तदेवं तनुयोगो वाइनिसर्गविषये व्याप्रियमाणो वाग्योगः, मनने तु घ्याप्रियमाणो मनोयोगः ; वाग्विषयो योगो वागयोगः, मनोविषयो योगो मनोयोग इति कृत्वा / इत्येवं तनुयोगविशेषावेव वाङ्मनोयोगौ इत्येतद्दर्शितम्।।३६२ / / अथवा स्वतन्त्रावेवैतौ इति दर्शयन्नाहअहवा तणुजोगादिअ-वइदव्वसमूहजीववावारो। सो वइजोगो भण्णइ, वाया निसिरिजए तेणं // 363 / / तह तणुवावारादिअ-मणदव्वसमूहजीववावारो। सो मणजोगो भण्णइ, मन्नइ नेयं जओ तेणं / / 364 / / अथवा-तनुयोगेन कायव्यापारेणाऽऽदृतो गृहीतो योऽसौ वाग्द्रव्यसमूहः, तेन सहकारिकारणभूतेन तन्निसर्गार्थ योऽसौ जीवस्य व्यापारः, स वाग्योगो भण्यते ; वाचा सहकारिकारणभूतया जीवस्य योगो वाग्योग इति कृत्वा / किं पुनस्तेन क्रियते? इत्याह-सैव वाक् तेन जीवव्यापारेण निसृज्यते परप्रत्यायनार्थमुच्यत इति / तथा तनुव्यापारेणाऽऽदृतो योऽसौ मनोद्रव्यसमूहः, तेन सहकारिकारणभूतेन वस्तुचिन्तनाय योऽसौ जीवस्य व्यापारः, स मनोयोगो भण्यते, मनसा सहकारिकारणभूतेन जीवस्य योगो मनोयोग इति व्युत्पत्तेः / कुतः पुनरयं मनोयोगः ? इत्याह-यतस्तेन ज्ञेयं जिनमूर्त्यादिकं मन्यते चिन्त्यतेऽतस्तस्य मनोयोगत्वमिति / तदेवमत्र पक्षे वागद्रव्यनिसर्गाऽऽदिकाले तनोापारः सन्नपि न विवक्षितः, किं तु वाड्मनोद्रव्यसचिवस्य जीवस्यैवेति स्वतन्त्रावेव वाड्मनोयोगौ, न तु तनुयोगविशेषभूताविति भावः / आनापानद्रव्यसाचिव्यात् . तन्मोचनेजन्तोस्तद्योगोऽपि स्वतन्त्रः पृथक् प्राप्नोतीति चेत् / न।" भण्णइ ववहारसिद्धत्थं। (361 गाथा) " इत्यादिना प्रतिविहितत्वादिति // विशे०॥ (8) सामान्येन योग प्ररूप्य विशेषतो नारकाऽऽदिषु चतुर्विशती पदेषु तमतिदिशन्नाहएवं णेरइयाणं विगलिंदियवजाणं० जाव वेमाणियाणं। ' एवं ' इत्यादि कण्ठ्य, नवरमतिप्रसङ्गपरिहारायेदमुक्तम् / (विगलिंदियवजाणं ति) तत्र विकलेन्द्रिया अपञ्चेन्द्रियास्तेषां ह्येके न्द्रियाणां काययोग एव, द्वित्रिचतुरिन्द्रियाणां तु काययोगवाभ्योगाविति / स्था० 3 ठा० 1 उ० 1 जी०। (योगानाश्रित्य दण्डकः 'पओग ' शब्दे वक्ष्यते) उत्पलजीवानधिकृत्यते णं भंते ! जीवा किं मणजोगी, वइजोगी, कायजोगी ? गोयमा ! णो मणजोगी, णो वयजोगी, कायजोगी वा, कायजोगिणी वा // भ०११ श०१ उ०जी०। मनुष्याणां योगो यथाते णं भंते ! जीवा किं मणजोगी, वइजोगी, कायजोगी, अजोगी ? गोयमा ! मणजोगी वि, वइजोगी वि, कायजोगी वि, अजोगी वि॥