________________ जोइसिय 1611 - अभिधानराजेन्द्रः भाग - 4 जोइसिय इत्यादि / एकमर्द्धमण्डलं चरति, एकत्रिंशता भागैन्यून नवभिः पञ्चदशोत्तरैः शतैरर्द्धमण्डलं छित्त्वा / तथाहि-रात्रिन्दिवानामष्टादशभिः शतैस्त्रिंशदधिकैः सप्तदश शतान्यष्टषष्ट्यधिकान्यर्द्धमण्डलानां चन्द्रस्य लभ्यन्ते, तत एकेन रात्रिन्दिवेन किलभ्यते ? राशित्रयस्थापना-१८३० / १७६८।१।अत्राप्यन्त्येनराशिनैककलक्षणेन मध्यराशिगुण्यते, जातः स तावानेव, तस्याऽऽद्येन 1830 राशिना भागहरण, स चोपरितनस्य राशेः स्तोककत्वाद्भागं न लभते / ततश्छेद्यच्छेदकराश्योर्द्विकेनापवर्तना, जात उपरितनो राशिरष्टौ शतानि चतुरशीत्यधिकानि, अधस्तनो नव शतानि पञ्चदशोत्तराणि / तत आगतमेकत्रिंशता भागैन्यूँनमेकमर्द्धमण्डलं नवभिः शतैः पञ्चदशोत्तरैः प्रविभक्तमिति।" ता एगमेगेणं " इत्यादि सूर्यविषयं प्रश्नसूत्रं सुगमम्। भगवानाह-" ता एगमेगेणं " इत्यादि। एकमद्धमण्डलं चरति। एतच सुप्रतीतमेव।" ता एगमेगेणं' इत्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमम् / भगवानाह- " ता एगमेगेणं " इत्यादि / एकमर्द्धमण्डलं द्वाभ्या भागाभ्यामधिकं चरति, द्वा-त्रिंशदधिकैः सप्तभिः शतैरर्द्धमण्डलं छित्त्वा / तथाहि-यद्यहोरात्राणामष्ठादशभिः शतैस्त्रिशदधिकैरष्टादशशतानि पात्रिंशदधिकानि नक्षत्राणामर्द्धमण्डलानि लभ्यन्ते, तत एकेनाहोरात्रेण कि लभ्यते ? राशित्रयस्थापना-१८३० / 1835 / 1 / अत्रान्त्येन राशिनैककरूपेण मध्यराशेर्गुणना, जातः स तावानेव, तस्याऽऽद्येन 1830 राशिना भागहरणं, लब्धमेकमर्द्धमण्डलं, शेषास्तिष्ठन्ति पञ्च / ततश्छेद्यच्छेदकराश्योरर्द्धतृतीयरपवर्तना, जातावुपरि द्वौ अधस्तात्सप्त शतानि द्वात्रिंशदधिकानि, लब्धौ द्वौ द्वा-त्रिंशदधिकसप्तशतभागौ। (48) अधुना एकैकं परिपूर्ण मण्डलं चन्द्राऽऽदयः प्रत्येक कतिभिरहोरात्रैश्चरन्तीत्येतन्निरूपणार्थमाहता एगमेगं मंडलं चंदे कतिहिं अहोरत्तेहिं चरति ? ता दोहिं अहोरत्तेहिं चरति, एक्कतीसाए भागेहिं अहिंगेहिं चउहिं चोतालेहिं सतेहिं राइदिएहिं छेत्ता / ता एगमेगं मंडलं सूरे कतिहिं अहोरत्तेहिं चरति ? ता दोहिं अहोरत्तेहिं चरति / ता एगमेगं मंडलं णक्खत्ते कतिहिं अहोरत्तेहिं चरति ? ता दोहिं अहोरत्तेहिं चरति, दोहिं भागेहिं ऊणेहिं तिहिं सत्तहिहिं सतेहिं राइंदियं छेत्ता। " ता एग '' इत्यादि / ' ता इति पूर्ववत् / एकैकं मण्डल चन्द्रः कतिभिरहोरात्रैश्चरति ? भगवानाह- " ता दोहिं " इत्यादि / द्वाभ्यामहोरात्राभ्यां चरति, एकत्रिंशता भागैरधिकाभ्यां चतुर्भिश्चत्वारिशदधिकैः शतै रात्रिन्दिवं छित्त्वा / तथाहि-यदि चन्द्रस्य मण्डलानामष्टभिः शतैश्चतुरशीत्यधिकैरहोरात्राणामष्टादश शतानि त्रिंशदधिकानि लभ्यन्ते, तत एकेन मण्डलेन कति रात्रिन्दिवानि लभामहे ? राशित्रयस्थापना-८८४ / 1830 / 1 / अत्रान्त्येन राशिना मध्यराशेर्गुणनं, जातः स तावानेव, तस्याऽऽद्येन राशिना चतुरशीत्यधिकाटशतप्रमाणेन भागहरणं, लब्धौदावहोरात्रौ, शेषास्तिष्ठन्ति द्वाषष्टिः। 62 / ततश्छेद्यच्छेदकराश्योकिनापवतना, जात उपरितनो राशिरेकत्रिंशदूपोऽधस्तनश्चत्वारि शतानि द्वाचत्वारिंशदधिकानि। 37 / तत आगतमेकत्रिंशद् द्विचत्वारिंशदधिकचतुःशतभागाः।" ता एगमेगंइत्यादि। ' ता ' इति पूर्ववत् / एकैकं मण्डलं सूर्यः कतिभिरहोरात्रैश्चरति ? भगवानाह-"ता दोहिं" इत्यादि। द्वाभ्यामहोरात्राभ्यां चरति। तथाहियदि सूर्यस्य मण्डलानां नवभिः शतैः पश्चदशोत्तरैरष्टादश शतानि त्रिंशदधिकान्यहोरात्राणां लभ्यन्ते, तत एकेन मण्डलेन कत्यहोरात्रान् लभामहे ? राशित्रयस्थापना-६१५ | 1830 / 1 / अत्रान्त्येन राशिना मध्य-राशेर्गुणनं, जातः स तावानेव, तस्याऽऽद्येन६१५ राशिना भागहरण, लब्धौ द्वावहोरात्राविति।" ता एगमेगं" इत्यादि। 'ता' इति पूर्ववत्। एकैकमात्मीयं मण्डलं नक्षत्रं कतिभिरहोरात्रैश्चरति ? भगवानाह।' ता दोहिं " इत्यादि / द्वाभ्यामहोरात्राभ्यां चरति, द्वाभ्यां भागाभ्यां हीनाभ्यां त्रिभिः सप्तषष्टः सप्तषष्ट्यधिकैः शतै रात्रिन्दिवं छित्त्वा / तथाहियदि नक्षत्रस्य मण्डलानामष्टादशभिः शतैः पञ्चत्रिंशदधिकैः षत्रिंशच्छतानि षष्ट्यधिकानि रात्रिन्दिवाना लभामहे, तदैकेन मण्डलेन किं लभामहे ? राशित्रयस्थापना-१८३५ / ३६६०।१।अत्रान्त्येन राशिना मध्यराशेस्ताडना, जातः स तावानेव, तस्याऽऽद्येन 1835 राशिना भागहरणं, लब्धमेकं रात्रिन्दिवं, शेषाणि तिष्ठन्त्यष्टादश शतानि पक्षाविंशत्यधिकानि / 1825 / ततश्छे द्यच्छेदकराश्यो: पञ्चकेनापवर्त्तना। जात उपरितनो राशिस्त्रीणि शतानि पञ्चषष्ट्यधिकानि 365 / छेदकराशिस्त्रीणि शतानि सप्तषष्ट्यधिकानि, 367 तत आगतं द्वाभ्यां सप्तषष्ट्यधिकशतभागाभ्यां हीनं द्वितीयं रात्रिन्दिवमिति। (46) संप्रति चन्द्राऽऽदयः प्रत्येकं कति मण्डलानि युगे चरन्तीत्येतन्निरूपणार्थमाहता जुगेणं चंदे कति मंडलाइं चरति ? ता अट्ठचुलसीते मंडलसते चरति / ता जुगेहिं सूरे कति मंडलाई चरति ? ता णव पण्णरसे मंडलसते चरति / ता जुगेणं णक्खत्ते कति मंडलाई चरति? ता अट्ठारस पणतीसे दुभागमंडलसते चरति / / "ता जुगेणं'' इत्यादि। 'ता' इति पूर्ववत्। युगेन कति मण्ड-लानि चरति ? भगवानाह-"ता अट्ठ" इत्यादि। 'ता' इति पूर्ववत् / अष्टो मण्डलशतानि चतुरशीत्यधिकानि चरति / तथाहि-चन्द्र एके न शतसहस्रेणाष्टानवत्या शते प्रविभक्तस्य मण्डलस्याष्टषष्ट्यधिकसप्तदशशतसंख्यान् भागान् एकेन मुहूर्तेन गच्छति / युगे च मुहूर्ताः सर्वसंख्यया चतुःपञ्चाशत्सहस्राणि, नव शतानि, ततः सप्तदश शतानि अष्टषष्ट्यधिकानि चतुःपञ्चाशता सहस्रैर्नवभिश्च शतैर्गुण्यन्ते, जाता नव कोटयः, सप्ततिर्लक्षारित्रषष्टिः सहस्राणि, द्वे शते 67063200 / ततोऽस्य राशेरेकेन शतसहस्रेणाष्टानवत्या च शतैः 106800 मण्डलाऽऽनयनाय भागो हियते, लब्धानि अष्टौ शतानि चतुरशीत्यधिकानि मण्डलानामिति / " ता जुगेण " इत्यादि सूर्यविषयं प्रश्नसूत्रं सुगमम् / भगवानाह- " ता नव पणरस " इत्यादि। 'ता' इति पूर्ववत् / नव मण्डलशतानि पञ्चदशाधिकानि चरति / तथाहि-यदि द्वाभ्यामहोरात्राभ्यामेकं सूर्यमण्डलं लभ्यते, ततः सकलयुगमाविभिरष्टादशभिरहोरात्रशतै स्त्रिशदधिकैः कति मण्डलानि लभ्यन्ते ? राशित्रयस्थापना-२।१।१८३० / अत्रान्त्येन राशिना मध्यराशेर्गुणनं, जातान्यष्टादश शतानि त्रिंशदधिकानि 1830 / तेषामाद्येन राशिना द्विकरूपेण भागहरणं,