________________ जोइसिय 1606 - अभिधानराजेन्द्रः भाग - 4 जोइसिय चउभागाइं मंडलाइं चरति, एगं च चउवीससयभागं मंडलस्स। ता चंदेणं मासेणं सूरे कति मंडलाई चरति ? ता पण्णरस चउभागूणाई मंडलाइं चरति, एगं च चउवीससयभागं मंडलस्स / ता चंदेणं मासेणं णक्खत्ते कति मंडलाइं चरति ? ता पण्णरस चउभागूणाई मंडलाइं चरति, छच्च चउवीससतभागे मंडलस्स॥ "ता चदेणं " इत्यादि।' ता इति पूर्ववत् / चन्द्रेण मासेन प्रागुकरवरूपेण, चन्द्रः कति मण्डलानि चरति ? भगवानाह-" ता चउद्दस " इत्यादि। चतुर्दशस्य चतुर्भागमण्डलानि चतुर्भागसहितानि मण्डलानि चरति, एक चचतुर्विशतितम भण्डलस्य। किमुक्तं भवति?-परिपूर्णानि चतुर्दश मण्डलानि, पञ्चदशस्य च मण्डलस्य चतुर्भागं चतुविंशत्यधिकशतसत्केकत्रिंशद्भागप्रमाणम, एक च चतुर्विंशत्यधिकशतरय भागं द्वात्रिंशतं, पञ्चदशस्य मण्डलस्य चतुर्विशत्यधिकशतभागान् चरति / तथाहि-यदि चतुर्विंशत्यधिकेन पर्वशतेनाष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां लभ्यन्ते, ततो द्वाभ्यां पर्वाभ्यां किं लभामहे ? राशित्रयस्थापना-१२४ / 58412 / अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं, जातानि सप्तदशशतान्यष्टषष्ट्यधिकानि 1768 | तेषां चतुर्विशत्यधिकेन शतेन भागहरण, लब्धानि चतुर्दश मण्डलानि, पञ्चदशस्य च मण्डलस्य द्वात्रिंशचतुर्विशत्यधिकशतभागाः। 14 / ' ता चंदेणं " इत्यादि सूर्यविषयं प्रश्नसूत्रं सुगमम्।" ता पन्नरस " इत्यादि / पञ्चदश चतुर्भागन्यूनानि मण्डलानि चरति, एकं च चतुविंशत्यधिकशतभागं मण्डलस्य। किमुक्तं भवति? चतुर्दश परिपूर्णानि मण्डलानि, पञ्चदशस्य च मण्डलस्य चतुर्नवतिचतुर्विशत्यधिकशतभागान् चरति / तथाहि-यदि चतुर्विशत्यधिकेन पर्वशतेन नव शतानि पञ्चदशोत्तराणि मण्डलानां लभ्यन्ते, ततो द्वाभ्यां किं लभामहे ? राशित्रयस्थापना-१२४१६१५२। अत्रान्त्येन राशिना मध्यराशेर्गुणनं, जातान्यष्टादश शतानि त्रिंशदधिकानि। 1830 / एतेषामाद्येन राशिना चतुर्विशत्यधिकेन शतेन भागहरणं, लब्धानि चतुर्दश मण्डलानि, पञ्चदशस्य च मण्डलस्य चतुर्नवतिचतुर्विशत्यधिकशतभागाः। 14 वश इति।" ता चंदेणं'' इत्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमम्। भगवानाह"ता पण्णरस" इत्यादि। पञ्चदश मण्डलानि चतुर्भागन्यूनानि चरति, षट्चतुर्विशत्यधिकशतभागान्मण्डलस्य। किमुक्तं भवति?-परिपूर्णानि चतुर्दशमण्डलानि चरति, पञ्चदशस्य च मण्डलस्य नवनवति चतुविशत्यधिकशतभागान् / तथाहि-यदि चतुर्विशत्यधिकेन पर्वशतेनाष्टादश शतानि पञ्चत्रिंशदधिकानि अर्द्धमण्डलानां लभ्यन्ते, ततो द्वाभ्यां पर्वभ्यां किं लभामहे ? राशित्रयस्थापना-१२४ / 1835 / 2 / अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं, जातानि षट्त्रिंशच्छतानि सप्तत्वधिकानि। 3670 / एतेषामाद्येन राशिना चतुविंशत्यधिकशतरूपेण भागहरणं, लब्धा एकोनत्रिंशत् , शेषास्ति-प्ठन्ति चतुःसप्ततिः / इदं चार्द्धमण्डलगतं परिमाणम् / द्वाभ्यां चार्द्धमण्डलाभ्यामेकं परिपूर्ण मण्डल, ततोऽस्य राशेकिन भागहारः, लब्धानि चतुर्दश मण्डलानि, पञ्चदशस्य च मण्डलस्य नवनवतिश्चतुर्विशत्यधिकशतभागाः। 14 / (44) साम्प्रतमृतृमासमधिकृत्य चन्द्राऽऽदीना मण्डल निरूपणां करोतिता उउणा मासेणं चंदे कति मंडलाइंचरति ? ता चोद्दसमंडलाइं चरति, तीसं च एगट्ठिभागे मंडलस्स / ता उउणा मासेणं सूरे कति मंडलाइं चरति ? ता पणरस मंडलाई चरति / ता उउणा मासेणं णक्खत्ते कति मंडलाइं चरति ? ता पणरस मंडलाइं चरति, पंच य बावीससतभागे मंडलस्स। "ता उउमासेणं चंदे" इत्यादि। ऋतुमासेन कर्ममासेन चन्द्रा कति मण्डलानि चरति ? भगवानाह- " ता चोइस " इत्यादि / चतुर्दश मण्डलानि चरति / पञ्चदशस्य च मण्डलस्य त्रिंशतमेकषष्टिभागाद् / तथाहि-यदि एकषष्ट्या कर्ममासैरष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां लभ्यन्ते, तत एकेन कर्ममासेन किं लभामहे ? राशित्रयस्थापना-६१ / 884 | 1 | अत्रान्त्येन राशिना एकलक्षणेन मध्यराशेर्गुणनं, जातः सतावानेव। तस्य एकषष्ट्या भागहरणं, लब्धानि परिपूर्णानि चतुर्दश मण्डलानि, पञ्चदशस्य च मण्डलस्य त्रिंशदेकषष्टिभागाः। 1469 / " ता उउणा मासेणं " इत्यादि सूर्यविषय प्रश्नसूत्र सुगमम् / भगवानाह- " ता पणरस " इत्यादि / पञ्चदश परिपूर्णानि मण्डलानि चरति। तथाहि-यद्येकषष्ट्या कर्ममासैनव शतानि पञ्चदशोत्तराणि सूर्यमण्डलानां लभ्यन्ते, तत एकेन कर्ममासेन किं लभामहे ? राशित्रयस्थापना-६१ / 615 / 1 / अत्रान्त्येन राशिना मध्यराशिगुण्यते, जातः सतावानेव, तस्यैकषष्ट्या भागहरणं, लब्धानि परिपूर्णानि पञ्चदश मण्डलानि / 15 / " ता उउणा मासेणं " इत्यादि नक्षत्रविषय प्रश्नसूत्रं सुगमम् / भगवानाह-" ता पणरस" इत्यादि। पञ्चदशमण्डलानि चरति, षोडशस्यच मण्डलस्य च पञ्चद्वाविंशतिशतभागान् / तथा-हि-यदि द्वाविंशेन कर्ममासशतेनाष्टादश शतानि पञ्चत्रिंशदधिकानि मण्डलानि नक्षत्रस्य लभ्यन्ते, तत एकेन कर्मभासेन किंलभामहे ? राशित्रयस्थापना-१२२११८३५॥ 1 / अत्रान्त्येन राशिना मध्यराशेर्गुणनं, जातः स तावानेव, तस्याऽऽद्ये न राशिना द्वाविंशत्यधिकशतरूपेण भागहरणं, लब्धानि पञ्चदश मण्डलानि, षोड-- शस्य च पञ्चद्वाविंशशतभागाः। 15 / वझे। (45) संप्रति सूर्यमासमधिकृत्य चन्द्राऽऽदीनां मण्डलानि निरूपयतिता आइच्चेणं मासेणं चंदे काते मंडलाई चरति? ता चोद्दसमंडलाइं चरति, एक्कारसय पन्नरसभागे मंडलस्स / ता आइचेणं मासेणं सूरे कति मंडलाइं चरति? ता पणरस चउभागाई मंडलाइं चरति / ता आइच्चेणं मासेणं णक्खत्ते कति मंडलाई चरति ? ता पणरस चउभागाइं मंडलाइं चरति, पंचतीसं च वीससतभागे मंडलस्स।।। "ता आइचेणं'' इत्यादि।' ता' इति पूर्ववत् / आदित्येन मासेन चन्द्रः कति मण्डलानि चरति ? भगवानाह-चतुर्दश मण्डलानि चरति, पञ्चदशस्य च मण्डलस्य एकादश पञ्चदश भागान्। तथाहियदि षष्ट्या सूर्यमासैरष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां चन्द्रस्यलभ्यन्ते, तत एकेन सूर्यमासेन किंलभामहे ? राशित्रयस्थापना६०। 884 / 1 / अत्रान्त्येन राशिना मध्यराशेर्गुणनं, जातः स